काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 120, कुल 828 में से
संदर्भ में पढ़ेंस्वरूपविधिर्मा विज्ञायीति । तेनेहापि भवति । किं प्रयोजनं वसति । केन प्रयोजनेन वसति । कस्मै प्रयोजनाय वसति । कस्मात्प्रयोजनाद् वसति । कस्य प्रयोजनस्य वसति । कस्मिन् प्रयोजने वसति ॥ अपादाने पञ्चमी ॥ २८ ॥ अपादाने कारके पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति । पर्वताद- वरोहति । वृकेभ्यो बिभेति । अध्ययनात्पराजयते । पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम् ॥ * ॥ प्रासादमारुह्य प्रेक्षते, प्रासादात्प्रेक्षते ॥ अधिकरणे चोपसंख्यानम् ॥ * ॥ आसने उपविश्य प्रेक्षते, आसनात्प्रेक्षते । शयनात्प्रेक्षते ॥ प्रश्नाख्यानयोश्च पञ्चमी वक्तव्या ॥ * ॥ कुतो भवान्, पाटलिपुत्रात् ॥ यत- श्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या ॥ * ॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि । कार्त्तिक्या आग्रहायणी मासे ॥ तद्युक्तात्काले सप्तमी वक्तव्या ॥ * ॥ कार्त्तिक्या आग्रहायणी मासे ॥ अध्वनः प्रथमा सप्तमी च वक्तव्या ॥ * ॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा ॥ अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २९ ॥ अन्य आरात् इतर ऋते दिक्शब्द अञ्चूत्तरपद आच् आहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति । अन्य इत्यर्थग्रहणम् । तेन पर्यायप्रयोगेपि भवति । अन्यो देवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् । विलक्षणो देवद- त्तात् । आराच्छब्दो दूरान्तिकार्थे वर्तते । तत्र दूरान्तिकार्थैः षष्ठ्यन्यतरस्या- मिति प्राप्ते पञ्चमी विधीयते । आराद्देवदत्तात् । आराद्यज्ञदत्तात् । इतर इति निर्देश्यमानप्रतियोगी पदार्थ उच्यते । इतरो देवदत्तात् । ऋते इति चाव्ययं वर्जनार्थे । ऋते देवदत्तात् । ऋते यज्ञदत्तात् । दिक्शब्दः । पूर्वो ग्रामात् । उत्तरो ग्रामात् । पूर्वो ग्रीष्माद्वसन्तः । उत्तरो ग्रीष्मो वसन्तात् । दिक्शब्द इत्यत्र शब्दग्रहणं देशकालवृत्तिनापि दिक्शब्देन योगे यथा स्यात् । इतरथा हि दिग्वृत्तिनैव स्यात् । इयमस्याः पूर्वेति । इह तु न स्यात् । अयमस्मात्पूर्वः काल इति । अञ्चूत्तरपद । प्राग् ग्रामात् । प्रत्यग् ग्रामात् । ननु चायमपि दिक्शब्द एव । षष्ठ्यतसर्थप्रत्ययेनेति वक्ष्यति, तस्यायं पुरस्तादपकर्षः । आच् । दक्षिणा ग्रामात् । उत्तरा ग्रामात् । आहि । दक्षिणाद्हि ग्रामात् । उत्तराद्हि ग्रामात् ॥ षष्ठ्यतसर्थप्रत्ययेन ॥ ३० ॥ दक्षिणोत्तराभ्यामतसुजिति वक्ष्यति, तस्येदं ग्रहणम् । अतसर्थेन प्रत्य- येन युक्ते षष्ठी विभक्तिर्भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । पुरस्ताद् ग्रामस्य । उपरि ग्रामस्य । उपरिष्टाद्ग्रामस्य ॥ ८