काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 169, कुल 828 में से
संदर्भ में पढ़ें१९२ ॥ काशिका ॥ ३ । १ ॥ ई च खनः ॥ १११ ॥ खनेर्धातोः क्यप् प्रत्ययो भवतीकारश्चान्तादेशः । खेयम् । दीर्घनिर्देशः प्रश्लेषार्थः । तत्र द्वितीय ईकारो ये विभाषेत्यात्वबाधनार्थः ॥ भृञो ऽसंज्ञायाम् ॥ ११२ ॥ भृञो धातोरसंज्ञायां विषये क्यप् प्रत्ययो भवति । भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । असंज्ञायामिति किम् । भार्योनाम क्षत्रियः ॥ संपूर्वाद्दिभाषा ॥ * ॥ संभृत्यः । संभार्यः ॥ संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति ॥ मृजेर्विभाषा ॥ ११३ ॥ मृजेर्धातोर्विभाषा क्यप् प्रत्ययो भवति । ऋदुपधत्वात् प्राप्तविभाषेयम् । परिमृज्यः । परिमार्ग्यः ॥ राजसूयसूर्यमूषोदारुच्यकुप्यकृष्टपच्याव्यथ्याः ॥ ११४ ॥ राजसूय सूर्य मूषोदारुच्य कुप्य कृष्टपच्य अव्यथ्य इत्येते शब्दाः क्यपि निपात्यन्ते । राज्ञा सोतव्यः राज्ञा वा इह सूयते राजसूयः क्रतुः । सूयर्तिभ्यां क्यप् सर्तैर्दत्वं सुवतेर्वा रुडागमः । सरति सुवति वा सूर्यः । मृषापूर्वस्य वदते- र्यणे यति प्राप्ते नित्यं क्यङ् निपात्यते । मूषोदारम् । रोचतेऽसौ रुच्यः । करोतेः क्यप् । गुपे रत्वेः कत्वं च संज्ञायाम् । कुप्यम् । गोप्यमन्यत् । कृष्टे पच्यन्ते कृष्टपच्याः । कर्मकर्तरि निपातनम् । न व्यथते अव्यथ्यः ॥ भिदोऽद्ध्यौ नदे ॥ ११५ ॥ भिदेरुन्ध्यैश्व क्यप् निपात्यते नदेऽभिधेये । उन्धेर्धत्वं च । भिनत्ति भिद्यः । उद्धृत्युदकम् उद्ध्याः । नद इति किम् । भेत्ता । उन्धिता ॥ पुष्यसिद्ध्यौ नक्षत्रे ॥ ११६ ॥ पुषेः सिध्येश्चाधिकरणे क्यप् निपात्यते नक्षत्रे ऽभिधेये । पुष्यन्त्यस्मिन्नर्था इति पुष्यः । सिद्ध्यन्त्यस्मिन्निति सिद्ध्यः । नक्षत्र इति किम् । पोष्यं, सेध्यम् विपूर्याविनीयजित्या मुञ्जकल्कहलिषु ॥ ११७ ॥ विपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क हलि इत्येतेषु बोद्ध्येषु । विपूर्वात्पवतेर्ण्यतेव तथा जयतेर्यति प्राप्ते कर्म- ण्यभिधास्यते । विपूयो मुञ्जः । विपाव्यमन्यत् । विनेयः कल्कः । विनेया- न्यः । जित्यो हलिः । जेयमन्यत् ॥