काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 123, कुल 828 में से
संदर्भ में पढ़ें११६ ॥ काशिका ॥ २ । ३ ॥ गोषु दायादः । गवां साक्षी । गोषु साक्षी । गवां प्रतिभूः । गोषु प्रतिभूः । गवां प्रसूतः । गोषु प्रसूतः । षष्ठ्यामेव प्राप्तायां पक्षे सप्तमीविधानार्थं वचनम् ॥ आयुक्तकुशलाभ्यां चासेवायाम् ॥ ४० ॥ षष्ठीसप्तम्यौ वर्तेते । आयुक्तो व्यापारितः * कुशलो निपुणः ताभ्यां योगे आसेवायाम् गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः । आसेवा तात्प- र्यम् । आयुक्तः कटकरणस्य । आयुक्तः कटकरणे । कुशलः कटकरणस्य । कुशलः कटकरणे । आसेवायामिति किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः । तत्र सप्तम्येवाधिकरणे भवति ॥ यतश्च निर्धारणम् ॥ ४१ ॥ षष्ठीसप्तम्यौ वर्तेते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । यतो निर्धारणम् ततः षष्ठीसप्तम्यौ विभक्तौ भवतः । मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु क्षत्रियः शूरतमः । गवां कृष्णा संपन्नक्षीरतमा । गोषु । कृष्णा संपन्नक्षीरतमा । अध्वगानां धावन्तः शीघ्रतमाः । अध्वगेषु धावन्तः शीघ्रतमाः ॥ पञ्चमी विभक्ते ॥ ४२ ॥ यतश्च निर्धारणमिति वर्तते । षष्ठीसप्तम्यपवादो योगः । विभागो विभक्तम् । यस्मिन्निर्धारणाश्रये विभक्तमस्ति ततः पञ्चमी विभक्तिर्भवति । माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः । आढ्यतराः ॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ४३ ॥ साधु निपुण इत्येताभ्यां योगे ऽर्चायां गम्यमानायां सप्तमी विभक्ति- र्भवति, न चेत् प्रतिः प्रयुज्यते । मातरि साधुः । पितरि साधुः । मातरि निपुणः । पितरि निपुणः । अर्चायामिति किम् । साधुर्भृत्यो राज्ञः । तत्त्वक- थने न भवति । अप्रतेरिति किम् । साधुर्देवदत्तो मातरं प्रति ॥ अप्रत्यादि- भिरिति वक्तव्यम् ॥ * ॥ साधुर्देवदत्तो मातरं परि । मातरमनु ॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात्सप्त- मी च । प्रसितः प्रसक्तो, यस्तत्र नित्यमेवावबद्धः स उच्यते । केशैः प्रसितः । केशेषु प्रसितः । केशैरुत्सुकः । केशेषूत्सुकः ॥ नक्षत्रे च लुपि ॥ ४५ ॥ तृतीयासप्तम्यावनुवर्तेते । लुबन्तान्नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भवतः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पक्तौ-
- व्यापृत इति बहुषु पुस्तकेषु पाठः ।