काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 207, कुल 828 में से
संदर्भ में पढ़ें३०० ॥ काशिका ॥ ३ ॥ २ ॥ च्नेयम्ऋषिः । देवतायाम् । अग्निः पवित्रं स मा पुनातु । वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु ॥ ञीतः क्तः ॥ १८७ ॥ ञि इत्यस्यासौ ञीत । ञीतो धातोर्वर्त्तमाने ऽर्थे क्तप्रत्ययो भवति । भूते निष्ठा विहिता वर्तमाने न प्राप्नोतीति विधीयते । ञिमिदा स्नेहने । मिन्नः । ञिक्ष्विदा । क्ष्विण्णः । ञिधृषा । धृष्टः ॥ मतिबुद्धिपूजार्थेभ्यश्च ॥ १८८ ॥ मतिरिच्छा । बुद्धिर्ज्ञानम् । पूजासत्कारः । एतदर्थेभ्यश्च धातुभ्यो वर्त्तमानार्थे क्तप्रत्ययो भवति । राज्ञां मतः । राज्ञामिष्टः । राज्ञां बुद्धः । राज्ञां ज्ञातः । राज्ञां पूजितः । राज्ञामर्चितः । अनुक्तसमुच्चयार्थश्चकारः । शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि । रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥ हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः ॥ कष्ट इति भविष्यति काले । अमृत इति पूर्ववत् । वर्त्तमान इत्यर्थः । तथा । सुप्तः * । शयितः । आशितः । लिप्तः । तृप्तः । इत्येवमादयोऽपि वर्त्तमाने द्रष्टव्याः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः ॥ ॥ अथ तृतीयाध्यायस्य तृतीयः पादः ॥ उणादयो बहुलम् ॥ १ ॥ वर्त्तमानइत्येव, संज्ञायामिति च । उणादयः प्रत्यया वर्त्तमानार्थे संज्ञायां विषये बहुलं भवन्ति । यतो विहितास्ततोऽन्यत्रापि भवन्ति । के चिदविहिता एव प्रयोगत उन्नीयन्ते । कृवापाजिमिस्वदिसाध्यशूभ्य उण् । कारुः । वायुः । पायुः । जायुः । मायुः । स्वादुः । साधुः । आशुः । * शप्त इति पा० ।