भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 163, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 163

१५६ ॥ काशिका ॥ ३ । १ ॥ रुधादिभ्यः श्नम् ॥ ७८ ॥ रुधिर् आवरणे, इत्येवमादिभ्यो धातुभ्यः श्नम् प्रत्ययो भवति । शपो- पवादः । मकारो देशविध्यर्थः । शकारः श्नावन्नोप इति विशेषणार्थः । रुणद्धि । भिनत्ति ॥ तनादिकृञ्भ्य उः ॥ ७९ ॥ तनु विस्तारे, इत्येवमादिभ्योधातुभ्यः कृञश्च उप्रत्ययो भवति । शपोप- वादः । तनोति । सनोति । क्षणोति । कृञः खल्वपि । करोति । तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत्तनादिकार्यं मा भूदिति । तना- दिभ्यस्तथासोरिति विभाषा सिचो लुङ् भवति । अकृत । अकृथाः ॥ धिन्विकृण्व्योर च ॥ ८० ॥ धिवि धिन्व जिन्वि प्रीणनार्थाः, कृवि हिंसाकरणयोः, इत्येतयोर्धा- त्वोरुप्रत्ययो भवत्यकारश्चान्तादेशः । धिनोति । कृणोति । अतो लोपस्य स्थानिवद्भावादुणे न भवति ॥ क्र्यादिभ्यः श्ना ॥ ८१ ॥ डुक्रीञ् द्रव्यविनिमयइत्येवमादिभ्यो धातुभ्यः श्नाप्रत्ययो भवति । शपोपवादः । शकारः सार्वधातुकसंज्ञार्थः । क्रीणाति । प्रीणाति ॥ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ॥ ८२ ॥ आद्याश्चत्वारो धातवः सौत्राः । स्कुञ् आप्रवणे । एतेभ्यः श्नाप्रत्ययो भवति श्नुश्च । स्तभ्नाति । स्तभ्नोति । स्तुभ्नाति । स्तुभ्नोति । स्कभ्नाति । स्कभ्नोति । स्कुभ्नाति । स्कुभ्नोति । स्कुनाति । स्कुनोति । उदित्त्वप्रतिज्ञाना- त्सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते नैतद्विकरणविषयत्वमेव ॥ हलः श्नः शानज्झौ ॥ ८३ ॥ हल उत्तरस्य श्नाप्रत्ययस्य शानजादेशो भवति हौ परतः । मुषाण । पुषाण । हल इति किम् । क्रीणीहि । झाविति किम् । मुष्णाति । श्न इति स्थानिनिर्देश आदेशसंप्रत्ययार्थः । इतरथा हि प्रत्ययान्तरमेव सर्वविभक्तौ विज्ञायेत ॥ छन्दसि शायजपि ॥ ८४ ॥ छन्दसि विषये श्नः शायजादेशो भवति, शानजपि । गृभाय जिह्वया मधु । शानचः खल्वपि । बधान पशुम् ॥ व्यत्ययो बहुलम् ॥ ८५ ॥