काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 205, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 205
१९८ ॥ काशिका ॥ ३ ॥ २ ॥ ष्ठा गतिनिवृत्तौ । ईश ऐश्वर्ये । भासृ दीप्तौ । पिसृ पेसृ गतौ । कस गतौ । एतेभ्यस्तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति । स्थावरः । ईश्वरः । पेश्वरः । विकस्वरः ॥ यश्च यङः ॥ १७६ ॥ या प्रापणे । अस्मादाङन्तात्सच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति । यायावरः ॥ भ्राजभासधुर्विद्द्युतोर्जिपृजुग्रावस्तुवः क्विप् ॥ १७७ ॥ भ्राजादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् प्रत्ययो भवति । विभ्राट् । विभ्राजौ । विभ्राजः । भाः । भासौ । भासः । धूः । धुरौ । धुरः । विद्युत् । विद्युत्तौ । विद्युतः । ऊर्क् । ऊर्जौ । ऊर्जः । पूः । पुरौ । पुरः । जवतेर्दीर्घश्च निपात्यते * । जूः । जुवौ । जुव