काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 115, कुल 828 में से
संदर्भ में पढ़ें१०८ ॥ काशिका ॥ २ ॥ ३ ॥ अन्तरान्तरेण युक्ते ॥ ४ ॥ द्वितीया स्वर्यते न तृतीया । अन्तरान्तरेणशब्दौ निपातौ साहचर्याद्- स्ते। ताभ्यां योगे द्वितीया विभक्तिर्भवति । अनुप्रवादो योगः । तत्रान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । अन्तरेणशब्दस्तु तच्च विनार्थं च । अन्तरा त्वां च मां च कमण्डलुः । अन्तरेण त्वां च मां च कमण्डलुः * । अन्तरेण पुरुषकारं न किं चिलभ्यते । युक्तग्रहणं किम् । अन्तरा तक्षशिलां च पाटलिपुत्रं सुघ्नस्य प्राकारः ॥ कालाध्वनोरत्यन्तसंयोगे ॥ ५ ॥ कालशब्देभ्यो ऽध्वशब्देभ्यश्च द्वितीया विभक्तिर्भवति अत्यन्तसंयोगे गम्यमाने † । क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः संबन्धो ऽत्यन्तसंयोगः । मासम्धीते । संवत्सरमधीते । मासं कल्याणी । संवत्सरं कल्याणी । मासं गुडधानाः । संवत्सरं गुडधानाः । अध्वनः खल्वपि । क्रोशमधीते । योजनम- धीते । क्रोशं कुटिला नदी । योजनं कुटिला नदी । क्रोशं पर्वतः । योजनं पर्वतः । अत्यन्तसंयोग इति किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ अपवर्गे तृतीया ॥ ६ ॥ कालाध्वनोरत्यन्तसंयोग इति वर्तते । अपवर्गः फलप्राप्तौ सत्यां क्रिया- परिसमाप्तिः । अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भे- वति । मासेनानुवाको ऽधीतः । संवत्सरेणानुवाको ऽधीतः । अध्वनः । क्रोशेना- नुवाको ऽधीतः । योजनेनानुवाको ऽधीतः । अपवर्ग इति किम् । क्रोशमधीतो ऽनुवाकः । मासमधीतः । कर्तृव्यावृत्तौ फलसिद्धेरभावात् तृतीया न भवति । मासमधीतो ऽनुवाको न चानेन गृहीतः ॥ सप्तमीपञ्चम्यौ कारकमध्ये ॥ ७ ॥ कालाध्वनोरिति वर्तते । कारकमध्ये यौ कालाध्वानौ ताभ्यां सप्त- मीपञ्चम्यौ विभक्ती भवतः । अद्य भुक्त्वा देवदत्तो द्व्यहे द्व्यहाद्वा भोक्ता । त्र्यहे त्र्यहाद्भोक्ता । कर्तृशक्त्योर्मध्ये कालः । इहस्थो ऽयमिष्वासः क्रोशे लक्ष्यं विध्यति । क्रोशाल्लक्ष्यं विध्यति । कर्तृकर्मणोः कारकयोः कर्मोपादानयोः कर्मो- धिकरणयोर्वा मध्ये क्रोशः । संख्यातानुदेशो न भवत्यस्वरितत्वात् ॥ कर्मप्रवचनीययुक्ते द्वितीया ॥ ८ ॥ कर्मप्रवचनीयैर्युक्ते द्वितीया विभक्तिर्भवति । अनुर्लक्षणे । शाकल्यस्य संहितामनुप्रावर्षत् । अगस्त्यमन्वसिच्यन्तप्रजाः ॥
- तव मम मध्ये कमण्डलुरित्यर्थः इत्यादिह क्व चित् । † अनुप्रवादो ऽयं योग इत्यादिह क्व चित् ।