काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 116, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ । ३ ॥ १०९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ ९ ॥ कर्मप्रवचनीययुक्तइति वर्तते। यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनी- यैर्युक्ते तत्र सप्तमी विभक्तिर्भवति। उपखार्यां द्रोणः। उपनिष्के कार्षापणम्। यस्य चेश्वरवचनमिति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति। अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः, इति। द्वितीयापवादो योगः ॥ पञ्चम्यपाङ्परिभिः ॥ १० ॥ अप आङ् परि इत्येतैः कर्मप्रवचनीयैर्येंगे पञ्चमी विभक्तिर्भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद्वृष्टो देवः। परिपरि त्रिगर्तेभ्यो वृष्टो देवः। अपेन साहचर्यात्परिर्वर्जनार्थस्य ग्रहणम्। तेनेह न भवति। वृक्षं परि विद्योतते विद्युत् ॥ प्रतिनिधिप्रतिदाने च यस्मात् ॥ ११ ॥ मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। यस्मात्प्र- तिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर्भवति। अभि- मन्युरर्जुनतः प्रति। प्रद्युम्नो वासुदेवतः प्रति। माषानस्मैतिलेभ्यः प्रतियच्छति। ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते न तु यतः प्रतिनिधिप्रतिदाने। नैष दोषः। संबन्धसंबन्धात्तस्यापि योगो ऽस्त्येव ॥ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि ॥ १२ ॥ गत्यर्थानां धातूनां चेष्टाक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारके ऽध्व- वर्जिते द्वितीयाचतुर्थ्यौ भवतः। ग्रामं गच्छति। ग्रामाय गच्छति। ग्रामं व्रजति। ग्रामाय व्रजति। गत्यर्थग्रहणं किम्। ओदनं पचति। कर्मणीति किम्। अश्वेन व्रजति। चेष्टायामिति किम्। मनसा पाटलिपुत्रं गच्छति। अनध्वनीति किम्। अध्वानं गच्छति। अध्वन्यर्थग्रहणम्। पन्थानं गच्छति। मार्गं गच्छति। आस्थितप्रतिषेधश्चायं विज्ञेयः। आस्थितः संप्राप्तः, आक्रान्त उच्यते। यत्र उत्पथेन पन्थानं गच्छति, तत्र भवितव्यमेव चतुर्थ्या। पथे गच्छ- तीति। द्वितीयाग्रहणं किम्। न चतुर्थ्यत्र विकल्प्येत। अपवादविषये ऽपि यथा स्यात्। ग्रामं गन्ता। ग्रामाय गन्ता। कृद्योगलक्षणा षष्ठी न भवति ॥ चतुर्थी संप्रदाने ॥ १३ ॥ संप्रदाने कारके चतुर्थी विभक्तिर्भवति। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति। देवदत्ताय रोचते। पुष्पेभ्यः स्पृहयति। इत्यादि ॥ चतुर्थीविधाने तादर्थ्यउपसंख्यानम् ॥ * ॥ यूपाय दारु। कुण्डलाय हिर- ण्यम्। रन्धनाय स्थाली अवहननायोदूखलम् ॥ क्लृपिसंपद्यमाने चतुर्थी