काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 635, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 635
६३४ ॥ काशिका ॥ ६ ॥ ४ ॥ परतः । औष्णः । तात्त्यः । औषाघ्रः * । धार्त्तराज्ञः । षपर्वहन्दधृतराज्ञामिति किम् । सामनः । वैमनः । अविचिति प्रकृतिभावेनाल्लोपार्टलोपावुभावपि न भवतः । अणीति किम् । तात्त्ययः ॥ विभाषा ङिश्योः ॥ १३६ ॥ ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति । राज्ञि । राजनि । साम्नि । सामनि । साम्नी । सामनी ॥ न संयोगाद्वमन्तात् ॥ १३७ ॥ वकारमकारान्तात्संयोगादुत्तरस्यानो ऽकारस्य लोपो न भवति । पर्वणा । पर्वणे । अथर्वणा । अथर्वणे † । संयोगादिति किम् । प्रतिदीव्ना । प्रतिदीव्ने । साम्ना । साम्ने । वमन्तादिति किम् । तक्ष्णा । तक्षणे ॥ अचः ॥ १३८ ॥ अच इत्ययमञ्चतेर्लुप्तनकारो गृह