भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 634, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 634

॥ काशिका ॥ ६ ॥ ४ ॥ ६३३ पादः पत् ॥ १३० ॥ पादिति पादशब्दो लुप्ताकारो गृह्यते । तदन्तस्याङ्गस्य भस्य पदित्य- यमादेशो भवति । स च निर्द्दिश्यमानस्यादेशा भवन्तीति पाच्छब्दस्यैव भवति, न तदन्तस्य सर्वस्य । द्विपदः पश्य । द्विपदा । द्विपदे । द्विपदिकां ददाति । त्रिपदिकां ददाति । वैयाघ्रपद्यः ॥ वसोः संप्रसारणम् ॥ १३१ ॥ वस्वन्तस्य भस्य संप्रसारणं भवति । विदुषः पश्य । विदुषा । विदुषे । पेचुषः । पश्य । पेचुषा । पेचुषे । ययुषः पश्य । आतो लोपे कर्त्तव्ये वसुसंप्रसा- रणस्य व्याश्रयत्वादसिद्धत्वं न भवति ॥ वसुसंप्रसारणे क्वसोरपि ग्रहणमिष्यते ॥ वाह ऊठ् ॥ १३२ ॥ वाह इत्येवमन्तस्य भस्य ऊठ् इत्येतत्संंप्रसारणं भवति । प्रष्ठौहः । प्रष्ठौहा । प्रष्ठौहे । दित्यौहः । दित्यौहा । दित्यौहे । एत्येधत्यूठ्सु इति वृद्धिः । अथ किमर्थमूट् क्रियते । संप्रसारणएव कृते गुणे च वृद्धिरेचीति वृद्धौ सत्यां सिद्धं रूपं भवति प्रष्ठौह इति । अनकारान्ते चोपपदे वहेर्विधिर्न दृश्यते । ज्ञापकार्थम् । एतज् ज्ञापयति भवत्येषा परिभाषा असिद्धं बहिरङ्गमन्तरङ्गेइति । तस्यां हि सत्यां बहिरङ्गस्य संप्रसारणस्यासिद्धत्वादन्तरङ्गो गुणो न स्यात् ॥ श्वयुवमघोनामतद्धिते ॥ १३३ ॥ श्वन् युवन् मघवन् इत्येतेषामङ्गानामतद्धिते प्रत्यये परतः संप्रसारणं भवति । शुनः । शुना । शुने । यूनः । यूना । यूने । मघोनः । मघोना । मघोने । अतद्धित इति किम् । शौवनं मांसम् । यौवनं वर्त्तते । माघवनः स्थालीपाकः । शुनो विकारे प्राणिरजतादिभ्योऽञ्, द्वारादित्वादैजागमः ॥ श्वादीनामेतत्संंप्रसारणं नकारान्तानामिष्यते ॥ इह न भवति । युवतीः । पश्य । मघवतः । मघवता । मघवते । तदर्थमुत्तरत्र योगविभागं कुर्वन्ति । अल्लोपः । अनः । अन इत्युभयोः शेष इति ॥ अल्लोपोऽनः ॥ १३४ ॥ अनित्येवमन्तस्य भस्य अकारलोपो भवति । राज्ञः पश्य । राज्ञा । राज्ञे । तक्ष्णः पश्य । तक्ष्णा । तक्ष्णे ॥ अनो नकारान्तस्यायं लोप इष्यते ॥ इह न भवति । राजकीयमिति ॥ षपूर्व्हन्वृत्रघ्नामणि ॥ १३५ ॥ षकारपूर्वो यो ऽन् हनो वृत्रघ्नश्च तस्याकारलोपो भवति अणि