काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 157, कुल 828 में से
संदर्भ में पढ़ें१५० ॥ काशिका ॥ ३ । १ ॥ उषविदजागृभ्यो ऽन्यतरस्याम् ॥ ३८ ॥ उष दाहे, विद ज्ञाने, जागृ निद्राक्षये, एतेभ्यो लिटि परतो ऽन्यतर- स्यामाम् प्रत्ययो भवति । ओषाञ्चकार । उवोष । विदाञ्चकार । विवेद । जागराञ्चकार । जजागार । विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति ॥ भीह्रीभृह्वां श्लुवच्च ॥ ३९ ॥ ञिभी भये, ह्री लज्जायां, डुभृञ् धारणपोषणयोः, हु दानादनयोः, एतेभ्यो लिटि परत आम्र्प्रत्ययो भवत्यन्यतरस्याम्, श्लाविव चास्मिन्कार्यं भवति । किं पुनस्तत्, द्वित्वमित्वं च । बिभयाञ्चकार । बिभाय । जिह्रयाञ्चकार । जिह्राय । बिभराञ्चकार । बभार । जुहवाञ्चकार । जुहाव ॥ कृञ्चानुप्रयुज्यते लिटि ॥ ४० ॥ आम्प्रत्ययस्य पश्चात्कृञनुप्रयुज्यते लिटि परतः । कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत्सामर्थ्यादस्तेर्भूभावो न भवति । पाचयाञ्चकार । पाच- याम्बभूव । पाचयामास ॥ विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ॥ ४१ ॥ विदाङ्कुर्वन्त्वित्येतदन्यतरस्यां निपात्यते । किं पुनरिह निपात्यते । विदे- र्लोट्याम्र्प्रत्ययो गुणाभावो लोटो लुक्, कृञश्च लोट्परस्यानुप्रयोगः । अत्र भवन्तो विदाङ्कुर्वन्तु । विदन्तु । इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचने किं तर्हि, सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते । विदाङ्करोतु । विदाङ्कुरुतात् । विदाङ्कुरुतामित्यादि ॥ अभ्युत्सादयप्रजनयांचिकयांरमयामक्रः पावयांक्री- याद्विदामक्रन्नितिच्छन्दसि ॥ ४२ ॥ अभ्युत्सादायमित्येवमादयश्छन्दसि विषये ऽन्यतरस्यां निपात्यन्ते । सदिजनिरमीषां ण्यन्तानां लुङ्याम्र्प्रत्ययो निपात्यते । चिनोतेरपि तत्रैवाम- त्ययो द्विर्वचनं कुत्वं च । अक्ररिति चतुर्भिरपि प्रत्येकमनुप्रयोगः संबध्यते । पावयाङ्क्रियादिति पवतः पुनातेर्वा ण्यन्तस्य लिङ्याम् निपात्यते, क्रियादिति चास्यानुप्रयोगः । विदामक्रन्निति विदेर्लुङ्याम् निपात्यते, गुणाभावश्च अक्रन्निति चास्यानुप्रयोगः । अभ्युत्सादायमक्रः । अभ्युदसीषददिति भाषा- याम् । प्रजनयामक्रः । प्राजीजनदिति भाषायाम् । चिकयामक्रः । अचेषीदिति भाषायाम् । रमयामक्रः । अरीरमदिति भाषायाम् । पावयाङ्क्रियात् । पाव्या- दिति भाषायाम् । विदामक्रन् । अवेदिषुरिति भाषायाम् ॥