काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 193, कुल 828 में से
संदर्भ में पढ़ें१८६ ॥ काशिका ॥ ३ ॥ २ ॥ कर्मणीत्युक्तमर्कर्मण्यपि दृश्यते । अनुजातः । अनुजः । अपिशब्दः सर्वोपाधि- व्यभिचारार्थः । तेन धात्वन्तरादपि भवति कारकान्तरेपि । परितः खाता परिखा । आखा ॥ निष्ठा ॥ १०२ ॥ क्तक्तवतू निष्ठेत्युक्तं स निष्ठासंज्ञकः प्रत्ययो भूते भवति । कृतम् । कृतवान् । भुक्तम् । भुक्तवन् । निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः । संज्ञायां क्तक्तवतू भाव्येते । सतोश्चानयोः संज्ञया भाव्यम् । नैष दोषः । भाविनी संज्ञा विज्ञायते । स भूते भवति यस्यैतस्य निष्ठेत्येषा संज्ञा भवति । सामर्थ्यात् क्तक्तवत्वोर्विधानमेतत् ॥ आदिकर्मणि निष्ठा वक्तव्या ॥ * ॥ प्रकृतः कटं देव- दत्तः । प्रकृतवान् कटं देवदत्तः ॥ सुयजोर्ङ्वनिप् ॥ १०३ ॥ सुनोतेर्यजतेश्च ङ्वनिप् प्रत्ययो भवति । सुत्वा । यज्वा ॥ जीर्यतेरतृन् ॥ १०४ ॥ भूतइति वर्तते । जीर्यतेरतृन् प्रत्ययो भवति भूते । जरन् । जरन्तौ । जरन्तः । वासरूपेण निष्ठा । जीर्णः । जीर्णवानिति ॥ छन्दसि लिट् ॥ १०५ ॥ भूत इत्येव । छन्दसि विषये धातोर्लिट्प्रत्ययो भवति । अहं सूर्यमुभ- यतो ददर्श । अहं द्यावापृथिवी आततान । ननु * छन्दसि लुङ्लङ्लिट इति सामान्येन लिड्विहित एव । धातुसंबन्धे स विधिरयं त्वविशेषेण ॥ लिटः कानज्वा ॥ १०६ ॥ छन्दसि लिटः कानजादेशो भवति वा । अग्निं चिक्यानः । सोमं सुषु- वाणः । वह्निं सुषुवाणः । न च भवति । अहं सूर्यमुभयतो ददर्श । अहं द्यावा- पृथिवी आततान । लिड्ग्रहणं किम् । न पूर्वस्यैव प्रकृतस्यादेशविधाने विभक्ति- विपरिणामो भविष्यति । लिङ्मात्रस्य यथा स्यात् । योपि परोक्षे विहितस्तस्या- प्ययमादेशो भवति ॥ क्वसुश्च ॥ १०७ ॥ छन्दसि लिटः क्वसुरादेशो भवति । जक्षिवान् । पपिवान् । न च भवति । अहं सूर्यमुभयतो ददर्श । योगविभाग उत्तरार्थः ॥ भाषायां सदवसश्रुवः ॥ १०८ ॥ सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भ- वति । आदेशविधानादेव लिडपि तद्विषयोऽनुमीयते । उपसेदिवान् कौत्सः