काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 194, कुल 828 में से
संदर्भ में पढ़ेंपाणिनिम् । तेन मुक्ते यथा प्राप्तं प्रत्यया भवन्ति । उपासदत् । उपासीदत् । उपससाद । अनुषिष्वान्कौत्सः पाणिनिम् । अन्ववात्सीत् । अन्ववसत् । अनु- वास । उपशुश्रुवान्कौत्सः पाणिनिम् । उपाश्रौषीत् । उपाशृणोत् । उपशुश्राव । लुङ्लङ्घिषये परस्तादनुवृत्तेः क्वसुर्भवति ॥ उपेयिवाननाश्वाननूचानश्च ॥ १०९ ॥ उपेयिवान् अनाश्वान् अनूचान इत्येते शब्दा निपात्यन्ते । उपपूर्वादिणः क्वसुः, द्विर्वचनमभ्यासदीर्घत्वं तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र वस्वेकाजाद्घ- सामित्यनेकाच्त्वादिटि प्राप्ते स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः । उपेयिवान् । क्रादिनियमात्प्राप्तश्च वस्वेकाजाद्धसामिति प्रतिषिद्धः स पुनरिट् प्रतिप्रसूयते, तेनाजादौ न भवति । उपेयुषः । उपेयुषा । न चात्रोपस- र्गान्तं, नान्योपसर्गपूर्वाच्चिरुपसर्गाच्च भवत्येव । समीयिवान् । ईयिवान् । वा- क्वचनानुवृत्तेश्च पूर्ववल्लुङादयोपि भवन्ति । उपागात् । उपैत् । उपेयाय । अश्ना- तेर्नञ्पूर्वात् क्वसुर्निपात्यते, दड्भावश्च । अनाश्वान् । नाशीत् । नाश्नात् । ना- श । वचेरनुपूर्वात्कर्त्तरि कानन्निपात्यते । अनूचानः । अन्ववोचत् । अन्वब्रवीत् । अनूवाच ॥ लुङ् ॥ ११० ॥ भूतइत्येव । भूतेऽर्थे वर्त्तमानाद् धातोर्लुङ् प्रत्ययो भवति । अकार्षीत् । अहार्षीत् ॥ वसतेर्लुङ् रात्रिविशेषे जागरणसंततौ वक्तव्यः ॥ * ॥ भवानुषितः । अहमत्रावात्सम् ॥ अनद्यतने लङ् ॥ १११ ॥ भूतइत्येव । अनद्यतनइति बहुव्रीहिनिर्देशः । अविद्यमानानद्यतने भूतेऽर्थे वर्त्तमानाद्धातोर्लङ् प्रत्ययो भवति । अकरोत् । अहरत् । बहुव्रीहिनिर्देशः किमर्थः । अद्य ह्यो वा अभुञ्ज्महीति व्यामिश्रे मा भूत् ॥ परोक्षे च लोकविज्ञाते प्रयो- क्तुर्दर्शनविषये लङ्वक्तव्यः ॥ * ॥ अरुणद्यवनः साकेतम् । अरुणद्यवनो माध्य- मिकानिति ॥ अभिज्ञावचने लृट् ॥ ११२ ॥ अभिज्ञा स्मृतिस्तद्वचनउपपदे भूतानद्यतने लृट् प्रत्ययो भवति । लङो- पवादः । अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । वचनग्रहणं पर्यायर्थम् । अभिजानासि स्मरसि बुध्यसे चेतयसइति ॥ न यदि ॥ ११३ ॥ यच्छब्दसहिते ऽभिज्ञावचनउपपदे लृट् प्रत्ययो न भवति । पूर्वेण प्राप्तः