काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 208, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २०१ बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु ॥ १ ॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ २ ॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ ३ ॥ भूतेपि दृश्यन्ते ॥ २ ॥ पूर्वेण वर्तमानाधिकाराद्भूतार्थमिदं वचनम् । भूते काले उणादयः प्रत्यया दृश्यन्ते । वृत्तमिदं वर्त्म । चरितं तदिति चर्म । भसितं तदिति भस्म । दृशिग्रहणं प्रयोगानुसारार्थम् ॥ भविष्यति गम्यादयः ॥ ३ ॥ भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति । प्रत्ययस्यैव भवि- ष्यत्कालता विधीयते न प्रकृतेः । गमी ग्रामम् । आगामी । प्रस्थायी । प्रति- रोधी । प्रतिबोधी । प्रतियोधी । प्रतियोगी । प्रतियायी । आयायी । भावी ॥ अनद्यतनउपसंख्यानम् ॥ * ॥ श्वो गमी ग्रामम् ॥ यावत्पुरानिपातयोर्लट् ॥ ४ ॥ भविष्यतीत्येव । यावत्पुराशब्दयोर्निपातयोरुपपदयोर्भविष्यति काले धातोर्लट् प्रत्ययो भवति । यावद्भुङ्क्ते । पुरा भुङ्क्ते । निपातयोरिति किम् । यावद्वास्यति तावद्भोक्ष्यते । करणभूतया पुरा व्रजिष्यति ॥ विभाषा कदाकर्ह्योः ॥ ५ ॥ कदा कर्हि इत्येतयोरुपपदयोर्विभाषा भविष्यति काले धातोर्लट् प्रत्ययो भवति । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ता । कर्हि भुङ्क्ते । कर्हि भोक्ष्यते । कर्हि भोक्ता ॥ किंवृत्ते लिप्सायाम् ॥ ६ ॥ विभाषेति वर्तते । किमो वृत्तं किंवृत्तम् ॥ वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् डतरडतमौ चेति परिसंख्यानं स्मर्यते ॥ किंवृत्तउपपदे लिप्सायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति । लिप्सा, लब्धुमिच्छा प्रार्थनाभिलाषः । कं भवन्तो भोजयन्ति । कं भवन्तो भोजयितारः । लब्धु- कामः पृच्छति । कतरो भिक्षां दास्यति, ददाति, दाता वा । कतमो भिक्षां दास्यति, ददाति, दाता वा । लिप्सायामिति किम् । कः पाटलिपुत्रं गमिष्यति ॥