काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 119, कुल 828 में से
संदर्भ में पढ़ें११२ ॥ काशिका ॥ २ ॥ ३ ॥ शिखया परिव्राजकम् । इह न भवति । कमण्डलुपाणिश्च्छात्र इति । लक्षकस्य समासे ऽन्तर्भूतत्वात् । इत्थंभूत इति किम् । वृक्षं प्रति विद्योतनम्* ॥ संज्ञो ऽन्यतरस्यां कर्मणि ॥ २२ ॥ संपूर्वस्य जानातेः कर्मणि कारके द्वितीयायां प्राप्तायामन्यतरस्यां तृतीया विभक्तिर्भवति । पित्रा संजानीते । पितरं संजानीते । मात्रा संजा- नीते । मातरं संजानीते† ॥ हेतौ ॥ २३ ॥ फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते । तद्वाचिनस्तृतीया विभक्ति- र्भवति । धनेन कुलम् । कन्यया शोकः । विद्यया यशः ॥ अकर्तर्यृणे पञ्चमी ॥ २४ ॥ हेताविति वर्तते । कर्तृवर्जितं यदृणं हेतुस्ततः पञ्चमी विभक्तिर्भवति । तृतीयापवादो योगः । शताद्बद्धः । सहस्राद्बद्धः । अकर्तरीति किम् । शतेन बन्धितः । शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसंज्ञम् ॥ विभाषा गुणे ऽस्त्रियाम् ॥ २५ ॥ हेताविति वर्तते । गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भ- वति‡ । जाड्याद्बद्धः । जाड्येन बद्धः । पाण्डित्यान् मुक्तः । पाण्डित्येन मुक्तः । गुणग्रहणं किम् । धनेन कुलम् । अस्त्रियामिति किम् । बुद्ध्या मुक्तः । प्रज्ञया मुक्तः ॥ षष्ठी हेतुप्रयोगे ॥ २६ ॥ हेतोः प्रयोगो हेतु प्रयोगः । हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर्भवति । अन्नस्य हेतोर्वसति ॥ सर्वनाम्नस्तृतीया च ॥ २७ ॥ सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति षष्ठी च । पूर्वेण षष्ठ्यामेव प्राप्तायामिदमुच्यते । कस्य हेतोर्वसति । केन हेतुना वसति ॥ यस्य हेतोर्वसति । येन हेतुना वसति ॥ निमित्तकारणहेतुषु सर्वासां प्रायदर्श- नम् ॥ * ॥ किं निमित्तं वसति । केन निमित्तेन वसति । कस्मै निमित्ताय वसति । कस्मान्निमित्ताद्वसति । कस्य निमित्तस्य वसति । कस्मिन्निमित्ते वसति । एवं कारणहेत्वोरप्युदाहार्यम् । अर्थग्रहणं चैतत् । पर्यायोपादानं तु
- इत्थंभूत इत्यारभ्य विद्योतनमित्यन्तः पाठो बहुषु पुस्तकेषु न दृश्यते । † संपूर्वः किम् । मातरं जानाति । पितरं जानाति । कर्मणीति किम् । पुत्रेण गुणैः संजानीते पिता । इत्यधिकं क्व चित् । ‡ तृतीयापवादो ऽयं योग इत्यधिकं कुत्र चित् ।