काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 170, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ । १ । ३ ॥ १४२ प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ ११८ ॥ प्रति अपि इत्येवंपूर्वाद्ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये । प्रतस्यं न प्रतिगृह्यम् । तस्मादप्यपिगृह्यम् । छन्दसीति किम् । प्रतिग्राह्यम् । अपिग्राह्यम् ॥ पदास्वैरिबाह्यापक्ष्येषु च ॥ ११९ ॥ पदे ऽस्वैरिणि बाह्यायां पक्ष्येचार्थे ग्रहेर्द्धातोः क्यप् प्रत्ययो भवति । पदे तावत् । प्रगृह्यं पदं, यस्य प्रगृह्यसंज्ञा विहिता । अवगृह्यं पदं, यस्यावग्रहः क्रि- यते । अस्वैरी परतन्त्रः । गृह्यका रमे । गृहीतका इत्यर्थः । बाह्यायाम् । ग्रा- मगृह्या सेना । नगरगृह्या सेना । ग्रामनगराभ्यां बहिर्भूतेत्यर्थः । स्वैरितिकुनिर्द्दु- र्द्धादन्यत्र न भवति । पक्षे भवः पक्ष्यः । वासुदेवपक्ष्याः । अर्जुनपक्ष्याः । तत्प- क्षाश्रिता इत्यर्थः ॥ विभाषा कृवृषोः ॥ १२० ॥ कृञो वृषेश्च विभाषा क्यप् प्रत्ययो भवति । करोतेर्ण्यति प्राप्ते वर्षते- श्चेदुपधत्वादित्ये क्यपि विभाषारभ्यते । कृत्यम् । कार्यम् । वृष्यम् । वर्ष्यम् ॥ युग्यं च पत्रे ॥ १२१ ॥ युग्यमिति निपात्यते पत्रं चेत्तद्भवति । पतत्यनेनेति पत्रं, वाहनमुच्यते । युग्यो गौः । युग्योऽश्वः । युग्यो हस्ती । युजेः क्यप् कुत्वं च निपात्यते । पत्र- मिति किम् । योग्यमन्यत् ॥ अमावसदन्यतरस्याम् ॥ १२२ ॥ अमाशब्दः सहार्थे वर्तते । तस्मिन्नुपपदे वसेर्द्धातोः कालेऽधिकारे ण्यत्प्र- त्ययो भवति, तस्यान्यतरस्यां वृद्धाभावो निपात्यते । सह वसतोऽस्मिन्काले सूर्य- चन्द्रमसाविति अमावास्या । अमावस्या । एकदेशविकृतस्यानन्यत्वादमावा- स्याया वेत्यत्रामावास्याशब्दस्यापि ग्रहणं भवति । अमावसोरेतं ण्यतोर्निपातयाम्यवृद्धिताम्