भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 206, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 206

॥ काशिका ॥ ३ ॥ २ ॥ १९९ भुव इति वर्तते । वि प्र सम् इत्येवंपूर्वाद्भवतेर्धातोः डुप्रत्ययो भवति, न चेत्संज्ञा गम्यते । विभुः सर्वगतः । प्रभुः स्वामी । संभुर्जनिता । असंज्ञाया- मिति किम् । विभूर्नाम कश्चित् ॥ डुप्रकरणे मितद्र्वादिभ्य उपसंख्या- नम् ॥ * ॥ मितं द्रवति मितद्रुः । शंभुः ॥ धः कर्मणि ष्ट्रन् ॥ १८१ ॥ धयतेर्धातोश्च कर्मणि कारके ष्ट्रन्प्रत्ययो भवति । षकारो ङीषर्थः । धयन्ति तां दधति वा भैषज्यार्थमिति धात्री । स्तनदायिनी आमलकी चोच्यते ॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतद- शनहःकरणे ॥ १८२ ॥ दाम् लवने । णीञ् प्रापणे । शसु हिंसायाम् * । यु मिश्रणे । युजिर् योगे ष्टुञ् स्तुतौ । तुद व्यथने । षिञ् बन्धने । षिचिर् क्षरणे । मिह सेचने । पतॢ गतौ । दंश दशने । णह बन्धने । एतेभ्यो धातुभ्यः करणे कारके ष्ट्रन्प्रत्ययो भवति । दान्त्यनेनेति दाम्त्रम् । नेत्रम् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्त्रम् । सेत्रम् । सेक्तम् । मेढ्रम् । पत्त्रम् । दंष्ट्रा । अजादित्वात् टाप् न ङीप् । दंशेरनुनासिकलोपेन निर्देशो ज्ञापनार्थः क्ङितो ऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद्भवतीति तेन ल्युट्यपि भवति । दशनम् । नद्धी ॥ हलसूकरयोः पुवः ॥ १८३ ॥ पू इति पूङ्प्वोस्सामान्येन ग्रहणम् । अस्माद्धातोः करणे कारके ष्ट्रन् प्रत्ययो भवति । तच्चेत्करणं हलसूकरयोरवयवो भवति । हलस्य पोत्रम् । सूकरस्य पोत्रम् । मुखमुच्यते ॥ अर्त्तिलूहूधूसूखनसहचर इत्रः ॥ १८४ ॥ ऋ गतौ । लूञ् छेदने । धू विधूनने । षू प्रेरणे । खनु अवदारणे । षह मर्षणे । चर गतिभक्षणयोः । एतेभ्यो धातुभ्यः करणे कारके इत्रप्रत्ययो भवति । अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥ पुवः संज्ञायाम् ॥ १८५ ॥ पूङ्प्वोः सामान्येन ग्रहणम् । पवतेर्धातोः करणे कारके इत्रप्रत्ययो भवति समुदायेन चेत्संज्ञा गम्यते । दर्भः पवित्रम् । बर्हिष्पवित्रम् ॥ कर्त्तरि चर्षिदेवतयोः ॥ ॥ १८६ ॥ पुव इति वर्तते । पुवः करणे कर्तरि च इत्रप्रत्ययो भवति । ऋषिदे- वतयोर्यथासंख्यं संबन्धः । ऋषौ करणे देवतायां कर्तरि । पूयते ऽनेनेति पवि-

  • शसु हिंसायाम् । शंसु स्तुतौ च । द्वयोरपि ग्रहणमिति वा० ।