भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

दनम् । मघासु पललौदनम् । नतच्छ्रदिति किम् । पञ्चालेषु वसति । लुपीति किम् । मघासु यः । इह कस्मान्न भवति । अद्य पुष्यः । अद्य कृत्तिका । अधिकरणेति वर्तते । वचनं तु षष्ठे तृतीयाविधानार्थम् ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ ४६ ॥ प्रातिपदिकार्थः सत्ता । लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि । परिमाणं, द्रोणः खारी आढकम्* । वचन,मेकत्वद्वित्वबहुत्वानि । मात्रशब्दः प्रत्येकम- भिसंबध्यते । प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे वचनमात्रे प्रथमा विभक्तिर्भवति । प्रातिपदिकार्थमात्रे । उच्चैः । नीचैः । लिङ्गग्रहणं किम् । कुमारी, वृक्षः, कुण्डम्, इत्यत्रापि यथा स्यात् । परिमाणग्रहणं किम् । द्रोणः, खारी, आढकम्, इत्यत्रापि यथा स्यात् । वचनग्रहणं किम् । एकत्वादियुक्ते- ष्वाप यथा स्यात् । एकः, द्वौ, बहवः । प्रातिपदिकग्रहणं किम् । निपातस्यान- र्थकस्य प्रातिपदिकत्वमुक्तं ततो ऽपि यथा स्यात् । प्रलम्बते । अव्यागच्छति ॥ संबोधने च ॥ ४७ ॥ आभिमुख्यकरणं संबोधनम्, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नो- तीति वचनमारभ्यते । संबोधने च प्रथमा विभक्तिर्भवति । हे देवदत्त । हे देवदत्तौ । हे देवदत्ताः ॥ सा ऽऽमन्त्रितम् ॥ ४८ ॥ संबोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं भवति । तथा चैवो- दाहृतम् । आमन्त्रितप्रदेशा आमन्त्रितं पूर्वमविद्यमानवद् इत्येवमादयः † ॥ एकवचनं संबुद्धिः ॥ ४९ ॥ आमन्त्रितप्रथमाया यदेकवचनं तत्संबुद्धिसंज्ञं भवति । हे पटो । हे देव- दत्त । संबुद्धिप्रदेशा एङ्ह्रस्वात्संबुद्धेरित्येवमादयः ॥ षष्ठी शेषे ॥ ५० ॥ कर्मादिभ्यो ऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेष- स्तत्र षष्ठी विभक्तिर्भवति । राज्ञः पुरुषः । पशोः पादः । पितुः पुत्रः ॥ ज्ञो ऽविदर्थस्य करणे ॥ ५१ ॥ ‡ जानातेरविदर्थस्याज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति । सर्पिषो जानीते । मधुनो जानीते । सर्पिषा करणेन प्रवर्ततइत्यर्थः । प्रवृत्तिक-


* 'परिमाणं प्रस्थादि' इति पा० ३ । † 'आमन्त्रितस्य च' इत्येवमादयः । इति पा० ३ । ‡ अत्र 'शेषइत्यनुवर्तते' इत्यधिकं क्व चित् ।

१९८ ॥ काशिका ॥ २ ॥ ३ ॥ ध्मो जानातिरविदर्थः । अथ वा मिथ्याज्ञानवचनः । सर्पिषि रक्तः प्रतिहतो वा । चित्तभ्राम्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते । मिथ्याज्ञानमज्ञानमेव । अविदर्थस्येति किम् । स्वरेण पुत्रं जानाति ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ शेषइति वर्तते । अधीगर्थाः स्मरणार्थाः । दय दानगतिरक्षणेषु । ईश ऐश्वर्ये । एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । मातु- रध्येति । मातुः स्मरति । सर्पिषो दयते । सर्पिष ईष्टे । मधुन ईष्टे । कर्म- णीति किम् । मातुर्गुणैः स्मरति । शेषइति किम् । मातरं स्मरति ॥ कृञः प्रतियत्ने ॥ ५३ ॥ सतो गुणान्तराधानं प्रतियत्नः । करोतेः कर्मणि कारके शेषत्वेन विव- क्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति । एधोदकस्योपस्कुरुते । शस्त्रपञ्च- स्योपस्कुरुते । प्रतियत्नइति किम् । कटं करोति । कर्मणीति किम् । एधोदक- स्योपस्कुरुते प्रज्ञया । शेषइत्येव । एधोदकमुपस्कुरुते ॥ रुजार्थानां भाववचनानामज्वरेः ॥ ५४ ॥ रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । चौरस्य रुजति रोगः । चौर- स्यामयत्यामयः । रुजार्थानामिति किम् ॥ एति जीवन्तमानन्दो नरं वर्षशतादपि । जीव पुत्रक मामेवं तपः साहसमाचर* ॥ भाववचनानामिति किम् । नदी कूलानि रुजति । अज्वरेरिति किम् । चौरं ज्वरयति ज्वरः ॥ अज्वरिसन्ताप्योरिति वक्तव्यम् ॥ * ॥ चौरं सन्तापयति तापः । शेषइत्येव । चौरं रुजति रोगः ॥ आशिषि नाथः ॥ ५५ ॥ नाथृ नाधृ याञ्चोपतापैश्वर्याशीःषु पठ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । सर्पिषो नाथते । मधुनो नाथते । आशिषीति किम् । माणवकमुपनाथति, अङ्ग पुत्रकाधीष्व ॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥ ५६ ॥ जासि निप्रहण नाट क्राथ पिष् इत्येतेषां धातूनां हिंसाक्रियायां कर्मणि

  • कस्याश्चि खलु मातेयं लौकिको प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ इति पाठान्तरम् ॥

॥ काशिका ॥ २ ॥ ३ ॥ १९८ कारके षष्ठी विभक्तिर्भवति । जसु हिंसायां, जसु ताडने, इति च चुरादौ पठ्यते तस्येदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य *। चौरस्योज्जासयति। वृषल- स्योज्जासयति । निप्रहण इति संघातविगृहीतविपर्यस्तग्रहणम्। चौरस्य निप्रघ्न- न्ति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्योन्नाटयति । वृषलस्योन्नाटयति । चौरस्य क्राथयति । वृषलस्य क्राथयति । निपातनाद् दीर्घः । अयं हि घटादौ पठ्यते अथ क्रथ क्लथ क्रथ हिंसायां इति, तत्र घटादयो मित इति मित्संज्ञायां मितां ह्रस्व इति ह्रस्वत्वं स्यात् । चौरस्य पिनष्टि। वृषलस्य पिनष्टि। हिंसायामिति किम् । धानाः पिनष्टि। शेषइत्येव । चौरमुज्जासयति । एषामिति किम् । चौरं हिनस्ति । निप्रहण इति किम् । चौरं विहन्ति † ॥ व्यवहृपणोः समर्थयोः ॥ ५७ ॥ व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभ- क्तिर्भवति । द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः । शतस्य व्यवहरति । सहस्रस्य व्यवहरति । शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्मान्न भवति। स्तुत्यर्थस्य पणतेरायप्रत्यय इष्यते ‡॥ समर्थयोरिति किम् । शलाकां व्यवहरति । विक्षिपतीत्यर्थ

१२० ॥ काशिका ॥ २ ॥ ३ ॥ प्रेष्य इति इष्यतेर्दैवादिकस्य लोट्मध्यमपुरुषस्यैकवचनं, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते । प्रेष्यब्रुवोर्हविषः कर्मणः षष्ठी विभक्तिर्भवति देव- तासंप्रदाने सति । अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य । अग्नये छागस्य हविषो वपाया मेदसोनुब्रू३हि । प्रेष्यब्रुवोरिति किम् । अग्नये छागं हविर्वपां मेदो जुहुधि । हविष इति किम् । अग्नये गोमयान् प्रेष्य । देवतासंप्रदान इति किम् । माणवकाय पुरोडाशं प्रेष्य ॥ हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः ॥ * ॥ इन्द्रा- ग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रे३ष्य ॥ चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥ छन्दसि विषये चतुर्थ्यर्थे षष्ठी विभक्तिर्भवति * बहुलम् । पुरुषमृगश्चन्द्र- मसः । पुरुषमृगश्चन्द्रमसे । गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् । ते वनस्पति- भ्यः । बहुलग्रहणं किम् । कृष्णो रात्र्यै, हिमवतो हस्ती ॥ षष्ठ्यर्थे चतुर्थी वक्त- व्या ॥ * ॥ या खर्वेण पिबति तस्यै खर्वो जायते । या दतो धावति तस्यै श्याव- दन् । या नखानि कृन्तति तस्यै कुनखः । या ऽऽङ्क्ते तस्यै काणः । या ऽभ्यङ्क्ते तस्यै दुश्चर्मा । या केशान् प्रलिखति तस्यै खलतिः । अहल्यायै जारः ॥ यजेश्च करणे ॥ ६३ ॥ यजेर्धातोः करणे कारके छन्दसि बहुलं षष्ठी विभक्तिर्भवति । घृतस्य यजते । घृतेन यजते । सोमस्य यजते । सोमेन यजते † ॥ कृत्वोऽर्थप्रयोगे काले ऽधिकरणे ॥ ६४ ॥ छन्दसि बहुलमिति निवृत्तम् । कृत्वोऽर्थानां प्रत्ययानां प्रयोगे काले ऽधि- करणे षष्ठी विभक्तिर्भवति । पञ्चकृत्वो ऽह्नो भुङ्क्ते । द्विरह्नो ऽधीते । कृत्वोऽर्थ- ह्वयं किम् । अह्नि शेते । रात्रौ शेते । प्रयोगग्रहणं किम् । अहनि भुक्तम् । गम्यते हि द्विस्त्रिश्चतुरिति, न त्वप्रयुज्यमाने भवति । कालग्रहणं किम् । द्विः कांस्यपा- त्र्यां भुङ्क्ते । अधिकरणइति किम् । द्विरह्नो भुङ्क्ते । शेषइत्येव । द्विरहन्यधीते ॥ कर्तृकर्मणोः कृति ॥ ६५ ॥ कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति । भवतः शायिका । भवत आसिका । कर्मणि । अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्त्ता । कर्तृक- र्मणोरिति किम् । शरेण भेत्ता । कृतीति किम् । तद्धितप्रयोगे मा भूत् । कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । शेषइति निवृत्तं, पुनः कर्मग्रहणात् । इतरथा हि कर्तरि च कृतीति ब्रूयात् ॥

  • अत्र ‘देवतासंप्रदाने सति’ इत्याधिकं क्व चित् । † अत्र ‘कारकेइति किम् । अन्यत्र मा भूत्’ इत्याधिकं क्व चित् ।

॥ काशिका ॥ २ ॥ ३ ॥ १२१ उभयप्राप्तौ कर्मणि ॥ ६६ ॥ पूर्वेण षष्ठी प्राप्ता नियम्यते । उभयप्राप्ताविति बहुव्रीहिः । उभयोः प्राप्तिर्यस्मिन्कृति सोयमुभयप्राप्तिस्तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न कर्तरि । आश्चर्यो गवां दोहो ऽगोपालेन । रोचते मे ओदनस्य भोजनं देव- दत्तेन । साधु खलु पयसः पानं यज्ञदत्तेन । बहुव्रीहिविज्ञानादिह नियमो न भवति । आश्चर्यमिदमোদনस्य नाम पाको ब्राह्मणानां च प्रादुर्भाव इति ॥ अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यम् ॥ * ॥ भेदिका देवदत्तस्य काष्ठानाम् । चिकीर्षा देवदत्तस्य कटस्य ॥ शेषे विभाषा ॥ * ॥ अकाकारयोः स्त्रीप्रत्यययोर्ग्रहणात् तदपेक्षयाशेषः स्त्रीप्रत्यय एव गृह्यते । विचित्रा हि सूत्रस्य कृतिः पाणिनेः पाणिनिना वा ॥ के चिद्विशेषेणैव विभाषामिच्छन्ति ॥ शब्दानामनुशासनमाचार्येण, चाचार्यस्येति वा ॥ क्तस्य च वर्तमाने ॥ ६७ ॥ न लोकाव्ययनिष्ठाेति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते । क्तस्य वर्त- मानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति । राज्ञां मतः । राज्ञां बुद्धः । राज्ञां पूजितः । क्तस्येति किम् । ओदनं पचमानः । वर्तमानइति किम् । ग्रामं गतः ॥ नपुंसके भावउपसंख्यानम् ॥ * ॥ छात्रस्य हसितम् । मयूरस्य नृत्तम् । कोकिलस्य व्याहृतम् ॥ शेषविज्ञानात् सिद्धम् ॥ * ॥ तथा च कर्तृविवक्षायां तृतीयापि भवति । छात्रेण हसितमिति ॥ अधिकरणवाचिनश्च ॥ ६८ ॥ क्तोधिकरणे चेति यत्प्रति, तस्य प्रयोगे षष्ठी विभक्तिर्भवति । अयमपि प्रतिषेधापवादो योगः । इदमेषामासितम् । इदमेषां शयितम् । इदमहेः सृतम् । इदं वनमृगेर्यातम् । इदमेषां भुक्तम् । इदमेषामशितम् । द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावत् । नेता ऽश्वस्य ग्रामस्य चैत्रः । अन्ये प्रधाने कर्मण्याहुः । तदा नेताऽश्वस्य ग्रामं चैत्रः * ॥ न लोकाव्ययनिष्ठाखलर्थतृनाम् ॥ ६९ ॥ कर्तृकर्मणोः कृतीति षष्ठी प्राप्ता प्रतिषिध्यते । ल उ उक अव्यय निष्ठा खलर्थ तृन् इत्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । ल इति शतृशानचौ काञ् क्वसू किकिनौ च गृह्यन्ते । ओदनं पचन् । ओदनं पचमानः । ओदनं पेचानः । ओदनं पेचिवान् । पपिः सोमम् । ददिर्गाः । उ । कटं चिकीर्षुः । ओदनं बुभुक्षुः । कन्यामलंक रिष्णुः । इष्णुचोपि प्रयोगे निषेधः । † उक । आगामुकं वाराणसीं रक्षः

  • द्विकर्मकाणां प्रयोगात्प्रारभ्य ग्रामं चैत्र इत्येवमन्तोग्रन्थो बहुषु पुस्तकेषु नास्ति । † इष्णुचो ऽपि प्रयोगे निषेध इति बहुषु पुस्तकेषु नास्ति ।

[Header] १२२ ॥ काशिका ॥ २ ॥ ३ ॥ चाहुः ॥ उकप्रतिषेधे कमेर्भाषायां प्रतिषेधः ॥ * ॥ दास्याः कामुकः । अव्यय । काष्ठं भित्त्वा । ओदनं भुक्त्वा ॥ अव्ययप्रतिषेधे तोसुन्कसुनोःप्रतिषेधः ॥ * ॥ पुरा सूर्यस्योदेतोराधेयः । पुरा क्रूरस्य विसृपो विरप्शिन् । निष्ठा । ओदनं भुक्त- वान् । देवदत्तेन कृतम् । खलर्थ । ईषत्करः कटो भवता । दुष्पानः सोमो भवता । तृन्निति प्रत्याहारग्रहणं, लटः शतृशानचावित्यतआरभ्य आ तृनो नकारात् । तेन शानज्वानशेशतृवतृनामपि प्रतिषेधो भवति । सोमं पवमानः । नट माघ्नानः । * अधीयान् पारायणम् । कर्ता कटान् । वदिता जनापवादान् ॥ द्विषः शतुर्वा- वचनम् ॥ * ॥ चौरं द्विषन् , चौरस्य द्विषन् ॥ अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ७० ॥ अकस्य भविष्यति काले विहितस्येनेस्तु भविष्यति चाधमर्ण्ये च विहि- तस्य प्रयोगे षष्ठी विभक्तिर्न भवति । कटं कारको व्रजति । ओदनं भोजको व्रजति । इनः खल्वपि । ग्रामं गमी । ग्रामं गामी । आधमर्ण्ये । शतं दायी । सहस्रं दायी । भविष्यदाधमर्ण्ययोरिति किम् । यत्राणां लावकः । सक्तूनां पायकः । अवश्यं करो कटस्य । इह कस्मान्न भवति वर्षशतस्य पूरकः, पुत्र- पौत्राणां दर्शक इति । भविष्यदधिकारे विहितस्याकस्येदं ग्रहणम् ॥ कृत्यानां कर्तरि वा ॥ ७१ ॥ कर्तृकर्मणोः कृतीति नित्यं षष्ठी प्राप्ता कर्त्तरि विकल्प्यते । कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि * । भवता कटः कर्तव्यः । भवतः कटः कर्तव्यः । कर्त्तरीति किम् । गेयो माणवकः साम्नाम् ॥ उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः ॥ * ॥ द्रष्टव्या ग्रामं शाखा देवदत्तेन । नेतव्या ग्राममजा देवदत्तेन ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीया ऽन्यतरस्याम् ॥ ७२ ॥ तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्यां, पक्षे षष्ठी च, तुलोपमाशब्दौ वर्जयित्वा । शेषे विषये तृतीयाविधानात् तया मुक्ते षष्ठ्येव भवति । तुल्यो देवदत्तेन । तुल्यो देवदत्तस्य । सदृशो देवदत्तेन । सदृशो देव- दत्तस्य । अतुलोपमाभ्यामिति किम् । तुला देवदत्तस्य नास्ति । उपमा कृष्णस्य न विद्यते । वेति वर्तमाने ऽन्यतरस्यांग्रहणमुत्तरसूत्रे तस्य चकारेणा- नुकर्षणार्थम् । इतरथा हि तृतीयाऽनुकृष्येत ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ ७३ ॥ आशिषि गम्यमानायाम् आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतै

  • 'न कर्मणी'ति कुत्र चित्रभ्रष्टः ।

॥ काशिका ॥ २ । ४ ॥ १२३

योगे चतुर्थी विभक्तिर्भवति । चकारो विकल्पानुकर्षणार्थः । शेषे चतुर्थीविधाना- त्तस्या मुक्ते षष्ठी विभक्तिर्भवति । अत्रायुष्यादीनां पर्यायग्रहणं कर्तव्यम् ॥ * ॥ * आयुष्यं देवदत्ताय भूयात् । आयुष्यं देवदत्तस्य भूयात् । चिरं जीवितं देवदत्ताय देवदत्तस्य वा भूयात् । भद्रं देवदत्ताय भूयात् । भद्रं देवदत्तस्य । भद्रं देवद- त्ताय । भद्रं देवदत्तस्य । कुशलं देवदत्ताय । कुशलं देवदत्तस्य । निरामयं देव- दत्ताय । निरामयं देवदत्तस्य । सुखं देवदत्ताय । सुखं देवदत्तस्य । शं देवद- त्ताय । शं देवदत्तस्य । अर्थो देवदत्ताय । अर्थो देवदत्तस्य । प्रयोजनं देवद- त्ताय । प्रयोजनं देवदत्तस्य । हितं देवदत्ताय । हितं देवदत्तस्य । पथ्यं देवद- त्ताय । पथ्यं देवदत्तस्य । आशिषीति किम् । आयुष्यं देवदत्तस्य तपः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीस्याध्यायस्य तृतीयः पादः ॥ ॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥ द्विगुरेकवचनम् ॥ १ ॥ द्विगुः समासः एकवचनं भवति । एकस्य वचनमेकवचनम् । एकस्या- र्थस्य वाचको भवतीत्यर्थः । तदनेन प्रकारेण द्विग्वर्थस्यैकवद्भावो विधीयते, द्वि- ग्वर्थ एकवद्भवतीति । समाहारद्विगोश्चेदं ग्रहणं नान्यस्य । पञ्चपूलाः समा- हृताः पञ्चपूली । दशपूली । द्विग्वर्थस्यैकत्वादनुप्रयोगेप्येकवचनं भवति । पञ्च- पूलीयं शोभनेति ॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २ ॥ एकवचनमित्येव वर्तते । अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि संपद्यन्ते । प्राण्यङ्गानां द्वन्द्व एकवद्भवति, तथा तूर्याङ्गानां सेनाङ्गानां च । प्राण्यङ्गानां तावत् । पाणिपादम् । शिरोग्रीवम् । तूर्याङ्गानाम् । मार्दङ्गिकपा- णविकम् । वीणावादकपरिवादकम् । सेनाङ्गानाम् रथिकाश्वारोहम् । रथिकपा- दातम् । हस्त्यश्वादिषु परत्वात्पशुद्वन्द्वे विभाषैकवद् भवति । इतरेतरयोगे समाहारे च द्वन्द्वो विहितः, तत्र समाहारस्यैकत्वात्सिद्धमेवैकवचनम् । इदं तु प्रकरणं नियमविभागार्थम् । प्राण्यङ्गादीनां समाहार एव द्वन्द्वः । हस्ति- प्रयश्वादीनाम1ितरेतरयोग एव । रुरुपृषतादीनामुभयथेति ॥ अनुवादे चरणानाम् ॥ ३ ॥


Footnotes

    • अत्रेत्यारभ्य कर्तव्यमित्यन्तः पाठो बहुत्र नास्ति । (मूलपाठ में 'हस्त्यश्वादीनाम्' के स्थान पर 'हस्ति-प्रयश्वादीनाम्' छपा है)

' or 'ल्व'? In Devanagari, 'न्त्य' is written with न, त, य. Here: 'स', then consonant cluster, then 'पि'. Could it be "सन्त्यपि"? Wait, look at line 5: "प्रथमत एवोपदेशस्तदा" - 'स्त' has vertical. Here: 'स', then 'न्' + 'त्व' = 'न्त्व'? Or 'न्त्य'? If it is "सन्त्यपि", "सन्त्यपि कुरवश्च कुरुक्षेत्रं च..." doesn't make sense unless "सन्त्यपि"? No, "सत्यपि"? Wait, look at the word: is it "साल्वः"? No, it ends in 'पि'. Wait! Could it be "अस्त्यपि"? Look at the first letter: it has an upper loop, a left curve... wait, is that 'अ'? Compare with 'अ' in "अध्ययनतो" (line 16): 'अ' has a top bar, left shape like 3, middle bar, vertical. In line 32, this letter has: left shape like 3, middle bar, vertical! It IS 'अ'! Wait, look: is it 'अ' or 'स'? Look at 'स' in "कुरवश्च": 'स' has a round head, left leg, crossbar, vertical. In this word: it has the shape of 'अ'! Wait, then what is the second letter:

॥ काशिका ॥ २ ॥ ४ ॥ १२५ कूलम् । विशिष्टलिङ्ग इति किम् । गङ्गायमुने । मद्रकेक्याः । नदी देश इति किम् । कुक्कुटमयूर्यौ । अयामा इति किम् । जाम्बवश्च शालूकिनी च, जाम्बव- शालूकिन्यौ । नदीग्रहणमदेशत्वात् । जनपदो हि देशः । तथा च पर्वतानां ग्रहणं न भवति । कैलासश्च गन्धमादनं च, कैलासगन्धमादने ॥ अयामा इत्यत्र नगराणां प्रतिषेधो वक्तव्यः ॥ * ॥ इह मा भूत् । मधुरा च पाटलिपुत्रं च, मथुरापाटलिपुत्रम् ॥ उभयतश्च यामानां प्रतिषेधो वक्तव्यः ॥ * ॥ सौर्यं च नगरं, केतवतं च यामः, सौर्यकेतवते ॥ क्षुद्रजन्तवः ॥ ८ ॥ अपरिचितपरिमाणः क्षुद्रः । क्षुद्रजन्तुवाचिनां द्वन्द्व एकवद्भवति । दंश- मशकम् । यूकालिक्षम् । क्षुद्रजन्तव इति किम् । ब्राह्मणक्षत्रिया ॥ क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः । शतं वा प्रसृतो येषां के चिदा नकुलादपि ॥ सा नकुलादपीतीयमेव स्मृतिः प्रमाणमितरासां तद्विरोधात् ॥ येषां च विरोधः शा शाश्वतिकः ॥ ९ ॥ विरोधो बैरं, शाश्वतिको नित्यः । येषां शाश्वतिको विरोधस्तद्वाचिनां शब्दानां द्वन्द्व एकवद्भवति । मार्जारमूषकम् । श्वशृगालम् । अहिनकुलम् । शाश्वतिक इति किम् । गौपालिशालङ्कायनाः कलहायन्ते । चकारः पुनरस्यैव समुच्चयार्थः । तेन पशुशकुनिद्वन्द्वे विरोधिनामेनेन नित्यमेकवद्भावो भवति । अश्वमहिषम् । काकोलूकम् ॥ शूद्राणामनिरवसितानाम् ॥ १० ॥ निरवसानं, बहिष्कारणं । कुतो बहिष्कारणं, पात्रात् । यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति ते निरवसिताः, न निरवसिताः, अनिरवसिताः । अनि- रवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद्भवति । तक्षायस्कारम् । रजकतन्तु- वायम् । अनिरवसितानामिति किम् । चण्डालमृतपाः ॥ गवाश्वप्रभृतीनि च ॥ ११ ॥ गवाश्वप्रभृतीनि ह्येकवद्भावानि द्वन्द्वरूपाणि साधूनि भवन्ति । गवा- श्वम् । गवाविकम् । गवैडकम् । अजाविकम् । अजैडकम् । कुब्जवामनम् । कुब्जकैरातकम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छकम् । उष्ट्रखरम् । उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मेदः । मांसशोणितम् । दर्भशरम् । दर्भपूतकिम् । अर्जुनशिरीषम् । तृणोलपम् । दाशी-

१२६ ॥ काशिका ॥ २ ॥ ४ ॥ द्वासम् । कुटीकुटम् । भागवतीभागवतम् । गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्व- वृत्तं, रूपान्तरे तु नायं विधिर्भवति । गोश्वम् । गोश्वौ । पशुद्वन्द्वविभाषैव भवति ॥ विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वा- पराधरोत्तराणाम् ॥ १२ ॥ वृक्ष मृग तृण धान्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषां द्वन्द्वो विभाषैकवद्भवति । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । तित्तिरिकपिज्जलम् । तित्तिरिकपिञ्जलाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ बहु- प्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् ॥ * ॥ एषां बहुप्रकृ- तिरेव द्वन्द्व एकवद्भवति, न द्विप्रकृतिः । बदरामलके । रथिकाश्वारोहौ। प्लक्षन्य- ग्रोधौ । रुरुपृषतौ । हंसचक्रवाकौ । यूकालिक्षे । व्रीहियवौ । कुशकाशौ ॥ विप्रतिषिद्धं चानधिकरणवाचि ॥ १३ ॥ परस्परविरुद्धं विप्रतिषिद्धम् । विप्रतिषिद्धार्थानां शब्दानामनधिकरण- वाचिनामद्रव्यवाचिनां द्वन्द्व एकवद्भवति । विभाषानुकर्षणार्थश्चकारः । शीतो- ष्णम् । शीतोष्णे । सुखदुःखम् । सुखदुःखे । जीवितमरणम् । जीवितमरणे । विप्र- तिषिद्धमिति किम् । कामक्रोधौ । अनधिकरणवाचीति किम् । शीतोष्णे उदके॥ न दधिपयआदीनि ॥ १४ ॥ यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते । दधिपयआदीनि शब्दरूपा- णि नैकवद्भवन्ति। दधिपयसी । सर्पिर्मधुनी । मधुपर्पिषी । ब्रह्मप्रजापती । शिव- वैश्रवणौ । स्कन्दविशाखौ । परिव्राट्कौशिकौ * । प्रवर्ग्योपसदौ । शुक्लकृष्णौ । इध्माबर्हिषी । निपातनाद्दीर्घः । दीक्षातपसी । श्रद्धातपसी । मेधातपसी । अध्य- यनतपसी । उलूखलमुसले । ऋगवसाने । ऋक्सामे । वाङ्मनसे ॥ अधिकरणैतावत्त्वे च ॥ १५ ॥ नेति वर्तते । अधिकरणं वर्त्तिपदार्थः, स हि समासस्यार्थस्याधारः, तस्यैतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो नैकवद्भवति । यथायथमेकवद्भावः प्राप्तः प्रतिषिध्यते । दश दन्तोष्ठाः । दश मार्दङ्गिकपाणविकाः ॥ विभाषा समीपे ॥ १६ ॥ अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद्भवति । उपदशं दन्तो- ष्ठम् । उपदशा दन्तोष्ठाः । उपदशं मार्दङ्गिकपाणविकम् । उपदशा मार्दङ्गि-

  • परिव्राजककौशिकौ । इति पा० २ ।

कपाशालिकाः । अव्ययस्य संख्याया ऽव्ययीभावोऽपि विहितो बहुव्रीहिरपि, तत्रै- कवद्भावपक्षे ऽव्ययीभावो ऽनुयुज्यते, इतरत्र बहुव्रीहिः ॥ स नपुंसकम् ॥ १७ ॥ यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च । पञ्चगवम् । दशगवम् । द्वन्द्वः खल्वपि । पाणिपादम् । शिरोग्रीवम् । परलि- ङ्गतापवादो योगः ॥ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते ॥ * ॥ पञ्च- पूली । दशरथी ॥ वा ऽऽबन्तः स्त्रियामिष्टः ॥ * ॥ पञ्चखट्वम् । पञ्चखट्वी ॥ अनो नलोपश्च वा च द्विगुः स्त्रियाम् ॥ * ॥ पञ्चतक्षम् । पञ्चतक्षी ॥ पात्रा- दिभ्यः प्रतिषेधो वक्तव्यः ॥ * ॥ पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ अव्ययीभावश्च ॥ १८ ॥ अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति । अधिस्त्रि । उपकुमारि । उन्मत्तगङ्गम् । लोहितगङ्गम् । पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता, ऽन्यपदार्थप्र- धानस्याभिधेयवल्लिङ्गता, ऽत इदमुच्यते । अनुक्तसमुच्चयार्थश्चकारः ॥ पुण्य- सुदिनाभ्यामह्नः क्लीबतेष्यते ॥ * ॥ पुण्याहम् । सुदिनाहम् ॥ पथः संख्याव्य- यादेः क्लीबतेष्यते ॥ * ॥ त्रिपथम् । चतुष्पथम् । विपथम् । सुपथम् ॥ क्रिया- विशेषाणां च क्लीबतेष्यते ॥ * ॥ * मृदु पचति । शोभनं पचति ॥ तत्पुरुषो ऽनञ्कर्मधारयः ॥ १९ ॥ अधिकारोयमुत्तरसूत्रेषूपतिष्ठते । नञ्समासं कर्मधारयं च वर्जयित्वा ऽन्यस्तत्पुरुषो नपुंसकलिङ्गो भवतीत्येतदधिकृतं वेदितव्यम् । यदित ऊर्ध्वमनु- क्रमिष्यामस्तत्र । वक्ष्यति विभाषा सेनासुरेति । ब्राह्मणसेनम् । ब्राह्मणसेना । तत्पुरुष इति किम् । दृढसेनो राजा । अनञिति किम् । असेना । अकर्मधा- रय इति किम् । परमसेना ॥ संज्ञायां कन्थोशीनरेषु ॥ २० ॥ संज्ञायां विषये कन्थान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था उशीनरेषु भवति । सौशमिकन्थम् । आह्वरकन्थम् । संज्ञायामिति किम् । वीर- कन्था । उशीनरेष्विति किम् । दाक्षिकन्था । परवलिङ्गतापवाद इदं प्रकरणम् ॥ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २१ ॥ उपज्ञायतइत्युपज्ञा उपक्रम्यतइत्युपक्रमः । उपज्ञा च उपक्रमश्च उपज्ञो- पक्रमम् । तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायां तयोरुप- ज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायां । आख्यातुमिच्छा आचिख्यासा ।

  • क्रियाविशेषाणां कर्मत्वं नपुंसकलिङ्गता च वक्तव्या ॥ * ॥ इति पा० भै० ॥

१२८ ॥ काशिका ॥ २ ॥ ४ ॥ यद्युपज्ञेयस्योपक्रम्यस्य चार्थस्यादिराख्यातुमिष्यते तत एतद्भवति। पाणिन्युप- ज्ञमाकालापकं* व्याकरणम्। पाणिनिनोपज्ञातेन प्रथमतः प्रणीतमाकालापकं व्याकरणम्। व्याड्युपज्ञं दुष्करणम्। आपिशलोपक्रमं प्रासादः। नन्दोपक्रमाणि मानानि। दर्शनीयोपक्रमं सुकुमारम्। उपज्ञोपक्रममिति किम्। वाल्मीकि- श्लोकाः। तदाद्याचिख्यासायामिति किम्। देवदत्तोपज्ञो रथः। यज्ञदत्तो- पक्रमो रथः॥ छाया बाहुल्ये ॥ २२ ॥ विभाषा सेनासुराच्छायेति विभाषां वक्ष्यति, नित्यार्थमिदं वचनम्। छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मो बाहुल्यम्। शरभादीनां हि बहुत्वं गम्यते। शरभच्छायम्। इक्षुच्छायम्। बाहुल्यदिति किम्। कुड्यच्छाया॥ [

॥ काशिका ॥ २ । ४ ॥ १२९ पिप्पल्याः, धनुःपिप्पली। धनुःकोशातकी। धनुर्नखरजनी॥ द्विगुप्राप्तापन्नालं- पूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः ॥ * ॥ द्विगुः। पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकां, प्राप्तजीविकः। आपन्नो जीविकाम्, आपन्नजीविकः। अलं जीविकायै, अलंजीविकः। गतिसमास। निष्क्रान्तः कौ- शाम्ब्याः, निष्कौशाम्बिः ॥ पूर्ववदश्ववडवौ ॥ २७ ॥ अश्ववडवयोर्र्विभाषैकवद्भाव उक्तस्तत्रैकवद्भावादन्यत्र परवल्लिङ्गतायां प्राप्तायामिदमारभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा चा- श्ववडवौ। अर्थातिदेशश्चायं न निपातनं, तत्र द्विवचनमतन्त्रं, वचनान्तरेपि पूर्व- वल्लिङ्गता भवति। अश्ववडवान्, अश्ववडवैरिति ॥ हेमन्तशिशिरावहोरात्रे च च्छन्दसि ॥ २८ ॥ पूर्ववदिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि। अहोरात्रे इदं ब्रूमः। पर- वल्लिङ्गतापवादो योगः। अर्थातिदेशश्चायं न निपातनं, तेन द्विवचनमतन्त्रं, वचनान्तरेपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः, अपरपक्षाः पुरीषम्, अहो- रात्राण्योष्टकाः। छन्दसीति किम्। दुःखे हेमन्तशिशिरे। अहोरात्राविमौ पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तस्तस्यैवायं प्रपञ्चः ॥ रात्राह्नाहाः पुंसि ॥ २९ ॥ कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाव्यन्ते। पर- वल्लिङ्गतायां स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। षडू- रात्रः। पूर्वाह्णः। अपराह्नः। मध्याह्नः। द्व्यहः। त्र्यहः ॥ अनुवाकादयः पुंसीति वक्तव्यम् ॥ * ॥ अनुवाकः। शंयुवाकः। सूक्तवाकः ॥ अपथं नपुंसकम् ॥ ३० ॥ अपथशब्दो नपुंसकलिङ्गो भवति। अपथमिदम्। अपथानि गाहते मूढः। इह कस्मान्न भवति, अपथो देशो, ऽपथा नगरी। तत्पुरुष इति वर्तते ॥ अर्धर्चाः पुंसि च ॥ ३१ ॥ अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाव्यन्ते। अर्धर्चः। अर्धर्चम्। गोमयः। गोमयम्। शब्दरूपाश्रया चेयं द्विलिङ्गता न विवक्षाभेदेनापि व्यव- तिष्ठते। यथा पद्मशङ्खशब्दौ निधिवचनौ पुंलिङ्गौ। जलजे उभयलिङ्गौ। भूत- शब्दः पिशाचे उभयलिङ्गः। क्रियाशब्दस्याभिधेयवल्लिङ्गम्। सैन्धवशब्दा लवणे उभयलिङ्गः। योनिशब्दस्याभिधेयवल्लिङ्गम्। सारशब्द उत्कर्षे पुंलिङ्गः न्यायाद- ६

५३० ॥ काशिका ॥ २ ॥ ४ ॥ मंपेते नपुंसकं, नैतत्सारमिति । धर्म इत्यपूर्वे पुंलिङ्गः । तत्साधने नपुंसकम् । तानि धर्माणि प्रथमान्यासन् । अर्द्धर्च । गोमय । कषाय । कार्षापण । कुतप । कपाट । शङ्कु । चक्र । गूथ । यूथ । ध्वज । कबन्ध । पद्म । गृह । सरक । कांस । दिवस । यूष । अन्धकार । दण्ड । कमण्डलु । मण्ड । भूत । द्वीप । द्यूत । चक्र । धर्म । कर्मन् । मोदक । शतमान । यान । नख । नखर । चरख । पुच्छ । दाडिम । हिम । रजत । सक्तु । पिधान । सार । पात्र । घृत सैन्धव । औषध । आढक । चषक । द्रोण । स्वलीन । पात्रीव । षष्टिक । वार । बाण । प्रोथ । कपित्थ । शुल्क । शील । शुल्ब । सीधु । कवच । रेणु । कपट । सीकर । मुसल । सुवर्ण । यूप । चमस । वर्ण । तीर । कर्ष । आकाश । अष्टा- पद । मङ्गल । निधन । निर्यास । जृम्भ । वृत्त । पुस्त । स्वेडित । शृङ्ग । शृङ्खल । मधु । मूल । मूलक । शराव । शाल । वप्र । विमान । मुख । प्रग्रीव । शूल । वज्र । कर्पट । शिखर । कल्क । नाट । मस्तक । वलय । कुसुम । तृण । पङ्क । कुण्डल । किरीट । अर्बुद । अङ्कुश । तिमिर । आश्रम । भूषण । इत्कस । मुकुल । वसन्त । तडाग । पिटक । विटङ्क । माष । कोष । फलक । दिन । दैवत । पिनाक । समर । स्थाणु । अनीक । उपवास । शाक । कर्पास । चषाल । खण्ड । दर । विटप । रण । बल । मल । मृणाल । हस्त । सूत्र । ताण्डव । गाण्डीव । मण्डप । पटह । सौध । पार्श्व । शरीर । फल । छल । पुर । राष्ट्र । विश्व । अम्बर । कुट्टिम । मण्डल । ककुद् । तोमर । तोरण । मञ्चक । पुङ्ख । मध्य । बाल । वल्मीक । वर्ष । वस्त्र । देह । उद्यान । उद्योग । स्नेह । स्वर । संगम । निष्क । क्षेम । शूक । छत्र । पवित्र । यौवन । मानक । मूषिक । वल्कल । कुञ्ज । विहार । लोहित । विषाण । भवन । चारक । पुलिन । द्रुढ । आसन । ऐरावत । शूर्प । तीर्थ । लोमश । तमाल । लोह । दण्डक । शपथ प्रतिसर । दाह । धनुस् । मान । तङ्क । वितङ्क । प्रग । सहस्र । ओदन । प्रवाल । शकट । अपराह्न । नीड । शकल । * अर्द्धर्चादिः ॥ इदमो ऽन्वादेशे ऽशनुदात्तस्तृतीयादौ ॥ ३२ ॥ आदेशः कथनम्, अन्वादेशो ऽनुकथनम् । इदमन्वादेशविषयस्याशा- देशो भवत्यनुदात्तस्तृतीयादौ विभक्तौ परतः । आभ्यां छात्राभ्यां रात्रिरधीता,

  • कुणप । मुषल । पूत । मद । कंस । लोमन । लिङ्ग । सीर । छत । ऋक्ष । कहार । बर्ह । पूर्व । पथाव । विडाल । कुस्त । पुस्तक । पल्लव । निगद । खल । स्थूल । वारि । माल । प्रवर । कटक । कण्टक । बास । कुमुद । पुराण । जात । स्कन्ध । मखाट । अङ्ग । कुञ्जल । विडङ्ग । पिण्याक । आर्द्र । कूल । कठक । योध । बिम्ब । कुक्कुट । कुडप श्यामक । पञ्चक । वसु । उड्डीम । क्षन । सौन । छत्र । फलह । फलक । इन् । वर्चस्क । कुर्य । संयडक । तण्डुल । इत्येते पुस्तकान्तरेष्वधिकाः ॥

अथो आभ्यामहरप्यधीतम् । अस्मै छात्राय कम्बलं देहि, अथो अस्मै शाटकमपि देहि । अस्य छात्रस्य शोभनं शीलम्, अथो अस्य प्रभूतं स्वम् * अन्वादेशवचनं साकच्कार्थम् । इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । नेह पश्चादुच्चारणमात्रमन्वादेशः, किं तर्हि एकस्यैवाभिधेयस्य पूर्वे शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः । तेनेह न भवति देवदत्तं भोजय, इमं च यज्ञदत्तमिति ॥ एतदस्तसोस्त्रतसौ चानुदात्तौ ॥ ३३ ॥ अन्वादेशे अनुदात्त इति वर्तते । एतदो ऽन्वादेशविषयस्य अशादेशो भवति अनुदात्तस्तसोः परतः । तौ चापि त्रतसावनुदात्तौ भवतः । एतस्मिन् ग्रामे सुखं वसामः । अथो अत्र युक्ता अधीमहे । एतस्माच्छात्राच्छन्दोऽधीष्व, अथो अतो व्याकरणमप्यधीष्व । सर्वोऽनुदात्तं पदं भवति । एतदो ऽशित्यन्वादेशे ऽश्त्वे पुनर्वचनमनुदात्तार्थम् ॥ द्वितीयाटौस्स्वेनः ॥ ३४ ॥ अन्वादेशे अनुदात्त इति वर्तते । द्वितीया टा ओस् इत्येतेषु परतः इदमेतदोरन्वादेशविषययोरेनशब्द आदेशो भवति अनुदात्तः । इदमो मण्डूक- प्लुतिन्यायेनानुवृत्तिः । इमं छात्रं छन्दोऽध्यापय । अथो एनं व्याकरणमध्यापय । अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम् । अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एतदः खल्वपि । एतं छात्रं छन्दो ऽध्या- पय, अथो एनं व्याकरणमप्यध्यापय । एतेन छात्रेण रात्रिरधीता, अथो एनेना- हरप्यधीतम् । एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् ॥ इनदिति नपुंसकैकवचने वक्तव्यम् ॥ * ॥ प्रक्षालयैनत् । परिवर्त्तयैनत् । इह कस्मान्न भवति । अयं दण्डे। हरनेन । एतमानं हितं विद्धादिति । यत्र किं चिद् विधाय वाक्यान्तरेण पुनस्तदुपदिश्यते सो ऽन्वादेशः । इह तु वस्तुनि- र्देशमात्रं कृत्वा एकमेव विधानम् ॥ आर्द्धधातुके ॥ ३५ ॥ आर्द्धधातुके इत्यधिकारो ऽयं, ययतस्त्रियावेजित इति यावत् । यदिद- मूर्द्ध्वमनुक्रमिष्यामस्तदार्द्धधातुके वेदितव्यम् । वक्ष्यति हनो वध लिङि । वध्यात् । आर्द्धधातुकइति किम् । हन्यात् । विषयसप्तमी चेयं न परसप्तमी । तेनार्द्धधातुकविवक्षायामादेशेषु कृतेषु पश्चात्तदाश्रयाः प्रत्यया भवन्ति । भव्यम् । प्रचेयम् । वास्तव्यम् ॥

  • 'एतस्माच्छात्राच्छन्दो ऽधीष्व । अथो अस्माद्व्याकरणमप्यधीष्व' । इत्यत्राधिकं क्व चित् ।

(or तदेवोत्तरार्थमपि) In image: तदेवोत्तरार्थमपि - wait, the letter is 'वो' or 'बो'? In old typography, व and ब are often identical, but here 'तदेवोत्तरार्थमपि' (or 'तदेबोत्तरार्थमपि'). Let's write तदेवोत्तरार्थमपि or तदेबोत्तरार्थमपि. The image shows तदेवोत्तरार्थमपि.

Now : लिटि परतो ऽदो ऽन्यतरस्यां घस्लादेशो भवति । जघास । जक्षतुः Wait, is there a danda after जक्षतुः? At the end of line 23: जक्षतुः (no danda, or hidden in margin). Line 24 starts with: जक्षुः । आद । आदतुः । आदुः ॥

Now : वयो य इति यकारस्य संप्रसारणं प्रतिषिध्यते । वश्चास्यान्तरस्यां कितीतियै Wait, let's look at the end of L28: वश्चास्यान्तरस्यां कितीतियै? Wait, what is after कितीति? Look at line 28: वयो य इति यकारस्य संप्रसारणं प्रतिषिध्यते । वश्चास्यान्तरस्यां कितीतियै Wait, is

॥ काशिका ॥ २ ॥ ४ ॥ ५३५ वध्यास्ताम्। वध्यासुः। चकारान्तश्चायमादेशः, सचाकारस्य लोपो भवति। तस्य स्थानिवद्भावादवधीदिति हलन्तलक्षणा वृद्धिरतो हलादेर्लघोरिति न भवति ॥ लुङि च ॥ ४३ ॥ लुङि च परतो हनो वध इत्ययमादेशो भवति। अवधीत्। अवधिष्टाम्। अवधिषुः। योगविभाग उत्तरार्थः। आत्मनेपदेषु लिङि विकल्पो मा भूत् ॥ आत्मनेपदेष्वन्यतरस्याम् ॥ ४४ ॥ पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यत- रस्यां वध इत्ययमादेशो भवति। आवधिष्ट। आवधिषाताम्। आवधिषत। न च भवति। आहत। आहसाताम्। आहसत * ॥ इणो गा लुङि ॥ ४५ ॥ इणो गा इत्ययमादेशो भवति लुङि परतः। अगात्। अगाताम्। अगुः।

An exact line-by-line transcription of the text from the image:

१२४ ॥ काशिका ॥ २ । ४ ॥ शिरे। गाङोनुबन्धग्रहणं विशेषणार्थं, गाङ्कुटादिभ्य इत्यत्रास्य ग्रहणं यथा स्यात् । नहि स्थानिवद्भावेन गाङिति रूपं लभ्यते ॥ विभाषा लुङ्लृङोः ॥ ५० ॥ लुङि लङि च परत इङो विभाषा गाङादेशो भवति । आदेशपक्षे गाङ्- कुटादिभ्य इति ङित्त्वं, घुमास्थागापाजहातिसां हलीतीत्वम् । अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । न च भवति । अध्यैष्ट । अध्यैषाताम् । अध्यै- षत । लङि खल्वपि । अध्यगीष्यत । अध्यगीष्येताम् । अध्यगीष्यन्त । न च भवति । अध्यैष्यत । अध्यैष्येताम् । अध्यैष्यन्त ॥ णौ च संश्चङोः ॥ ५१ ॥ इङो गाङ् विभाषेति वर्तते । णावितीदपेक्षा परसप्तमी संश्चङोरिति [L

आर्षे । ऋष्यण् । तस्माद्यूनि इञ् ।" Wait, look at line 25: "लुक् । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । आर्षे । ऋष्यण् । तस्माद्यूनि इञ् ।" Wait, between पुत्रः । and आर्षे । is there a symbol? No, just space.

Line 26: "तस्य लुक् । वासिष्ठः पिता । वासिष्ठः पुत्रः । ञित् । अपत्यानन्तर्ये बिदा-"

Line 27: "दिभ्योऽञ् । तस्माद्यूनि इञ् । तस्य लुक् । बैदः पिता । बैदः पुत्रः । फञि" Wait, end of line 27: "बैदः पुत्रः । फञि" then some ink mark, or "फञ्" with smudge. Let's look: "फञ्" with a black block next to it.

Line 28: "खल्वपि । तिकादिभ्यः फिञ् । तस्माद्यूनि प्राग्दीव्यतो ऽण् । तस्य लुक् ।"

Line 29: "तैकायनिः पिता । तैकायनिः पुत्रः । एतेभ्य इति किम् । शिवादिभ्यो"

Line 30: "ऽण् । तस्माद् यूनि

१७६ ॥ काशिका ॥ २ ॥ ४ ॥ ञोरिति किम् । दात्तेरपत्यं युवा दात्तायणः * ॥ अत्राऽह्यणगोत्रमात्राद्युवप्रत्य- यस्योपसंख्यानम् ॥ * ॥ बोधिः पिता । बोधिः पुत्रः । जाबालिः पिता । जा- बालिः पुत्रः । औदुम्बरिः पिता । औदुम्बरिः पुत्रः । भाण्डीजङ्घिः पिता । भाण्डीजङ्घिः पुत्रः । साल्वावयवलक्षण इञ् । तस्मात्फक् । तस्य लुक् ॥ पैला- दिदर्शनाह सिद्धम् ॥ पैलादिभ्यश्च ॥ ५९ ॥ पैल इत्येवमादिभ्यश्च युवप्रत्ययस्य लुग्भवति । पीलाया वेत्या । तस्मा- दणो द्व्यच इति फिञ् । तस्य लुक् । पैलः पिता । पैलः पुत्रः । अन्ये पैलादय इञन्तास्तेभ्य इञः प्राचामिति लुकि सिद्धे ऽप्रागर्थः पाठः । पैल । शालङ्कि । सात्यकि । सत्यकामि । देवि । औदमञ्जि । औदव्रजि । औदमेधि । औद- बुद्धि । दैवस्थानि । पैङ्गलायनि । राणायनि । रौहक्षिति । भैललिङ्गु । औद्रा- हमानि । औञ्जिहानि † ॥ तद्राजाच्चाणः ॥ आकृतिगणोऽयम् ॥ इञः प्राचाम् ॥ ६० ॥ गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुग्भवति । गोत्रविशेषणं प्राग्ग्रहणं, न विकल्पार्थम् । पाचागारेरपत्यं युवा । यञिञोश्चेति फक् । तस्य लुक् । पा- चागारिः पिता । पाचागारिः पुत्रः । मान्यैरैषणिः पिता । मान्यैरैषणिः पुत्रः । प्राचामिति किम् । दात्तिः पिता । दात्तायणः पुत्रः ॥ न तौल्वलिभ्यः ॥ ६१ ॥ आनन्तरेण प्राप्तो लुक् प्रतिषिध्यते । तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग्भवति । तौल्वलिः पिता । तौल्वलायनः पुत्रः । तौल्वलि । धारकि । पारकि । पारणि । दैलीपि । दैवति । दैवमति । दैवत्यञ्जि । प्रावाहणि । मा- थ्नातकि । आनुहारति । श्वार्फकि । आनुमति । आहिंसि । आसुरि । आयुधि । नैमिशि । आसिबन्धकि । बैकि । पैल्करादि । वैरकि । बैलकि । वैहति । वैकर्णि । कारेणुपालि । कामलि ‡ ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥ ६२ ॥ ते तद्राजाः ञ्यादयस्तद्राजा इति वक्ष्यति, तस्य तद्राजसंज्ञस्य प्रत्ययस्य बहुषु वर्त्तमानस्य अस्त्रीलिङ्गस्य लुग्भवति, तेनैव चेत्तद्राजेन कृतं बहुत्वं भवति । अङ्गाः । वङ्गाः । पुण्ड्राः । मगधाः । लोहध्वजाः । ड्रोहिमन्ताः । तद्राजस्येति

  • अत्र 'यञिञोश्चेति फको लुग्न भवति' इति पुस्तकान्तरे अधिकम् । † अत्र 'राणहति । राणि । औमनि । उंह्मनि' । एते पुस्तकान्तरे अधिकाः । ‡ अत्र 'राथ्यकि । आसुराहति । प्रावाहति । पैङ्गि । कामकि । दैवऋऋति । सौ- नराहति' । एते पुस्तकान्तरेऽधिकाः ।