काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 185, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 185
१७८ ॥ काशिका ॥ ३ ॥ २ ॥ हन्तेष्टिलोपो घत्वं च निपात्यते * । पाणिघः । ताडघः । शिल्पिनीति किम् । पाणिघातः । ताडघातः ॥ राजघ उपसंख्यानम् ॥ * ॥ राजानं हन्ति राजघः ॥ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ ५६ ॥ आढ्यादिषु कर्मसूपपदेषु च्व्यर्थेष्वच्च्यन्तेषु करोतेर्धातोः करणे कारके ख्यु- न्प्रत्ययो भवति । च्वेर्विकल्पेन विधानाद् द्विविधाश्च्व्यर्थाः । च्व्यन्ता अच्व्य- न्ताश्च । तत्र च्व्यन्ताः पर्युदस्यन्ते । अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम् । सुभगंकरणम् । स्थूलंकरणम् । पलितंकरणम् । नग्नंकरणम् । अन्धंकरणम् । प्रियंकरणम् । च्व्यर्थेष्विति किम् । आढ्यं तैलेन कुर्वन्ति, आभ्यञ्जयन्तीत्यर्थः