भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 196, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 196

॥ काशिका ॥ ३ ॥ २ ॥ १८९ अपरोक्षे च ॥ ११९ ॥ अपरोक्षे च भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मउपपदे लट् प्रत्ययो भव- ति । एवं स्म पिता ब्रवीति । इति स्मोपाध्यायः कथयति ॥ ननौ पृष्टप्रतिवचने ॥ १२० ॥ अनद्यतने परोक्षइति निवृत्तम् । भूतसामान्ये विधिरयम् । ननुशब्दउप- पदे प्रश्नपूर्वके प्रतिवचने भूतेऽर्थे लट् प्रत्ययो भवति । लुङोऽपवादः । अकार्षीः कटं देवदत्त, ननु करोमि भोः । अवोचस्तत्र किं चिद्देवदत्त, ननु ब्रवीमि भोः । पृष्टप्रतिवचन इति किम् । नन्वकार्षीन्माणवकः ॥ नन्वोर्विभाषा ॥ १२१ ॥ भूतइत्येव । नशब्दे नुशब्दे चोपपदे पृष्टप्रतिवचने विभाषा लट् प्रत्ययो भवति भूते । अकार्षीः कटं देवदत्त, न करोमि भोः । नाकार्षम् । अहं नु क- रोमि । अहं न्वकार्षम् ॥ पुरि लुङ् चास्मे ॥ १२२ ॥ अनद्यतनग्रहणमिह मण्डूकप्लुत्यानुवर्तते । पुरःशब्दउपपदे स्मशब्दव- र्जिते भूतानद्यतनेऽर्थे विभाषा लुङ् प्रत्ययो भवति लट् च । ताभ्यां मुक्ते पक्षे यथाविषयमन्येऽपि प्रत्यया भवन्ति । वसन्तीह पुरा छात्राः । अवात्सुः पुरा छा- त्राः । अवसञ्चिह पुरा छात्राः । ऊषुरिह पुरा छात्राः । अस्मेति किम् । न- लेन स्म पुराधीयते ॥ वर्त्तमाने लट् ॥ १२३ ॥ आरब्धोऽपरिसमाप्तश्च वर्त्तमानः, तस्मिन्वर्तमानेऽर्थे वर्तमानाद्धातोः लट् प्रत्ययो भवति । पचति । पठति ॥ लटः शतृशानचावप्रथमासमानाधिकरणे ॥ १२४ ॥ लटः शतृशानचावित्येतावादेशौ भवतः, अप्रथमान्तेन चेत्तस्य सामा- नाधिकरण्यं भवति । पचन्तं देवदत्तं पश्य । पचमानं देवदत्तं पश्य । पचता कृतम् । पचमानेन कृतम् । अप्रथमासमानाधिकरणे इति किम् । देवदत्तः पचति । लडिति वर्तमाने पुनर्लट्ग्रहणमधिकविधानार्थम् । क्वचित् प्रथमासमानाधिक- रणेऽपि भवति । सन्ब्राह्मणः । अस्ति ब्राह्मणः । विद्यते ब्राह्मणः । विद्यमानो ब्राह्मणः । जुह्वत् । जुहोति । अधीयानः । अधीते ॥ माद्याक्रोशे ॥ * ॥ मा पचन् । मा पचमानः । के चिद्विभाषाग्रहणमनुवर्तयन्ति नन्वोर्विभाषेति । सा च व्यवस्थिता । तत्र यथादर्शनं प्रयोगा नेतव्याः ॥ सम्बोधने च ॥ १२५ ॥