काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 640, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ४ ॥ ६३६ बहुल । बंहिष्ठः । बंहीयान् । बंहिमा । गुरु । गरिष्ठः । गरीयान् । गरिमा । वृद्ध । वर्षिष्ठः । वर्षीयान् । तृप्र । त्रपिष्ठः । त्रपीयान् । दीर्घ । द्राघिष्ठः । द्राघीयान् । द्राघिमा । वृन्दारक । वृन्दिष्ठः । वृन्दीयान् । प्रियोरुगुरुबहुल- दीर्घाः पृथादिषु पठ्यन्ते । तेनान्येषामिमनिज् न भवतीति नोदाह्रियते ॥ बहोर्लोपो भू च बहोः ॥ १५८ ॥ बहोरुत्तरेषामिष्टेमेयसां लोपो भवति तस्य च बहोः स्थाने भू इत्यय- मादेशो भवति । भूयान् । भूमा । बहुशब्दः पृथ्वादिषु पठ्यते । बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम् । अन्यथा हि प्रत्ययानामेव भूभावः स्यात् ॥ इष्ठस्य यिट् च ॥ १५६ ॥ बहोरुत्तरस्य इष्ठस्य यिडागमो भवति बहोश्च भूरादेशो भवति । भूयिष्ठः । लोपापवादो यिडागमः तस्मिन्चिकार उच्चारणार्थः ॥ ज्यादादीयसः ॥ १६० ॥ ज्यादुत्तरस्य ईयस आकार आदेशो भवति । ज्यायान् । लोपस्य यिटा व्यवहितत्वाद्रादित्युच्यते । लोपे हि सति अकृतकारइति दीर्घत्वेन ज्यायानिति सिध्यति ॥ र ऋतो हलादेर्लघोः ॥ १६१ ॥ रशब्द आदेशो भवति ऋकारस्य हलादेर्लघोरिष्टेमेयस्सु परतः । प्रथिष्ठः । प्रथीयान् । प्रथिमा । म्रदिष्ठः । म्रदीयान् । म्रदिमा ऋत इति किम् । पटिष्ठः । पटिमा । पटीयान् । हलादेरिति किम् । ऋजिष्ठः । ऋजिमा । ऋजीयान् । लघोरिति किम् । कृशिष्ठः । कृशीयान् । कृशिमा । परिगणनमत्र कर्तव्यम् ॥ पृथुं मृदुं भृशं चैव कृशं च दृढमेव च । परिपू्र्वं वृढं चैव षडेतान् रविधौ स्मरेत् ॥ तत इह न भवति । ऋतमाचष्टे, ऋतयति । मातरमाचष्टे, मातयति । भातयति ॥ विभाषाऽऋजौच्छन्दसि ॥ १६२ ॥ ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवति इष्ठेमेयस्सु परतश्छन्दसि विषये । रजिष्ठमेति पंन्थानम् । त्वमृजिष्ठः ॥ प्रकृत्यैकाच् ॥ १६३ ॥ एकाज् यदङ्गसंज्ञकं तदिष्टेमेयस्सु परतः प्रकृत्या भवति । स्रग्विन्नित्ये- तस्य विन्नन्तस्य स्रजिष्ठः । स्रजीयान् । स्रजयति । स्रग्वदित्येतस्य मतुबन्तस्य