भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 198, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 198

अमित्रः शत्रुः । अमित्रे कर्त्तरि द्विषेर्द्धातोः शतृप्रत्ययो भवति । द्विषन् द्विषन्तौ । द्विषन्तः । अमित्रइति किम् । द्वेष्टि भार्या पतिम् ॥ सुञो यज्ञसंयोगे ॥ १३२ ॥ यज्ञेन संयोगो यज्ञसंयोगः । यज्ञसंयुक्ते ऽभिषवे वर्त्तमानात्सुनोतेर्द्धातोः शतृप्रत्ययो भवति । सर्वे सुन्वन्तः । सर्वे यजमानः सत्त्रिण उच्यन्ते । संयोग- ग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम् । याजकेषु मा भूत । यज्ञसंयोगइति किम् । सु- नोति सुराम् ॥ अर्हः प्रशंसायाम् ॥ १३३ ॥ प्रशंसा स्तुतिः । अर्हतेर्द्धातोः प्रशंसायां शतृप्रत्ययो भवति । अर्हन्निह भवा- न्विद्याम् । अर्हन्निह भवान्पूजाम् । प्रशंसायामिति किम् । अर्हति चोरो वधम् ॥ आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ १३४ ॥ भाजभासेति क्विपं वक्ष्यति । आ एतस्मात् क्विपशब्दाद्यानित ऊर्ध्वम- नुक्रमिष्यामस्तच्छीलादिषु कर्तृषु ते वेदितव्याः । अभिविधौ चायमाङ् । तेन क्विपोऽप्ययमर्थनिर्देशः । तदिति धात्वर्थः शीलादिविशेषणत्वेन निर्द्दिश्यते । तच्छीलो यः स्वभावतः फलानपेक्षस्तत्र प्रवर्त्तते । तद्धर्मा तदाचारः, यः स्व- धर्मे ममायमिति प्रवर्त्तते विनापि शीलेन । तत्साधुकारी यो धात्वर्थे साधु करोति । उत्तरत्रैवोदाहरिष्यामः ॥ तृन् ॥ १३५ ॥ सर्वधातुभ्यस्तृन्प्रत्ययो भवति तच्छीलादिषु कर्तृषु । तकारः स्वरार्थः । तच्छीले तावत् । कर्त्ता कटान् । वदिता जनापवादान् । तद्धर्मिणि । मुण्डयि- तारः श्राविष्ठायना भवन्ति वधूमूढाम् । अन्नमपहर्त्तार आहरका भवन्ति श्राद्धे सिद्धे । उचेतारस्तौल्वलायना भवन्ति पुत्रे जाते तत्साधुकारिणि । कर्त्ता क- टम् । गन्ता खेटम् ॥ तृन्विधावुत्वित्त्वं चानुपसर्गस्य ॥ * ॥ होता । पोता । अनु- पसर्गस्येति किम् । उद्गाता । प्रतिहर्त्ता । तृन्नेव भवति । स्वरविशेषः ॥ नयते- र्बुक् च ॥ * ॥ नेष्टा ॥ त्विषेर्द्देवतायामकारश्चोपधाया अनिट्त्वं च ॥ * ॥ त्वष्टा ॥ चदेश्च नियुक्ते ॥ * ॥ चत्ता । क्व चिदधिकृत उच्यते ॥ हन्तेश्च तृत्व्य् ॥ * ॥ सत्तृभ्यः संगृहीतृभ्यः । स्वरे विशेषः ॥ अलंकृञ्निराकृञ्प्रजनोत्प चोत्पतोन्मदरुच्यपत्र- पवृधुवृधूसहचर इष्णुच् ॥ १३६ ॥ अलंङ्कृञादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति । अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पत्निष्णुः । उन्म-