काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 121, कुल 828 में से
संदर्भ में पढ़ें१९४ ॥ काशिका ॥ २ ॥ ३ ॥ एनपा द्वितीया ॥ ३१ ॥ एनबन्यादन्यतरस्यामदूरे पञ्चम्या इति वक्ष्यति । तेन युक्ते द्वितीया विभक्तिर्- भवति । पूर्वेण षष्ठ्यां प्राप्तायामिदं वचनम् । दक्षिणेन ग्रामम् । उत्तरेण ग्रामम् । षष्ठ्यपीष्यते । दक्षिणेन ग्रामस्य । उत्तरेण ग्रामस्य । तदर्थं योगविभागः कर्तव्यः ॥ पृथग्वि नानानाभिस्तृतीया ऽन्यतरस्याम् ॥ ३२ ॥ पञ्चमीग्रहणमनुवर्तते । पृथक् विना नाना इत्येतैर्योगे तृतीया विभक्ति- र्भवति अन्यतरस्यां पञ्चमी च । पृथग् देवदत्तेन । पृथग् देवदत्तात् । विना देवदत्तेन । विना देवदत्तात् । नाना देवदत्तेन । नाना देवदत्तात् । पृथग्वि- नानानाभिरिति योगविभागे द्वितीयार्थः । विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान्दोषान्केनेमौ पातितौ द्रुमौ ॥ करणे च स्तोकाल्पकृच्छ्रकतिपयस्या- सत्त्ववचनस्य ॥ ३३ ॥ स्तोक अल्प कृच्छ्र कतिपय इत्येतेभ्यो ऽसत्त्ववचनेभ्यः करणे कारके ऽन्यतरस्यां तृतीया भवति । पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करणेत्येव सिद्धा । यदा तु धर्ममात्रं करणतया विवक्ष्यते न द्रव्यं, तदा स्तोकादीनाम- सत्त्ववचनता । स्तोकान्मुक्तः । स्तोकेन मुक्तः । अल्पान्मुक्तः । अल्पेन मुक्तः । कृच्छ्रान्मुक्तः । कृच्छ्रेण मुक्तः । कतिपयान्मुक्तः । कतिपयेन मुक्तः । असत्त्ववच- नस्येति किम् । स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । करणेति किम् । क्रियाविशेषणे कर्मणि मा भूत् । स्तोकं मुञ्चति ॥ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ ३४ ॥ पञ्चम्यनुवर्तते । दूरान्तिकार्थैः शब्दैर्यगे षष्ठी विभक्तिर्भवत्यन्यतरस्यां पञ्चमी च । दूरं ग्रामात् । दूरं ग्रामस्य । विप्रकृष्टं ग्रामात् । विप्रकृष्टं ग्रामस्य । अन्तिकं ग्रामात् । अन्तिकं ग्रामस्य । अभ्याशं ग्रामात् । अभ्याशं ग्रामस्य । अन्य- तरस्यांग्रहणं पञ्चम्यर्थम् । इतरथा हि तृतीया पक्षे स्यात् ॥ दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥ पञ्चम्यनुवर्तते । दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात्पञ्चमी तृतीयापि समुच्चीयते । दूरं ग्रामस्य । दूराद्ग्रामस्य । दूरेण ग्रामस्य । अन्तिकं ग्रामस्य । अन्तिकाद्ग्रामस्य । अन्तिकेन ग्रामस्य । प्रातिपदि- कार्थे विधानम् । असत्त्ववचनग्रहणं चानुवर्तते । सत्त्वशब्देभ्यो यथायथं विभ- क्तयो भवन्ति । दूरः पन्थाः । दूराय पथे देहि । दूरस्य पथः स्वम् ॥