भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 161, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 161

१५४ ॥ काशिका ॥ ३ । १ ॥ परतो ऽन्यतरस्यां चिणादेशो भवति। अदोपि। अदीपिष्ट। अजनि। अजनिष्ट। अबोधि। अबुद्ध। अपूरि। अपूरिष्ट। अतायि। अतायिष्ट। आप्यायि। आप्यायिष्ट॥ अचः कर्मकर्त्तरि ॥ ६२ ॥ अजन्ताद्धातोः परस्य चलेः कर्मकर्त्तरि तशब्दे परतश्चिणादेशो भवति। प्राप्तविभाषेयम्। अकारि कटः स्वयमेव। अकृत कटः स्वयमेव। अलावि केदारः स्वयमेव। अलविष्ट केदारः स्वयमेव। अच इति किम्। अभेदि काष्ठं स्वयमेव। कर्मकर्त्तरीति किम्। अकारि कटो देवदत्तेन ॥ दुहश्च ॥ ६३ ॥ दुह प्रपूरणे, अस्मात्परस्य चलेश्चिणादेशो भवत्यन्यतरस्याम्। अदोहि गौः स्वयमेव। अदुग्ध गौः स्वयमेव। कर्मकर्त्तरीत्येव। अदोहि गौर्गोपालकेन ॥ न रुधः ॥ ६४ ॥ रुधिर् आवरणे, अस्मात्परस्य चलेः कर्मकर्त्तरिचिणादेशो न भवति। अन्ववारुद्ध गौः स्वयमेव। कर्मकर्त्तरीत्येव। अन्ववारोधि गौर्गोपालकेन ॥ तपोनुतापे च ॥ ६५ ॥ नेति वर्त्तते। तप संतापे, अस्मात्परस्य चलेश्चिणादेशो न भवति कर्मक- र्तर्य्यनुतापे च। अनुतापः, पश्चात्तापः। तस्य ग्रहणमकर्मकर्त्रर्थं, तत्र हि भावक- र्मणोरपि प्रतिषेधो भवति। अतप्त तपस्तापसः। अन्ववातप्त पापेन कर्मणा ॥ चिण् भावकर्मणोः ॥ ६६ ॥ धातोः परस्य चलेश्चिणादेशो भवति भावे कर्मणि तशब्दे परतः। भावे तावत्। अशायि भवता। कर्मणि खल्वपि। अकारि कटो देवदत्तेन। अहारि भारो यज्ञदत्तेन। चिण्ग्रहणं विस्पष्टार्थम् ॥ सार्वधातुके यक् ॥ ६७ ॥ भावकर्मवाचिनि सार्वधातुके परतो धातोर्यक् प्रत्ययो भवति। आस्यते भवता। शय्यते भवता। कर्मणि। क्रियते कटः। गम्यते ग्रामः। ककारो गुणवृद्धिप्रतिषेधार्थः। यग्विधाने कर्मकर्तर्युपसंख्यानं विप्रतिषेधाद्धि यकः शपो बलीयस्त्वम्। क्रियते कटः स्वयमेव। पच्यते ओदनः स्वयमेव ॥ कर्त्तरि शप् ॥ ६८ ॥ कर्तृवाचिनि सार्वधातुके परतो धातोः शप्प्रत्ययो भवति। पकारः स्वरार्थः, शकारः सार्वधातुकार्थः। भवति। पचति ॥ दिवादिभ्यः श्यन् ॥ ६९ ॥