भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 162, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 162

॥ काशिका ॥ ३ । १ ॥ १५५ दिव् इत्येवमादिभ्यो धातुभ्यः श्यन्प्रत्ययो भवति । शपोऽपवादः । नकारः स्वरार्थः, शकारः सार्वधातुकार्थः । दीव्यति । सीव्यति ॥ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्त्रुटिलषः ॥ ७० ॥ उभयत्र विभाषेयम् । टुभ्राश टुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोरपि ग्रहणम् । क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटि छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति । भ्राशते । भ्राश्यते । भ्लाशते । भ्लाश्यते । भ्रमति । भ्राम्यति । क्रामति । क्राम्यति । क्लामति । क्लाम्यति । त्रसति । त्रस्यति । त्रुटति । त्रुट्यति । लषति । लष्यति ॥ यसोऽनुपसर्गात् ॥ ७१ ॥ यसु प्रयत्ने दैवादिकः तस्मान्नित्यं श्यनि प्राप्ते ऽनुपसर्गाद्विकल्प उच्यते। यसोऽनुपसर्गाद्वा श्यन्प्रत्ययो भवति । यस्यति । यसति । अनुपसर्गादिति किम् । आयस्यति । प्रयस्यति ॥ संयसश्च ॥ ७२ ॥ सोपसर्गार्थ आरम्भः । संपूर्वाच्च यसेर्वा श्यन्प्रत्ययो भवति । संयस्य- ति । संयसति ॥ स्वादिभ्यः श्नुः ॥ ७३ ॥ षुञ् अभिषवे, इत्येवमादिभ्यो धातुभ्यः श्नुप्रत्ययो भवति । शपोप- वादः । सुनोति । सिनोति ॥ श्रुवः शृ च ॥ ७४ ॥ श्रुवः श्नुप्रत्ययो भवति तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति । शृणोति । शृणुतः । शृण्वन्ति ॥ अश्नोतेरन्यतरस्याम् ॥ ७५ ॥ अशू व्याप्तौ भौवादिकः, अस्मादन्यतरस्यां श्नुप्रत्ययो भवति । अश्नोति । अशति ॥ तनूकरणे तक्षः ॥ ७६ ॥ तक्षू त्वक्षू तनूकरणे, अस्मात्तनूकरणे वर्त्तमानादन्यतरस्यां श्नुप्रत्ययो भवति । अनेकार्थत्वाद्धात्तूनां विशेषेणोपादानम् । तक्षति काष्ठम् । तक्ष्णो- ति काष्ठम् । तनूकरणइति किम् । संतक्षति वाग्भिः ॥ तुदादिभ्यः शः ॥ ७७ ॥ तुद व्यथने, इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति । शपोपवादः । शकारः सार्वधातुकसंज्ञार्थः । तुदति । नुदति ॥