भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 187, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 187

ग्रामणीः । कथमत्र णत्वं, स एषां ग्रामणीरिति निपातनात् । नयतेः पूर्वपदात् संज्ञायामग इति णत्वम् । राट् । विराट् । सम्राट् । मो राजि समः क्वौ इति मत्वम् । अन्येभ्योऽपि दृश्यते, क्विप् चेति सामान्येन वक्ष्यति तस्यैवायं प्रपञ्चः ॥ भजो ण्विः ॥ ६२ ॥ उपसर्गे सुपीति वर्त्तते । भजेर्धातोः सुबन्तउपपदे उपसर्गेऽप्यनुपसर्गेऽपि ण्विप्रत्ययो भवति । अर्द्ध भजते, अर्द्धभाक् । उपसर्गेऽपि । प्रभाक् ॥ छन्दसि सहः ॥ ६३ ॥ उपसर्गे सुपीत्येव । छन्दसि विषये सहेर्धातोः सुबन्तउपपदे ण्विप्रत्ययो भवति । तुराषाट् * । सहेः साडः स इति षत्वम् । अन्येषामपि दृश्यतइति दीर्घत्वम् ॥ वहेश्च ॥ ६४ ॥ वहेर्धातोश्छन्दसि विषये सुबन्तउपपदे ण्विप्रत्यया भवति । प्रष्ठ वाट् । दित्यवाट् । योगविभाग उत्तरार्थः ॥ कव्यपुरीषपुरीष्येषु ज्युट् ॥ ६५ ॥ कव्य पुरीष पुरीष्य इत्येतेषु उपपदेषु छन्दसि विषये वहेर्धातोर्ज्युट् प्रत्ययो भवति । कव्यवाहनः पितॄणाम् । पुरीषवाहनः । पुरीष्यवाहनः ॥ हव्ये ऽनन्तःपादम् ॥ ६६ ॥ हव्यशब्दे उपपदे छन्दसि विषये वहेर्धातो र्ज्युट् प्रत्ययो भवति, अन- न्तःपादं चेद्बर्हिर्भवति । अग्निश्च हव्यवाहनः । अनन्तःपादमिति किम् । हव्यवाहमग्निरजरः पिता नः ॥ जनसनखनक्रमगमो विट् ॥ ६७ ॥ छन्दसि उपसर्गे सुपीत्यनुवर्त्तते । जन जनने । जनी प्रादुर्भावे । द्वयो- रपि ग्रहणम् । तथा षणु दाने । वन षणसंभक्तौ । द्वयोरपि ग्रहणम् । जना- दिभ्यो धातुभ्यः सुबन्तउपपदे छन्दसि विषये विट् प्रत्ययो भवति । टकारः सामान्यग्रहणविघातार्थः, वेरपृक्तस्येति, विशेषणार्थश्च, विड्वनोरनुनासिकस्या- दिति । अब्जाः । गोजाः । सन । गोषा इन्द्रो नृषा असि । खन । विसखाः । कूपखाः । क्रम । दधिक्राः । गम । अग्रेगा उचेतुषाम् ॥ अदो ऽनन्ने ॥ ६८ ॥ छन्दसीति निवृत्तम् । अदेर्धातोरनन्ने सुबुपपदे विट् प्रत्ययो भवति । आममत्ति, आमात् । शष्पात् । अनन्नइति किम् । अन्नादः ॥

  • अषाषाट् । पृतनाषाट् इति क्व चित्पुस्तकेऽधिकम् ।