भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

४. षष्ठ, सप्तम एवं अष्टमाध्याय वृत्ति (सन्धि, स्वर, द्विर्वचन व ग्रन्थ उपसंहार)

६३० ॥ काशिका ॥ ६ ॥ ४ ॥ बिभीवः । बिभीमः । बिभीमः । हलीत्येव । बिभ्यति । क्ङितीत्येव । बिभेति । सार्वधातुकइत्येव । भीयते * ॥ जहातेश्च ॥ ११६ ॥ जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधा- तुके परतः । जहितः । जहीतः । जहिथः । जहीथः । हलादावित्येव । जहति । क्ङितीत्येव । जहाति । सार्वधातुकइत्येव । हीयते । जेहीयते † । पृथग्योगकरणमुत्तरार्थम् ॥ आ च हौ ॥ ११७ ॥ जहातेराकारश्चान्तादेशो भवति इकारश्चान्यतरस्यां हौ परतः । जहाहि । जहिहि । जहीहि ॥ लोपो यि ॥ ११८ ॥ लोपो भवति जहातेर्यकारादौ क्ङिति सार्वधातुके परतः । जह्यात् । जह्याताम् । जह्युः ॥ घ्वंसोरेद्धावभ्यासलोपश्च ॥ ११९ ॥ घुसंज्ञकानाम् अङ्गानामस्तेश्च एकारादेशो भवति हौ परतो ऽभ्यासलो- पश्च । देहि । धेहि । अस्तेः । श्नसोरल्लोप इत्यकारलोपः । एधि । शिदयं लोपस्तेन सर्वस्याभ्यासस्य भवति ॥ अत एकहल्मध्ये ऽनादेशादेर्लिटि ॥ १२० ॥ लिटि परतः आदेश आदिर्यस्याङ्गस्य नास्ति तस्य एकहल्मध्ये असहाय- योर्हलोर्मध्ये यो ऽकारस्तस्य एकारादेशो भवति अभ्यासलोपश्च लिटि क्ङिति परतः । रेजतुः । रेजुः । येमतुः । येमुः । पेचतुः । पेचुः । देभतुः । देभुः । अत इति किम् । दिदिवतुः । दिदिवुः । तपरकरणं किम् । ररासे । ररासाते । ररासिरे । एकहल्मध्यइति किम् । ररक्षतुः । ररक्षुः ‡ । तत्स- रतुः । तत्सरुः । अनादेशादेरिति किम् । चकणतुः । चकणुः । जगाणतुः । बभ- णतुः । जगणुः । बभणुः । लिट आदेशविशेषणं किम् । इहापि यथा स्यात् । नेमतुः । नेमुः । सेहे । नेहाते । सेहिरे । अनैमित्तिके णत्वषत्वे तदादिर्लिं- त्यादेशादिर्न भवति । द्वहल्भ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति । तेन तदादि-

  • हलीत्येवेत्यारभ्य भीयतइत्यन्तं बहुषु पुस्तकेषु नास्ति । युक्तं चैतत्, पदमञ्जर्य्यां हलादौ क्ङिति सार्वधातुकइत्येतेषां नात्रोपयोग इत्युक्तत्वात् । † सार्वधातुके इत्येव हीयते जेहीयते, इत्येतत्पुस्तकेषु बहुषु नास्ति । पदमञ्जर्य्यां नास्योपयोग इत्युक्ततयेदमेव युक्तम् । ‡ इदमयुक्तं संयोगात्परत्वेन लिटः कित्त्वाभावात् ॥

॥ काशिका ॥ ६ ॥ ४ ॥ ६३१ त्त्वादेशादिर्भवति । तथा च फलिभजोरत्त्वं विधीयते । रूपाभेदे त्वादेशा- दिर्नाश्रीयेतइति शसिदह्योः प्रतिषेधवचनं ज्ञापकम् । अन्यथा हि पेचतुः पेचुः, देमतुः देमुरित्येवादीनामपि प्रकृतिजश्चरादीनामेत्त्वं न स्यात् । क्ङिती- त्येव । अहं पपच । अहं पपाठ ॥ दम्भेरत्त्वं वक्तव्यम् ॥ * ॥ देभतुः । देभुः । नलोपस्यासिद्धत्वान्न प्राप्नोति ॥ नशिमन्योरलिट्येत्वं वक्तव्यम् ॥ * ॥ अनेशम् । मेनका । अनेशमिति नशेर्लुङि पुषादित्वादङ् । मेनकेति मनेराशिशि चेति वुन् । क्षिपकादिषु प्रत्तेपादित्वं न क्रियते ॥ छन्दस्यमिपचोर्य्यलिटि एत्वं वक्तव्यम् ॥ * ॥ व्येमानम् । अमेर्विपूर्वस्य चानशि मुक् न क्रियते । लिङि पेचिरन् । पेचिरचित्येतस्य छान्दसं ह्रस्वत्वम् ॥ यजिवपोश्च ॥ * ॥ आयेजे । आवेपे । यजेर्वपेश्च लङि इटि छन्दस्यपि दृश्यते इत्यनजादेरप्याडागमः ॥ थलि च सेटि ॥ १२१ ॥ थलि च सेटि परतो ऽनादेशादेरङ्गस्य एकहल्मध्यगतस्यातः स्थाने एकार आदेशो भवति अभ्यासलोपश्च । पेचिथ । शेकिथ । सेटीति किम् । पपक्थ । थलग्रहणं विस्पष्टार्थम् । अकॢङिदर्थमेतद्वचनमित्यन्यस्येटो ऽसंभवात् । अत इत्येव । दिदेविथ । एकहल्मध्यगतस्ये

, accuracy to the visible text is paramount. Let's look at line 17: "गुणास्य ।" - clearly printed "गुणास्य", even though it means "गुणस्य". Line 16: "वादी नाम् ।" - clearly printed with a space, even though it means "ववादीनाम्". Line 15: "योकारस्तस्य" - printed without avagraha. So the print has typographical peculiarities. Wait, let's look at L20 again: Wait! Could that glyph be 'न्नि'? Look at how 'न्नि' in "अर्वन्नित्येतस्याङ्गस्य" would be written if it was 'न्नि': If a font doesn't have 'न्नि', some fonts used 'चि'? No, that's impossible. Wait, is "अर्वचित्येतस्याङ्गस्य" intentional? Wait! "अर्वच्" ??? Is "अर्वन्" ever called "अर्वच्"? No! Wait, what if the root/word in the editor's mind was "अर्वत्"? No, "अर्वणस्त्रसावनञः" - the stem is "अर्वन्". Wait, why did the printer print "अर्वचित्येतस्याङ्गस्य"? Wait! Look at the character 'चि': Could it be 'त्' + 'इ' = 'ति'? No, 'ति' doesn't look like that. Wait, look at line 20: "अर्वचित

॥ काशिका ॥ ६ ॥ ४ ॥ ६३३ पादः पत् ॥ १३० ॥ पादिति पादशब्दो लुप्ताकारो गृह्यते । तदन्तस्याङ्गस्य भस्य पदित्य- यमादेशो भवति । स च निर्द्दिश्यमानस्यादेशा भवन्तीति पाच्छब्दस्यैव भवति, न तदन्तस्य सर्वस्य । द्विपदः पश्य । द्विपदा । द्विपदे । द्विपदिकां ददाति । त्रिपदिकां ददाति । वैयाघ्रपद्यः ॥ वसोः संप्रसारणम् ॥ १३१ ॥ वस्वन्तस्य भस्य संप्रसारणं भवति । विदुषः पश्य । विदुषा । विदुषे । पेचुषः । पश्य । पेचुषा । पेचुषे । ययुषः पश्य । आतो लोपे कर्त्तव्ये वसुसंप्रसा- रणस्य व्याश्रयत्वादसिद्धत्वं न भवति ॥ वसुसंप्रसारणे क्वसोरपि ग्रहणमिष्यते ॥ वाह ऊठ् ॥ १३२ ॥ वाह इत्येवमन्तस्य भस्य ऊठ् इत्येतत्संंप्रसारणं भवति । प्रष्ठौहः । प्रष्ठौहा । प्रष्ठौहे । दित्यौहः । दित्यौहा । दित्यौहे । एत्येधत्यूठ्सु इति वृद्धिः । अथ किमर्थमूट् क्रियते । संप्रसारणएव कृते गुणे च वृद्धिरेचीति वृद्धौ सत्यां सिद्धं रूपं भवति प्रष्ठौह इति । अनकारान्ते चोपपदे वहेर्विधिर्न दृश्यते । ज्ञापकार्थम् । एतज् ज्ञापयति भवत्येषा परिभाषा असिद्धं बहिरङ्गमन्तरङ्गेइति । तस्यां हि सत्यां बहिरङ्गस्य संप्रसारणस्यासिद्धत्वादन्तरङ्गो गुणो न स्यात् ॥ श्वयुवमघोनामतद्धिते ॥ १३३ ॥ श्वन् युवन् मघवन् इत्येतेषामङ्गानामतद्धिते प्रत्यये परतः संप्रसारणं भवति । शुनः । शुना । शुने । यूनः । यूना । यूने । मघोनः । मघोना । मघोने । अतद्धित इति किम् । शौवनं मांसम् । यौवनं वर्त्तते । माघवनः स्थालीपाकः । शुनो विकारे प्राणिरजतादिभ्योऽञ्, द्वारादित्वादैजागमः ॥ श्वादीनामेतत्संंप्रसारणं नकारान्तानामिष्यते ॥ इह न भवति । युवतीः । पश्य । मघवतः । मघवता । मघवते । तदर्थमुत्तरत्र योगविभागं कुर्वन्ति । अल्लोपः । अनः । अन इत्युभयोः शेष इति ॥ अल्लोपोऽनः ॥ १३४ ॥ अनित्येवमन्तस्य भस्य अकारलोपो भवति । राज्ञः पश्य । राज्ञा । राज्ञे । तक्ष्णः पश्य । तक्ष्णा । तक्ष्णे ॥ अनो नकारान्तस्यायं लोप इष्यते ॥ इह न भवति । राजकीयमिति ॥ षपूर्व्हन्वृत्रघ्नामणि ॥ १३५ ॥ षकारपूर्वो यो ऽन् हनो वृत्रघ्नश्च तस्याकारलोपो भवति अणि

६३४ ॥ काशिका ॥ ६ ॥ ४ ॥ परतः । औष्णः । तात्त्यः । औषाघ्रः * । धार्त्तराज्ञः । षपर्वहन्दधृतराज्ञामिति किम् । सामनः । वैमनः । अविचिति प्रकृतिभावेनाल्लोपार्टलोपावुभावपि न भवतः । अणीति किम् । तात्त्ययः ॥ विभाषा ङिश्योः ॥ १३६ ॥ ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति । राज्ञि । राजनि । साम्नि । सामनि । साम्नी । सामनी ॥ न संयोगाद्वमन्तात् ॥ १३७ ॥ वकारमकारान्तात्संयोगादुत्तरस्यानो ऽकारस्य लोपो न भवति । पर्वणा । पर्वणे । अथर्वणा । अथर्वणे † । संयोगादिति किम् । प्रतिदीव्ना । प्रतिदीव्ने । साम्ना । साम्ने । वमन्तादिति किम् । तक्ष्णा । तक्षणे ॥ अचः ॥ १३८ ॥ अच इत्ययमञ्चतेर्लुप्तनकारो गृह

тилोपः ॥ L25: अह्नोष्टखोरेव ॥ १४५ ॥ L26: अहन्नित्येतस्य टखोरेव परतष्टिलोपो भवति । द्वे अहनी समाहृते, L27: द्व्यह्नः । त्र्यह्नः । द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः । त्र्यहीनः । L28: अह्नां समूहः क्रतुः, अहीनः ॥ अह्नः समूहे खो वक्तव्यः ॥ * ॥ सिद्धे सत्या- L29: रम्भो नियमार्थः । इह मा भूत । अह्ना निर्वृत्त, माह्निकम् । एवकारकरणं L30: विस्पष्टार्थम् । अह्न एव टखोरित्येवं नियमो न भविष्यति, आत्माध्वानौ खे L31: इति प्रकृतिभावविधानात् ॥ L32: ओर्गुणः ॥ १४६ ॥

Wait, let's look at the symbol in L17 and L23: In L17: "सौपर्वाः । » अश्मनो" - could it be "॥"? Look at line 17: it has two angled strokes, like an opening guillemet « or closing ». In standard devanagari fonts, « or » or ॥? Often typed as "॥" or "»". Let's write "»" if it's guillemet, but wait, look at line

उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः । बाभ्रव्यः । माण्डव्यः । शङ्कव्यं दारु । पिचव्यः कार्पासः । कमण्डल्व्या मृत्तिका । परश्वधमयः । औपगवः । कापटवः । ओरोदिति वक्तव्ये गुणग्रहणं संज्ञापूर्वोको विधिरनित्यो यथा स्यात् तेन स्वायंभुव इति सिद्धं भवति ॥ ढे लोपो ऽकद्रुवाः ॥ १४७ ॥ ढे परत उवर्णान्तस्य भस्याकद्रुवा लोपो भवति । कामण्डलेयः । शैति- वाहेयः । जाम्बेयः । माद्रुवाहेयः । अकद्रुवा इति किम् । काद्रवेयो मन्त्रमपश्यत् ॥ यस्येति च ॥ १४८ ॥ इवर्णान्तस्यावर्णान्तस्य च भस्य ईकारे परे तद्धिते च लोपो भवति । इवर्णान्तस्य ईकारे । दात्ती । प्रात्ती । सखी । सवर्णदीर्घत्वे हि सत्यतिसखे- रागच्छतीत्यत्र एकादेशस्यान्तवत्त्वादसखीति घिसंज्ञायाः प्रतिषेधः स्यात् । इवर्णान्तस्य तद्धिते । दाक्षिः । दैलेयः । वलि । वालेयः । अत्रि । आत्रेयः । अवर्णान्तस्य ईकारे । कुमारी । गौरी । शार्ङ्गरवी । अवर्णान्तस्य तद्धिते । दात्तिः । प्रात्तिः । चौडिः । बालाकिः । सौमित्रिः ॥ यस्येत्योङः श्यां प्रति- षेधो वक्तव्यः ॥ * ॥ काण्डे । कुण्डे । सौर्ये हिमवतः शृङ्गे । औङः शीभावे कृते यस्येति चेति सूर्यतिष्यागस्त्यमत्स्यानां य उपधाया इति च लोपः प्राप्नोति ॥ इयडुवङ्भ्यां लोपो भवति विप्रतिषेधेन ॥ * ॥ वत्सान्प्रीणाति, वत्सप्रीः । तस्यापत्यं, वात्सप्रेयः । चतुष्पाद्भ्यो ढञ् इति ढञ् प्रत्ययः । लेखाभूः शुभादिः । तस्या अपत्यं लैखाभ्रेयः ॥ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ॥ १४६ ॥ सूर्य तिष्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधाया भस्य लोपो भवति ईति परतस्तद्धिते च । सूर्येणैकदिक् । सौरी । बलाका । अणि यो यस्येति लोपस्तस्यासिद्धत्वं नास्ति व्याश्रयत्वात् । ईकारे तु यस्तस्यासिद्धत्वादू उपधायकारो भस्याणन्तस्य सूर्यस्य संबन्धीति लुप्यते । तिष्य । तैषमहः । तैषी रात्रिः । अगस्त्यस्यापत्यं स्त्री क्षत्रियादणि कृते आगस्ती । आगस्तीयः । मत्स्य । गौरादित्वान् ङीष् । मत्सी । उपधाया इति किम् । मत्स्यचरी । यग्रहणंमुत्तरार्थम् । विषयपरिज्ञानमत्र कर्त्तव्यम् ॥ मत्स्यस्य ङ्यामिति वक्त- व्यम् ॥ * ॥ इह मा भूत् । मत्स्यस्येदं मांसं मात्स्यम् ॥ सूर्यागस्त्ययोश्के च ङ्यां च ॥ * ॥ सौरीयः । सौरी । आगस्तीयः । आगस्ती । इह मा भूत् । सौर्ये चरुं निर्वपेत् । आमस्त्यः ॥ तिष्यपुष्योर्नक्षत्राणि ॥ * ॥ तिष्येण नक्षत्रेण युक्तः कालः । तैषः । पौषः ॥ अन्तिकस्य तसि कादिलोप आद्युदात्तं च ॥ * ॥ अन्ति-

॥ ६ ॥ ४ ॥ ६३७" This is the Benares edition (Pandit / Chowkhamba, edited by Bala Sastri, 1876-1878, or 1898 edition by Damodara Sastri). In that edition, page 637 has: Let's see what is printed: Wait, let's look at the characters: Could it be: "ककशब्दस्य"? Wait, look at the first glyph: Could it be: 'अ' and 'न्ति'? No, it really looks like: Wait, could it be: "अन्तिकशब्दस्य" where the 'अन्तिक' got corrupted to 'ककशब्दस्य'? Wait, let's transcribe what is ACTUALLY PRINTED, or transcribe the intended text? The prompt says: "Transcribe all text on the classical Vyakarana Shastra / Panini / Mahabhashya / Vakyapadiya / Siddhanta Kaumudi page line by line into pure, clean Markdown in Unicode Devanagari." Usually, if it is clearly printed as "ककशब्दस्य" or "अन्तिकशब्दस्य", what does it look like? Wait, let's zoom in to 500% on that first word of L2: Left margin: border line. Then a character: It has a top bar. Left loop, vertical stem, right hook: that's a 'क'! Wait, under the right hook, is there

लोपार्थं वचनम् । अन्त्यस्य हि टेरित्येव सिद्धः । लुगित्येतदत्र नानुवर्त्तते । तथाहि सति न लुमताङ्गस्येति प्रतिषेधाद् गुणो न स्यात् । इमनिज्यहण- मुत्तरार्थम् । इतरौ तु तुश्छन्दसीति भवतः ॥ टेः ॥ १५५ ॥ भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः । पटु । पटिष्ठः । पटिमा । पटीयान् । लघु । लघिष्ठः । लघिमा । लघीयान् ॥ णाविष्ठवत्प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम् ॥ * ॥ किं प्रयोजनम् । पुंवद्भावरभावटिलोपयणा- दिपरार्थम् । पुंवद्भावः । एनीमाचष्टे, एतयति । श्येतयति । तसिलादिष्वाक- त्वसुच इति इष्ठे पुंवद्भाव उक्तः । रभावः । पृथुमाचष्टे, प्रथयति । म्रदयति । टिलोपः । पटुमाचष्टे पटयति । लघयति । यणादिपरम् । स्थूलमाचष्टे, स्थव-

॥ काशिका ॥ ६ ॥ ४ ॥ ६३६ बहुल । बंहिष्ठः । बंहीयान् । बंहिमा । गुरु । गरिष्ठः । गरीयान् । गरिमा । वृद्ध । वर्षिष्ठः । वर्षीयान् । तृप्र । त्रपिष्ठः । त्रपीयान् । दीर्घ । द्राघिष्ठः । द्राघीयान् । द्राघिमा । वृन्दारक । वृन्दिष्ठः । वृन्दीयान् । प्रियोरुगुरुबहुल- दीर्घाः पृथादिषु पठ्यन्ते । तेनान्येषामिमनिज् न भवतीति नोदाह्रियते ॥ बहोर्लोपो भू च बहोः ॥ १५८ ॥ बहोरुत्तरेषामिष्टेमेयसां लोपो भवति तस्य च बहोः स्थाने भू इत्यय- मादेशो भवति । भूयान् । भूमा । बहुशब्दः पृथ्वादिषु पठ्यते । बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम् । अन्यथा हि प्रत्ययानामेव भूभावः स्यात् ॥ इष्ठस्य यिट् च ॥ १५६ ॥ बहोरुत्तरस्य इष्ठस्य यिडागमो भवति बहोश्च भूरादेशो भवति । भूयिष्ठः । लोपापवादो यिडागमः तस्मिन्चिकार उच्चारणार्थः ॥ ज्यादादीयसः ॥ १६० ॥ ज्यादुत्तरस्य ईयस आकार आदेशो भवति । ज्यायान् । लोपस्य यिटा व्यवहितत्वाद्रादित्युच्यते । लोपे हि सति अकृतकारइति दीर्घत्वेन ज्यायानिति सिध्यति ॥ र ऋतो हलादेर्लघोः ॥ १६१ ॥ रशब्द आदेशो भवति ऋकारस्य हलादेर्लघोरिष्टेमेयस्सु परतः । प्रथिष्ठः । प्रथीयान् । प्रथिमा । म्रदिष्ठः । म्रदीयान् । म्रदिमा ऋत इति किम् । पटिष्ठः । पटिमा । पटीयान् । हलादेरिति किम् । ऋजिष्ठः । ऋजिमा । ऋजीयान् । लघोरिति किम् । कृशिष्ठः । कृशीयान् । कृशिमा । परिगणनमत्र कर्तव्यम् ॥ पृथुं मृदुं भृशं चैव कृशं च दृढमेव च । परिपू्र्वं वृढं चैव षडेतान् रविधौ स्मरेत् ॥ तत इह न भवति । ऋतमाचष्टे, ऋतयति । मातरमाचष्टे, मातयति । भातयति ॥ विभाषाऽऋजौच्छन्दसि ॥ १६२ ॥ ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवति इष्ठेमेयस्सु परतश्छन्दसि विषये । रजिष्ठमेति पंन्थानम् । त्वमृजिष्ठः ॥ प्रकृत्यैकाच् ॥ १६३ ॥ एकाज् यदङ्गसंज्ञकं तदिष्टेमेयस्सु परतः प्रकृत्या भवति । स्रग्विन्नित्ये- तस्य विन्नन्तस्य स्रजिष्ठः । स्रजीयान् । स्रजयति । स्रग्वदित्येतस्य मतुबन्तस्य

६४० ॥ काशिका ॥ ६ ॥ ४ ॥ सुचिष्ठः। सुचीयान्। सुचयति। एकाजिति किम्। वसुमदित्येतस्य वसिष्ठः॥ प्रकृत्या ऽके राजन्यमनुष्ययुवानः॥ * ॥ अके प्रत्यये परतो राजन्य मनुष्य युवन्नित्येते प्रकृत्या भवन्ति। राजन्यानां समूहः, राजन्यकम्। मनुष्याणां समूहः, मानुष्यकम्। आपत्यस्य च तद्धितेनातोति यलोपः प्रकृतिभावेन न भवति। यूनो भावः, यौवनिका। मनोज्ञादित्वाद् वुञ्। तत्र नस्तद्धितेरिति टिलोपो न भवति॥ इनण्यनपत्ये ॥ १६४ ॥ इन्नन्तमनपत्यार्थेऽणि परतः प्रकृत्या भवति। सांकूटिनम्। सांरावि- णम्। सांमार्जनम्। अभिविधौ भावद्द्युण् अणिणुण इत्यण् *। सम्भिण इदं, साम्भिणम्। अणीति किम्। दण्डिनां समूहः, दाण्डम्। अनुदात्तादेरञित्य- ञ्प्रत्ययः। अनपत्यइति किम्। मेधाविनो ऽपत्यं, मैधावः॥ गाथिविदथिकेशिगणिपणिनश्च ॥ १६५ ॥ गाथिन् विदथिन् केशिन् गणिन् पणिन् इत्येते चाणि प्रकृत्या भवन्ति। गाथिनो ऽपत्यं, गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः। अप- त्यार्थीयमारम्भः॥ संयोगादिश्च ॥ १६६ ॥ संयोगादिश्च इनणि प्रकृत्या भवति। शङ्खिनो ऽपत्यं, शाङ्खिनः। माद्रिणः। वाञ्जिणः॥ अन्नू ॥ १६७ ॥ अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः॥ ये चाभावकर्मणोः ॥ १६८ ॥ यकारादौ च तद्धिते ऽभावकर्मणोरर्थयोरन् प्रकृत्या भवति। सामसु साधुः, सामन्यः। ब्रह्मण्यः। अभावकर्मणोरिति किम्। राज्ञो भावः कर्म वा, राज्यम्। राजन्विति पुरोहितादिषु पठ्यते। ततोयं यक् प्रत्ययः॥ आत्माध्वानौ खे ॥ १६९ ॥ आत्मन् अध्वन् इत्येतौ खे परतः प्रकृत्या भवतः। आत्मने हितं, आत्मनीनः। अध्वानमलङ्गामी, अध्वनीनः। खइति किम्। प्रत्यात्मम्। प्राध्वम्। प्रत्यात्ममित्यव्ययीभावे ऽनश्चेति समासान्तष्टच्प्रत्ययः। प्राध्वमित्यु- पसर्गादध्वन इति चात्प्रत्ययः॥

  • अभिविधावित्यारभ्य इत्यण् इत्यन्तः पाठो बहुत्र नास्ति।

ित्येव-> wait, is itअपत्यदित्येवorअपत्यइत्येव? Look at L11: अपत्यदित्येवorअपत्यइत्येव? Ah, look at L11: अपत्यदित्येव! Wait, look at the letter: , , त्य, then दिor? Look at L4: अपत्यइति. Look at L12: अपत्यइत्येव. In L11: अपत्यदित्येव? Wait, look at : it has a top bar, a down stroke, rounded belly... wait, it's or? In L11: अपत्यदित्येव? No, wait, look at L12: अपत्यइत्येव. In L12, the has a top loop and tail below. In L11, it has! It's अपत्यदित्येव(a typo for अपत्य इत्येव, where 'इ' became 'दि' or scribal variant). Wait, let's look closer at L11: Wait, is that aor an? It's withि: दि! Yes, अपत्यदित्येव`.

ब्र

६४२ ॥ काशिका ॥ ६ । ४ ॥ शुभ्रादिषु पठ्यते। तस्य एये परतः प्रकृतिभावो निपात्यते। जिह्माशिनो ऽपत्यं, जैह्माशिनेयः। वासिनो ऽपत्यम्, उदीचां वृद्धाद्गोत्रादिति फिञ्। तत्र प्रकृ- तिभावो निपात्यते। वासिनायनिः। भ्रूणहन् धीवन् इत्येतयोः ष्यञि तपर- स्तकारादेशो निपात्यते। भ्रूणघ्नो भावः, भ्रौणहत्यम्। धीव्नो भावो, धैव- त्यम्। हनस्तोऽचिण्णलोरिति यत्तत्त्वं तद्भावप्रत्ययएवेति भ्रौणघ्नो वार्त्रघ्न इत्यत्र न भवत्यतो भ्रौणहत्ये तत्त्वं निपात्यते। सारव इति सरयू इत्येतस्य अणि परतो ऽयूशब्दलोपो निपात्यते। सरय्वां भवं, सारवमुदकम्। ऐक्ष्वाक इति स्वरसर्वनाम्ना एकश्रुत्या पठ्यते। ततोयमाद्युदात्तोन्तोदात्तश्च निपात्यते। इक्ष्वाकोरपत्यं, जनपदशब्दात्तत्त्रियादञित्यञ्, तत्र उकारलोपो निपात्यते। ऐक्ष्वाकः। इक्ष्वाकुषु जनपदेषु भवः कोपधादणित्यण्। ऐक्ष्वाकः। मैत्रेय इति मित्रयुशब्दो गार्ग्यादिषु पठ्यते, ततो ढञि कृते यादेरियादेशापवादो युशब्द- लोपो निपात्यते। मित्रयोरपत्यं, मैत्रेयः। अथ किमर्थं मित्रयुशब्दो बिदा- दिष्वेव न पठ्यते तत्राञि कृते यादेरिति इयादेशेनैव सिद्धमेवं च लोपार्थं निपातनं कर्त्तव्यं न भवति, यस्कादिषु च बहुषु लुगर्थः पाठो न कर्त्तव्यो भवति, मित्रयव इत्यञ इत्येव हि लुकः सिद्धत्वात्। नैतदस्ति। मित्रयूणां संघ इत्यत्र गोत्रचरणाद्वुञं बाधित्वा मैत्रेयकः संघ इत्यत्र संघाङ्कलक्षणेष्वञ्- ञिञामणित्यण् प्राप्नोति। हिरण्मयमिति हिरण्यस्य मयटि यादिलोपो निपा- त्यते, हिरण्यस्य विकारः, हिरण्मयः ॥ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि ॥ १७५ ॥ ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये। ऋतु वास्तु इत्येतयोर्यति यणादेशो निपात्यते। ऋतौ भवम्, ऋत्व्यम्। वास्तौ भवं, वास्त्व्यम्। वस्तुशब्दस्याणि यणादेशो निपात्यते वस्तुनि भवो, वास्त्वः। मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते। माध्वीर्नः सन्त्वो- षधीः। हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते। हिरण्ययम् ॥ इत्युपाध्यायश्रीवामनकृतायां काशिकायां षष्ठस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्चायं षष्ठोध्यायः ॥

॥ काशिका ॥ ७ ॥ १ ॥ ६४३ ॥ अथ सप्तमाध्यायस्य प्रथमः पादः ॥ युवोरनाकौ ॥ १ ॥ यु वु इत्येतयोरुत्सृष्टविशेषणयोरनुनासिकयोः प्रत्यययोर्ग्रहणं, तयोः स्थाने यथासङ्ख्यमन अक इत्येतावादेशौ भवतः। योरनः। वोरकः। नन्द्या- दिभ्यो ल्युः। नन्दनः। रमणः। सायमादिभ्यश्च्युट्युलौ तुट्। सायंतनः। चिरंतनः। ण्वुल्तृचौ। कारकः। हारकः। वासुदेवार्जुनाभ्यां वुन्। वासुदेवकः। अर्जुनकः। अनुनासिकयोरिति किम्। ऊर्णायुः। भुजिमृ- द्भ्यां युक्थुकौ। भुज्युर्मृत्युरिति। एवमादीनां हि यशोऽनुनासिकत्वं न प्रति- ज्ञायते, प्रतिज्ञानुनासिकाः पाणिनीयाः। युवोरिति निर्देशाद् द्वन्द्वैकवद्भाव- पक्षे ऽनित्यमागमशासनमिति

६४४ ॥ काशिका ॥ ७ । १ ॥ एजेः खश् पदरुजविशस्पृशो घञित्येवमादिषु तु इत्संज्ञया भवितव्यम् । तद्धि- तेषु हि खकारघकारयोरादेशवचनमवकाशवदितीत्संज्ञां बाधितुं नोत्सहते । आयनीनेनीनर्कारस्येत्संज्ञायां प्राप्तायां प्रतिविधातव्यं नित्कार्ये हि संभवति ॥ झो ऽन्तः ॥ ३ ॥ प्रत्ययग्रहणमनुवर्त्तते, आदिग्रहणं निवृत्तम् । प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति । कुर्वन्ति । सुन्वन्ति । चिन्वन्ति । अद्या श्वो विजनि- ष्यमाणाः पतिभिः सह शयान्तै । जॄविशिभ्यां झच् । जरन्तः, वेशन्तः । प्रत्य- यस्येत्येव । उज्झिता । उज्झितुम् । उज्झितव्यम् । अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्तत्वं भवति । तथा च ऋचश्चित्करणमर्थवद्भवति ॥ अभ्यस्तात् ॥ ४ ॥ अभ्यस्तादङ्गादुत्तरस्य झकारस्य अदित्ययमादेशो भवति । ददति । ददतु । दधति । दधतु । जक्षति । जक्षतु । जाग्रति । जाग्रतु । अन्तादेशापवादोयं जुसादेशेन तु बाध्यते । अददुः । अदधुः * । अत्राप्यादेशे कृते प्रत्ययाद्युदा- त्त्वं भवति ॥ आत्मनेपदेष्वनतः ॥ ५ ॥ आत्मनेपदेषु यो झकारस्तस्यानकारान्तादङ्गादुत्तरस्यादित्ययमादेशो भवति । चिन्वते । चिन्वताम् । अचिन्वत । लुनते । लुनताम् । अलुनत । आत्मनेपदेष्विति किम् । चिन्वन्ति । लुनन्ति । अनत इति किम् । च्यवन्ते । प्लवन्ते । नित्यत्वादत्र विकरणे कृते झोन्तादेशेन भवितव्यमित्यादादेशो न भवति । अनकारान्तेनाङ्गेन झकारविशेषणं किम् । इह मा भूत् । अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै ॥ शीङो रुट् ॥ ६ ॥ शीङोङ्गादुत्तरस्य झादेशस्यातो रुडागमो भवति । शेरते । शेरताम् । अशेरत । रुडयं परादिः क्रियते । स यदि झकारस्यैव स्याददादेशो न स्यादि- त्यत एवायमादेशस्यागमो विधीयते । सानुबन्धग्रहणमयङ्लुगर्थम् । तेनेह न भवति । व्यतिशेश्यते ॥ वेत्तेर्विभाषा ॥ ७ ॥ वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विभाषा रुडागमो भवति । संविदते । संविद्रते । संविद्रताम् । संविदताम् । समविदत । समविद्रत । वेत्तिरिति लुग्विकरणस्येदं ग्रहणम् । इह मा भूत् । विन्ते । विन्दाते । विन्दते इति ॥

  • अजक्षुरजागरुरित्यधिकं पुस्तकान्तरे ।

॥ काशिका ॥ ७ ॥ १ ॥ ६४५

बहुलं छन्दसि ॥ ८ ॥

छन्दसि विषये बहुलं रुडागमो भवति । देवा अदुह्र । गन्धर्वा अप्स- रसो अदुह्र । दुहेर्लङि झकारस्यादादेशे कृते रुट् । लोपस्त आत्मनेपदेष्विति तकारलोपः । न च भवति । अदुहत । बहुलवचनादन्यत्रापि भवति । अदृश्र- मस्य केतवः । ऋदृशोऽङि गुण इत्येतदपि बहुलवचनादेवात्र न भवति ॥

अतो भिस ऐस् ॥ ९ ॥

अकारान्तादङ्गादुत्तरस्य भिस ऐसित्ययमादेशो भवति । वृक्षैः । प्लक्षैः । अतिजरसैः । जरामतिक्रान्तैरिति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसा- देशो भवति । एकदेशविकृतमनन्यवद्भवतीति जराशब्दस्य जरसादेशः । संनि- पातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषेयमनित्या कष्टाय क्रमणेति

६४६ ॥ काशिका ॥ ७ । १ ॥ अत इति किम् । सख्या । पत्या । अतिजरसिन अतिजरसादिति केचिदि- च्छन्ति । यथा तु भाष्ये तथा नैतदिष्यतइति लक्ष्यते ॥ ङेर्यः ॥ १३ ॥ ङेरिति चतुर्थ्येकवचनस्य ग्रहणम् । अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य य इत्ययमादेशो भवति । वृक्षाय । प्लक्षाय । अत इत्येव । सख्ये । पत्ये । संनिपा- तलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषेयमनित्या तेन दीर्घो भवति ॥ सर्वनाम्नः स्मै ॥ १४ ॥ अकारान्तात्सर्वनाम्न उत्तरस्य ङेः स्मै इत्ययमादेशो भवति । सर्वस्मै । विश्वस्मै । यस्मै । कस्मै । तस्मै । अत इत्येव । भवते । अथात्रास्मै इत्यन्वा- देशे ऽनादेशे एकादेशः प्राप्नोति तत्रान्तरङ्गत्वादेकादेशात्पूर्वं स्मैभावः क्रियते पश्चादेकादेश

[Header] ॥ काशिका ॥ ७ । १ ॥ ६४९

ओकारोयं शौविधे। ङिद्गृहीतो ङित्त्वास्माकं नास्ति कोयं प्रकारः । सामान्यार्थस्तस्य चाषंजनेस्मिन्ङित्कार्ये ते श्यां प्रसक्तं स दोषः ॥ ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णो यत्स्यात्तच्च विद्यात्तदादौ । वर्णश्चायं तेन ङित्त्वेप्यदोषो निर्देशोयं पूर्वसूत्रेण वा स्यात् ॥ नपुंसकाच्च ॥ १९ ॥ नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति । कुण्डे तिष्ठतः । कुण्डे पश्य । यस्येति लोपः प्राप्तः ॥ श्यां प्रतिषेधो वक्तव्यः ॥ * ॥ इति न भवति । दधिनी । मधुनी । त्रपुणी । जतुनी ॥ जश्शसोः शिः ॥ २० ॥ नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्ययमादेशो भवति । कुण्डानि तिष्ठ- न्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । जसा साहचर्या- त्तस्य शसो ग्रहणादिह न भवति । कुण्डशो ददाति । वनशः प्रविशन्तीति ॥ अष्टाभ्य औश् ॥ २१ ॥ अष्टाभ्य इति कृताकारोष्टशब्दो गृह्यते । तस्मादुत्तरयोर्जश्शसोरौशित्य- यमादेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । कृताकारस्य ग्रहणं किम् । अष्ट तिष्ठन्ति । अष्ट पश्य । एतदेव कृतात्वस्य ग्रहणं ज्ञापकमष्टन आ विभ- क्तावित्यस्यात्वविकल्पस्य । षड्भ्यो लुगित्यस्यायमपवादो नाप्राप्ते तस्मिन्निदमार- भ्यते । यस्तु सुपो धातुप्रातिपदिकयोरिति तस्मिन्प्राप्ते चाप्राप्ते चेति स न बाध्यते । अष्टपुत्रः । अष्टभार्य्य, इति । तदन्तग्रहणमत्रेष्यते । परमाष्टौ । उत्त- माष्टौ । प्रियाष्टान इत्यत्रात्वस्याभावादौश्त्वं न भवति ॥ षड्भ्यो लुक् ॥ २२ ॥ षट्संज्ञकेभ्य उत्तरयोर्जश्शसोर्लुग्भवति । षट् तिष्ठन्ति । षट् पश्य । पञ्च । सप्त । नव । दश । षट्प्रधानात्तदन्तादपि भवति । परमषट् । उत्त- मषट् । यत्र तूपसर्जनं षट् ततो न भवति । प्रियषषः, प्रियपञ्चान इति ॥ स्वमोर्नपुंसकात् ॥ २३ ॥ सु अम् इत्येतयोर्नपुंसकादुत्तरयोर्लुग्भवति । दधि तिष्ठति । दधि पश्य । मधु तिष्ठति । मधु पश्य । त्रपु । जतु । तद्बृहत्कुकुलमित्यत्र लुका त्यदाद्यत्वं बाध्यते पूर्वविप्रतिषेधेन नित्यत्वाद्वा । लुको हि निमित्तमतोमिति लक्षणान्तरेण विहन्यते न पुनस्त्यदाद्यत्वेनैव, यस्य च लक्षणान्तरेणनिमित्तं विहन्यते न तदनित्यं भवति ॥ अतो ऽम् ॥ २४ ॥

६४८ ॥ काशिका ॥ ७ ॥ १ ॥ आकारान्तान्नपुंसकादुत्तरयोः स्वमोरमित्ययमादेशो भवति । कुण्डं ति- ष्ठति । कुण्डं पश्य । वनम् । पीठम् । मकारः कस्मान्न क्रियते । दीर्घत्वं प्राप्नोति ॥ अड् डतरादिभ्यः पञ्चभ्यः ॥ २५ ॥ डतरादिभ्यः परयोः स्वमोरड्ड् इत्ययमादेशो भवति । कतरत्तिष्ठति । कतरत्पश्य । कतमत्तिष्ठति । कतमत्पश्य । इतरत् । अन्यतरत् । अन्यत् । पञ्चभ्य इति किम् । नेमं तिष्ठति । नेमं पश्य । डित्करणं किम् । कतरत्तिष्ठतीत्यत्र पूर्वसव- र्णदीर्घो मा भूत् । इह तु कतरत्पश्येति स्थानिवद्भावादमि पूर्वरूपेणापि सिद्ध्यति । एवं तर्हि तकारादेश एव कस्मान्न विधीयते, हे कतरदिति संबुद्धेर्लोपो मा भूत् । अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु । अड्ङ्गित्त्वादडुतरादीनां न लोपो नापि दीर्घता ॥ नेतराच्छन्दसि ॥ २६ ॥ इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषये अड्डादेशो न भवति । इत- रमिरमण्डमजायत । वाचेन्नमितरम् । छन्दसीति किम् । इतरत्काष्ठम् । इत- रत्कुड्यम् । अतोमित्यस्मादनन्तरमितराच्छन्दसीति वक्तव्यं नेतराच्छन्दसीति वचनं योगविभागार्थम् ॥ एकतरात्तु सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते ॥ एकतरं तिष्ठति । एकतरं पश्येति ॥ युष्मदस्मद्भ्यां ङसो ऽश् ॥ २७ ॥ युष्मदस्मदित्येताभ्यामुत्तरस्य ङसो ऽशित्ययमादेशो भवति । तव स्वम् । मम स्वम् । शित्करणं सर्वादेशार्थम् । अन्यथा ह्यादेशव्यपदेशप्रक्लृप्त्यर्थमादेरेव स्यात् ततश्च योचीत्येव स्यात् ॥ ङे प्रथमयोरम् ॥ २८ ॥ ङे इत्यविभक्तिको निर्देशः । ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथ- माद्वितीययोर्युष्मदस्मद्भ्यामुत्तरयोरमित्ययमादेशो भवति । तुभ्यं दीयते । मह्यं दीयते । प्रथमयोः । त्वम् । अहम् । युवाम् । आवाम् । यूयम् । वयम् । त्वाम् । माम् । युषाम् । आवाम् ॥ शसो न ॥ २९ ॥ युष्मदस्मद्भ्यामुत्तरस्य शसो नकारादेशो भवति । युष्मान् ब्राह्मणान् । अस्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः । अस्मान् ब्राह्मणीः । युष्मान् कुलानि । अस्मान्कुलानि * ॥

  • तस्माच्छसो नः पुंसीति सिद्धे स्त्रीनपुंसकार्थं वचनम् । अलिङ्गे वा युष्मदस्मदी । इत्यधिकं पुस्तकान्तरे ।

॥ काशिका ॥ ७ । १ ॥ ६४६ भ्यसो भ्यम् ॥ ३० ॥ युष्मदस्मद्भ्यामुत्तरस्य भ्यसो भ्यमित्ययमादेशो भवति । युष्मभ्यं दीयते । अस्मभ्यं दीयते । भ्यमादेशे कृते शेषे लोपे च बहुवचने झल्येतीत्येत्वं प्राप्नोति । तदङ्गवृत्ते पुनर्वृत्तावविधिनिष्ठितस्येति न भवति । के चित्पुनरभ्यमादेशमेत्व- निवृत्त्यर्थं कुर्वन्ति । येषां तु शेषे लोपष्टिलोपास्तेषामभ्यमादेश एव । उदात्तनि- वृत्तिस्वरश्चादेरेव भवति ॥ पञ्चम्या अत् ॥ ३१ ॥ पञ्चम्या भ्यसो युष्मदस्मद्भ्यामुत्तरस्य अदित्ययमादेशो भवति । युष्मद्ग- च्छन्ति । अस्मद्गच्छन्ति ॥ एकवचनस्य च ॥ ३२ ॥ पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्यादित्ययमादेशो भवति । त्वद्ग- च्छन्ति । मद्गच्छन्ति ॥ साम आकम् ॥ ३३ ॥ साम इति षष्ठीबहुवचनमागतसुट्कं गृह्यते । तस्य युष्मदस्मद्भ्यामुत्तर- स्याकमित्ययमादेशो भवति । युष्माकम् । अस्माकम् । अथ किमर्थमागतसुट्को गृह्यते । नह्यादेशविधानकाले सुड्विद्यते । तस्यैव तु भाविनः सुटो निवृत्त्य- र्थम् । आदेशे कृते हि शेषे लोपे युष्मदस्मदोरकारान्तत्वात्सुट् प्राप्नोति । स स्थानिन्यन्तर्भूतत्वान्निवर्त्तते । दीर्घाच्चारणं सवर्णदीर्घार्थम् । अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति । तत्सामर्थ्यमेत्वं प्रति भविष्यतीति । अकारकरणमेत्वनिवृत्त्यर्थमिति । अतो गुणे पररूपत्वं स्यात् ॥ आत औ णलः ॥ ३४ ॥ आकारान्तादङ्गादुत्तरस्य णल औकारादेशो भवति । पपौ । तस्थौ । जग्लौ । मम्लौ । अत्रौत्वमेकादेशः स्थानिवद्भावो द्विवचनमित्यनेन क्रमेण कार्याणि क्रियन्ते । एकादेशादनवकाशत्वादौत्वं द्विवचनादपि परत्वादेकादेश इति ॥ तुह्योस्तातङाशिष्यन्यतरस्याम् ॥ ३५ ॥ तु हि इत्येतयोराशिषि विषये तातङादेशो भवत्यन्यतरस्याम् । जीव- ताद्‍भवान् । जीवतात्त्वम् । जीवतु भवान् । जीव त्वम् । ङित्करणं गुणवृद्धि- प्रतिषेधार्थमिति सर्वादेशस्तातङ् भवति । ङित्त्वाच्चास्य स्थानिवद्भावाद्यापित्त्वं प्राप्नोति तन्निवर्त्तते, हिञ्च पिच्च भवति । तेन ब्रुव ईडिडिति ब्रूताद्भवानीतीङ् न भवति । आशिषीति किम् । ग्रामं गच्छतु भवान् । गच्छ त्वम् ।