काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 124, कुल 828 में से
संदर्भ में पढ़ेंदनम् । मघासु पललौदनम् । नतच्छ्रदिति किम् । पञ्चालेषु वसति । लुपीति किम् । मघासु यः । इह कस्मान्न भवति । अद्य पुष्यः । अद्य कृत्तिका । अधिकरणेति वर्तते । वचनं तु षष्ठे तृतीयाविधानार्थम् ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ ४६ ॥ प्रातिपदिकार्थः सत्ता । लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि । परिमाणं, द्रोणः खारी आढकम्* । वचन,मेकत्वद्वित्वबहुत्वानि । मात्रशब्दः प्रत्येकम- भिसंबध्यते । प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे वचनमात्रे प्रथमा विभक्तिर्भवति । प्रातिपदिकार्थमात्रे । उच्चैः । नीचैः । लिङ्गग्रहणं किम् । कुमारी, वृक्षः, कुण्डम्, इत्यत्रापि यथा स्यात् । परिमाणग्रहणं किम् । द्रोणः, खारी, आढकम्, इत्यत्रापि यथा स्यात् । वचनग्रहणं किम् । एकत्वादियुक्ते- ष्वाप यथा स्यात् । एकः, द्वौ, बहवः । प्रातिपदिकग्रहणं किम् । निपातस्यान- र्थकस्य प्रातिपदिकत्वमुक्तं ततो ऽपि यथा स्यात् । प्रलम्बते । अव्यागच्छति ॥ संबोधने च ॥ ४७ ॥ आभिमुख्यकरणं संबोधनम्, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नो- तीति वचनमारभ्यते । संबोधने च प्रथमा विभक्तिर्भवति । हे देवदत्त । हे देवदत्तौ । हे देवदत्ताः ॥ सा ऽऽमन्त्रितम् ॥ ४८ ॥ संबोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं भवति । तथा चैवो- दाहृतम् । आमन्त्रितप्रदेशा आमन्त्रितं पूर्वमविद्यमानवद् इत्येवमादयः † ॥ एकवचनं संबुद्धिः ॥ ४९ ॥ आमन्त्रितप्रथमाया यदेकवचनं तत्संबुद्धिसंज्ञं भवति । हे पटो । हे देव- दत्त । संबुद्धिप्रदेशा एङ्ह्रस्वात्संबुद्धेरित्येवमादयः ॥ षष्ठी शेषे ॥ ५० ॥ कर्मादिभ्यो ऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेष- स्तत्र षष्ठी विभक्तिर्भवति । राज्ञः पुरुषः । पशोः पादः । पितुः पुत्रः ॥ ज्ञो ऽविदर्थस्य करणे ॥ ५१ ॥ ‡ जानातेरविदर्थस्याज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति । सर्पिषो जानीते । मधुनो जानीते । सर्पिषा करणेन प्रवर्ततइत्यर्थः । प्रवृत्तिक-
* 'परिमाणं प्रस्थादि' इति पा० ३ । † 'आमन्त्रितस्य च' इत्येवमादयः । इति पा० ३ । ‡ अत्र 'शेषइत्यनुवर्तते' इत्यधिकं क्व चित् ।