काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 16, कुल 828 में से
संदर्भ में पढ़ेंयाँ इन्द्रः*। मुखग्रहणं किम्। अनुस्वारस्यैव हि स्यात्। नासिकाग्रहणं किम्। कचटतपानां माभूत्। अनुनासिकप्रदेशाः। आङोऽनुनासिकश्छन्दसीत्येवमादयः ॥ तुल्यास्यप्रयत्नं सवर्णम् ॥ ९ ॥ तुल्य शब्दः सदृशपर्याय, आस्ये भवमास्यं ताल्वादिस्थानं, प्रयतनं प्रयत्नः स्पृष्टतादिर्वर्णगुणः। तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समान- जातीयं प्रति सवर्णसंज्ञो भवति। चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामा- श्रीयन्ते। स्पृष्टता ईषत्स्पृष्टता संवृतता विवृतता चेति। अत्रासदिति त्रयो ऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिकानिरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदा- दष्टादशधा भिद्यन्ते। तथेवर्णः। तथोवर्णः। तथा ऋवर्णः। ऌवर्णस्य दीर्घा न सन्ति। तं द्वाद