काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 186, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ २ ॥ १९६ ऋत्विगादयः पञ्चशब्दाः क्रिन्प्रत्ययान्ता निपात्यन्ते । अपरे त्रयो धातवो निर्दिश्यन्ते । ऋतुशब्दउपपदे यजेर्धातोः क्रिन् प्रत्ययो निपात्यते । ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति, ऋत्विक्। रूढिरेषा यथा- कथं चिदनुगन्तव्या । धृषेः क्रिन्प्रत्ययः द्विर्वचनमन्तोदात्तत्वं च निपात्यते । धृष्णोतीति दधृक् । सृजेः कर्मणि क्रिन् अमागमश्च निपात्यते । सृजन्ति तामिति स्रक् । दिशेः कर्मणि क्रिन्निपात्यते । दिशन्ति तामिति दिक् । उत्पूर्वात्स्निहः क्विबुपसर्गान्तलोपः षत्वं च निपात्यन्ते । उष्णिक् । अञ्चु युजि क्रुञ्च इत्येतेषां धातूनां क्रिन्प्रत्ययो भवति । निपातनैः सहनिर्देशादत्रापि किं चिदलाक्षणिकं कार्यमस्ति । अञ्चतेः सुबन्तमात्रउपपदे क्रिन्प्रत्ययो भवति । प्राङ् । प्रत्यङ् । उदङ् । युजेः क्रुञ्चेश्च केवलादेव । युङ् । युञ्जौ । युञ्जः । सोपपदात्तु सत्सूद्वि- षेत्यादिना क्विप् भवति । अश्वयुक् । अश्वयुजौ । अश्वयुजः । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । नलोपः कस्मान्न भवति । निपातनसाहचर्यात् ॥ त्यदादिषु दृशो ऽनालोचने कञ् ॥ ६० ॥ त्यदादिषूपपदेषु दृशेर्धातोरनालोचनेऽर्थे वर्तमानात्कञ् प्रत्ययो भवति । चकारात्