भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 195, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 195

१९८ ॥ काशिका ॥ ३ । २ ॥ प्रतिषिध्यते । अभिजानासि देवदत्त यत्कश्मीरेष्ववसाम । वासमात्रं स्मर्यते । नत्वपरं किं चिल्लक्ष्यते । तेन उत्तरसूत्रस्य नायं विषयः ॥ विभाषा साकाङ्क्षे ॥ ११४ ॥ यदिति नानुवर्त्तते । उभयत्र विभाषेयम् । अभिज्ञावचनउपपदे यच्छ- ब्दसहिते केवले च विभाषालृट् प्रत्ययो भवति साकाङ्क्षश्चेत्प्रयोक्ता । लक्ष्यल- क्षणयोः संबन्धे प्रयोक्तुराकाङ्क्षा भवति । अभिजानासि देवदत्त कश्मीरेषु वत्स्या- मस्तत्रौदनं भोक्ष्यामहे । अभिजानासि देवदत्त मगधेषु वत्स्यामः तत्रौदनं भोक्ष्या- महे । यदि खल्वपि । अभिजानासि देवदत्त यत्कश्मीरेषु वत्स्यामः, यत्तत्रौदनं भोक्ष्यामहे । अभिजानासि देवदत्त यत्कश्मीरेष्ववसाम, यत्तत्रौदनमभुञ्ज्महि । वासो लक्षणं, भोजनं लक्ष्यम् ॥ परोक्षे लिट् ॥ ११५ ॥ भूतानद्यतनइति वर्तते । तस्य विशेषणं परोक्षग्रहणम् । भूतानद्यतनपरो- क्षेऽर्थे वर्तमानाद्धातोर्लिट् प्रत्ययो भवति । ननु धात्वर्थः सर्वः परोक्ष एव । सत्य- मेतत् । अस्ति तु लोके धात्वर्थेनापि कारकेषु प्रत्यक्षाभिमानः, स यत्र नास्ति त- त्परोक्षमित्युच्यते । चकार । जहार । उत्तमविषयेऽपि चित्तविक्षेपात् परोक्षता संभ- वत्येव । तद्यथा । सुप्तोऽहं किल विललाप ॥ अत्यन्तापह्नवे च लिद्वक्तव्यः ॥ * ॥ कलिङ्गेषु स्थितोऽसि, नाहं कलिङ्गं जगाम । दक्षिणापथं प्रविष्टोऽसि, नाहं दक्षि- णापथं प्रविवेश ॥ हशश्वतोर्लङ् च ॥ ११६ ॥ भूतानद्यतनपरोक्षे ऽर्थे लिटि प्राप्ते हशश्वतोरुपपदयोर्लङ् प्रत्ययो भव- ति । चकाराल्लिट् च । इति ह करोत् । इति ह चकार । शश्वदकरोत् । श- श्वच्चकार ॥ प्रश्ने चासन्नकाले ॥ ११७ ॥ भूतानद्यतनपरोक्षइति वर्तते । तस्य विशेषणमेतत् । प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छ्यमाने भूतानद्यतनपरोक्षेऽर्थे वर्तमानाद्धातोर्लङ्लिटौ प्रत्ययौ भवतः कश्चित्कं चित्पृच्छति । अगच्छद्देवदत्तः । जगाम देवदत्तः । अयजद् देवदत्तः । इयाज देवदत्तः । प्रश्नइति किम् । जगाम देवदत्तः । आसन्नकाल- इति किम् । भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः ॥ लट् स्मे ॥ ११८ ॥ भूतानद्यतनपरोक्षइति वर्तते । स्मशब्दउपपदे भूतानद्यतनपरोक्षे लट् प्रत्ययो भवति । लिटोऽपवादः । नलेन स्म पुराधीयते । कथंया स्म पुराधीयते ॥