काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 639, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 639
लोपार्थं वचनम् । अन्त्यस्य हि टेरित्येव सिद्धः । लुगित्येतदत्र नानुवर्त्तते । तथाहि सति न लुमताङ्गस्येति प्रतिषेधाद् गुणो न स्यात् । इमनिज्यहण- मुत्तरार्थम् । इतरौ तु तुश्छन्दसीति भवतः ॥ टेः ॥ १५५ ॥ भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः । पटु । पटिष्ठः । पटिमा । पटीयान् । लघु । लघिष्ठः । लघिमा । लघीयान् ॥ णाविष्ठवत्प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम् ॥ * ॥ किं प्रयोजनम् । पुंवद्भावरभावटिलोपयणा- दिपरार्थम् । पुंवद्भावः । एनीमाचष्टे, एतयति । श्येतयति । तसिलादिष्वाक- त्वसुच इति इष्ठे पुंवद्भाव उक्तः । रभावः । पृथुमाचष्टे, प्रथयति । म्रदयति । टिलोपः । पटुमाचष्टे पटयति । लघयति । यणादिपरम् । स्थूलमाचष्टे, स्थव-