भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 117, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 117

११० ॥ काशिका ॥ २ ॥ ३ ॥ वक्तव्यम् ॥ * ॥ मूत्राय कल्पते यवागूः । उच्चाराय कल्पते यवागूः । कृपीत्य- र्थेनिर्देशः । मूत्राय संपद्यते यवागूः । मूत्राय जायते यवागूः ॥ उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या ॥ * ॥ वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ हितयोगे चतुर्थी वक्तव्या ॥ * ॥ गोभ्यो हितम् । अरोचकिने हितम् ॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १४ ॥ क्रिया क्रियार्था उपपदं यस्य सो ऽयं क्रियार्थोपपदः । तुमुन्ण्वुलौ क्रियायां क्रियार्थायामित्येष विषयो लक्ष्यते । क्रियार्थोपपदस्य च स्थानिनो ऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति । द्वितीयापवादो योगः । एधेभ्यो व्रजति । पुष्पेभ्यो व्रजति । क्रियार्थोपपदस्येति किम् । प्रविश्य पिण्डीम् । प्रविशतर्पणम् । भक्तिरत्र स्थानी न तु क्रियार्थोपपदः । कर्मणीति किम् । एधेभ्यो व्रजति शकटेन । स्थानिन इति किम् । एधानाहर्तुं व्रजति ॥ तुमर्थाच्च भाववचनात् ॥ १५ ॥ तुमुना समानार्थस्तुमर्थः । तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच्च- तुर्थी विभक्तिर्भवति । भाववचनाश्चेति वक्ष्यति, तस्येदं ग्रहणम् । पाकाय व्रजति । त्यागाय व्रजति । भूतये व्रजति । संपत्तये व्रजति । तुमर्थादिति किम् । पाकः, त्यागो, रागः । भाववचनादिति किम् । कारको व्रजति ॥ नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ॥ १६ ॥ नमः स्वस्ति स्वाहा स्वधा ऽलं वषट् इत्येतैर्योगे चतुर्थी विभक्तिर्भव- ति । नमो देवेभ्यः । स्वस्ति प्रजाभ्यः । स्वाहा ऽग्नये । स्वधा पितृभ्यः । अलं मल्लॊ मल्लाय । अलमिति पर्याप्त्यर्थग्रहणम् । प्रभुर्मल्लो मल्लाय । शक्तो मल्लॊ मल्लाय । वषडग्नये । वषडिन्द्राय । चकारः पुनरस्यैव समुच्चयार्थः । तेनाशीर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् । स्वस्ति ब्राह्मणेभ्यः ॥ मन्यकर्मण्यनादरे विभाषा ऽप्राणिषु ॥ १७ ॥ मन्यतेः कर्मणि, मन्यकर्मणि । मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर्भवति अनादरे गम्यमाने । अनादरस्तिरस्कारः । न त्वा तृणं मन्ये । न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये । न त्वा बुसाय मन्ये । मन्यातिग्रहणं किम् । न त्वा तृणं चिन्तयामि । विकरणनिर्देशः किमर्थः । न त्वा तृणं मन्वे । अनादरेति किम् ।

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 117, कुल 828 में से · BharatKosha