काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 197, कुल 828 में से
संदर्भ में पढ़ें१८० ॥ काशिका ॥ ३ ॥ २ ॥ प्रथमासमानाधिकरणार्थ चारम्भः । संबोधने च विषये लटः शतृशा- नचौ प्रत्ययौ भवतः । हे पचन् । हे पचमान ॥ लक्षणहेत्वोः क्रियायाः ॥ १२६ ॥ लक्ष्यते चिह्नयते येन तल्लक्षणम् । जनको हेतुः । धात्वर्थविशेषणं चैतत् । लक्षणहेतौ चार्थे वर्त्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवतः । तौ चे- तल्लक्षणहेतू क्रियाविषयौ भवतः । लक्षणे । शयाना भुञ्जते यवनाः । तिष्ठन्तोऽनु- शासति गणकाः । हेतौ । अर्जयन्वसति । अधीयानो वसति । लक्षणहेत्वोरिति किम् । पचति । पठति । क्रियाया इति किम् । द्रव्यगुणयोर्मा भूत् । यः कम्पते सोऽश्वत्थः । यदुत्प्लवते तल्लघु । यन्निषीदति तद्गुरु । लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम् ॥ तौ सत् ॥ १२७ ॥ तौ शतृशानचौ सत्संज्ञौ भवतः । तौ ग्रहणमुपाध्यसंसर्गार्थम् । शतृशान- ञ्मात्रस्य संज्ञा भवति । ब्राह्मणस्य कुर्वन् । ब्राह्मणस्य कुर्वाणः । ब्राह्मणस्य करिष्यन् । ब्राह्मणस्य करिष्यमाणः । सत्प्रदेशाः पूरणगुणसुहितार्थसद्व्ययेतव्ये- त्येवमादयः ॥ पूङ्यजोः शानन् ॥ १२८ ॥ पूङो यजेश्च धातोः शानन् प्रत्ययो भवति । पवमानः । यजमानः । यदि प्रत्ययाः शानचादयो न लादेशाः, कथं सोमं पवमानो नह्यमाद्यान इति षष्ठी- प्रतिषेधः । तृचिति प्रत्याहारनिर्देशात् । क्व संनिविष्टानां प्रत्याहारः । लटः शतृ इत्यतः प्रभृति आ तृनो नकारात् ॥ द्विषः शतुर्वा वचनम् ॥ * ॥ चोर- स्यद्विषन् । चोरं द्विषन् ॥ ताच्छील्यवयोवचनशक्तिषु चानश् ॥ १२६ ॥ ताच्छील्यं तत्स्वभावता । वयः शरीरावस्था यौवनादिः । शक्तिः साम- र्ध्यम् । ताच्छील्यादिषु धातोश्चानश् प्रत्ययो भवति । ताच्छील्ये तावत् । कतीह मण्डयमानाः । कतीह भूषयमाणाः । वयोवचने । कतीह कवचं पर्यस्यमानाः । कतीह शिखण्डं वहमानाः । शक्तौ । कतीह निघ्नानाः । कतीह पचमानाः ॥ इङ्धार्योः शत्रकृच्छ्रिणि ॥ १३० ॥ इङो धारेश्च धात्वोः शतृप्रत्ययो भवति अकृच्छ्रिणि कर्त्तरि । यत्नतः सुखसाध्यो यस्य कर्तुर्धात्वर्थः सो ऽकृच्छ्री । अधीयन् पारायणम् । धारयन्नुप- निबन्धम् । अकृच्छ्रिणीति किम् । कृच्छ्रेणाधीते । कृच्छ्रेण धारयति ॥ द्विषो ऽमित्रे ॥ १३१ ॥