काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 164, कुल 828 में से
संदर्भ में पढ़ेंयथायथं विकरणाः शबादयो विहितास्तेषां छन्दसि विषये बहुलं व्यत्ययो भवति । व्यतिगमनं व्यत्ययो व्यतिहारः विषयान्तरे विधानं, क्व चि- द्द्विविकरणता क्व चिन्निविकरणता च । आण्डा शुष्मस्य भेदति । भिनत्तीति प्राप्ते । स च न मरति । न म्रियतइति प्राप्ते । द्विविकरणता । इन्द्रो वस्तेन नेषतु । नयत्विति प्राप्ते । त्रिविकरणता । इन्द्रेण युजा तरुषेम वृत्रम् । तीर्या- स्मेति प्राप्ते । बहुलग्रहणं सर्वविध्यभिचारार्थम् । सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोपि हि सिद्ध्यति बाहुलकेन ॥ लिङ्याशिष्यङ् ॥ ८६ ॥ आशिषि विषये यो लिङ् तस्मिन्परतश्छन्दसि विषये ऽङ् प्रत्ययो भवति । शपोपवादः । छन्दस्युभयथेति लिङः सार्वधातुकसंज्ञा