काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ३ ॥ ३ ॥ २०१ बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु ॥ १ ॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ २ ॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥ ३ ॥ भूतेपि दृश्यन्ते ॥ २ ॥ पूर्वेण वर्तमानाधिकाराद्भूतार्थमिदं वचनम् । भूते काले उणादयः प्रत्यया दृश्यन्ते । वृत्तमिदं वर्त्म । चरितं तदिति चर्म । भसितं तदिति भस्म । दृशिग्रहणं प्रयोगानुसारार्थम् ॥ भविष्यति गम्यादयः ॥ ३ ॥ भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति । प्रत्ययस्यैव भवि- ष्यत्कालता विधीयते न प्रकृतेः । गमी ग्रामम् । आगामी । प्रस्थायी । प्रति- रोधी । प्रतिबोधी । प्रतियोधी । प्रतियोगी । प्रतियायी । आयायी । भावी ॥ अनद्यतनउपसंख्यानम् ॥ * ॥ श्वो गमी ग्रामम् ॥ यावत्पुरानिपातयोर्लट् ॥ ४ ॥ भविष्यतीत्येव । यावत्पुराशब्दयोर्निपातयोरुपपदयोर्भविष्यति काले धातोर्लट् प्रत्ययो भवति । यावद्भुङ्क्ते । पुरा भुङ्क्ते । निपातयोरिति किम् । यावद्वास्यति तावद्भोक्ष्यते । करणभूतया पुरा व्रजिष्यति ॥ विभाषा कदाकर्ह्योः ॥ ५ ॥ कदा कर्हि इत्येतयोरुपपदयोर्विभाषा भविष्यति काले धातोर्लट् प्रत्ययो भवति । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ता । कर्हि भुङ्क्ते । कर्हि भोक्ष्यते । कर्हि भोक्ता ॥ किंवृत्ते लिप्सायाम् ॥ ६ ॥ विभाषेति वर्तते । किमो वृत्तं किंवृत्तम् ॥ वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् डतरडतमौ चेति परिसंख्यानं स्मर्यते ॥ किंवृत्तउपपदे लिप्सायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति । लिप्सा, लब्धुमिच्छा प्रार्थनाभिलाषः । कं भवन्तो भोजयन्ति । कं भवन्तो भोजयितारः । लब्धु- कामः पृच्छति । कतरो भिक्षां दास्यति, ददाति, दाता वा । कतमो भिक्षां दास्यति, ददाति, दाता वा । लिप्सायामिति किम् । कः पाटलिपुत्रं गमिष्यति ॥
२०२ ॥ काशिका ॥ ३ ॥ ३ ॥ लिप्स्यमानसिद्धौ च ॥ ७ ॥ विभाषेत्येव । लिप्स्यमानात्सिद्धिर्लिप्स्यमानसिद्धिः, लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति । अकिंवृत्ता- र्थोयमारम्भः । यो भक्तं ददाति सस्वर्गं गच्छति । यो भक्तं दास्यति स स्वर्गे गमिष्यति । यो भक्तं दाता स स्वर्गे गन्ता । लिप्स्यमानाद् भक्तात्स्वर्गसिद्धि- माचक्षाणो दातारं प्रोत्साहयति ॥ लोडर्थलक्षणे च ॥ ८ ॥ लोडर्थः प्रैषादिर्लक्ष्यते येन स लोडर्थलक्षणो धात्वर्थः, तत्र वर्तमाना- द्धातोर्भविष्यति काले विभाषा लट् प्रत्ययो भवति । उपाध्यायश्चेदागच्छति । उपाध्यायश्चेदागमिष्यति । उपाध्यायश्चेदागन्ता । अथ त्वं छन्दो ऽधीष्व । अथ त्वं व्याकरणमधीष्व । उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम् ॥ लिङ् चोर्ध्वमौहूर्त्तिके ॥ ९ ॥ भविष्यति विभाषा लोडर्थलक्षण इति सर्वमनुवर्त्तते । उर्ध्वमौहूर्त्तिके भवि- ष्यति काले लोडर्थलक्षणार्थे वर्तमानाद्धातोर्विभाषा लिङ् प्रत्ययो भवति, चका- राल्लट् च । ऊर्द्धं मुहूर्त्ताद्भव ऊर्ध्वमौहूर्त्तिकः । निपातनात्समासः, उत्तरपदवृ- द्विश्च । भविष्यतश्चैतद्विशेषणम् । ऊर्ध्वं मुहूर्त्तादुपरि मुहूर्त्तस्य उपाध्यायश्चे- दागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदा- गन्ता । अथ त्वं छन्दो ऽधीष्व । अथ त्वं व्याकरणमधीष्व ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ १० ॥ भविष्यतीत्येव । क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमु- न्ण्वुलौ प्रत्ययौ भवतः । भोक्तुं व्रजति । भोजको व्रजति । भुजिक्रियार्थो व्रजि- रत्रोपपदम् । क्रियायामिति किम् । भित्तिष्यत्यस्य जटाः । क्रियार्थायामिति किम् । धावतस्ते पतिष्यति दण्डः । अथ किमर्थं ण्वुल् विधीयते । यावता ण्वुल्तृचाविति सामान्येन विहित एव सोस्मिन्नपि विषये भविष्यति । लटा क्रियार्थोपपदेन बाध्येत । वासरूपविधिना सोपि भविष्यति । एवं तर्हीतज् ज्ञाप्यते क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति । तेन कर्त्ता व्रजति विक्षेपो व्रजतीत्येवमादि निवर्त्त्यते ॥ भाववचनाश्च ॥ ११ ॥ भविष्यतीत्येव । भाववदिति प्रकृत्य ये घञादयो विहितास्ते च भाववचना भविष्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति । किमर्थमिदं यावता विहिता एव ते । क्रियार्थोपपदे विहितेनास्मिन्विषये तुमुना बाध्येरन् । वासरूपविधित्वाच्च
नास्तीत्युक्तम्। अथ वचनग्रहणं किमर्थम्। वाचका यथा स्युः। कथं च वाचका भवन्ति। याभ्यः प्रकृतिभ्यो येन विशेषेण विहिता यदि ताभ्यस्तथैव भवन्ति नासामञ्जस्येनेति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति ॥ अण् कर्मणि च ॥ १२ ॥ भविष्यतीत्येव। चकारः सन्नियोगार्थः। धातोरण्प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। कर्मण्यणिति सामान्येन विहि- तो वासरूपविधेरभावाद् ण्वुलाबाधितः पुनर्विधीयते, सोऽपवादत्वाद् ण्वुलं बाधते, परत्वात्कादीन्। तेनापवादविषयेऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति ॥ लृट् शेषे च ॥ १३ ॥ भविष्यतीत्येव। शेषः क्रियार्थोपपदादन्यः। शेषे शुद्धे भविष्यति काले चकारात् क्रियायां चोपपदे क्रियार्थायां धातोर्लृट् प्रत्ययो भवति। करिष्या- मीति व्रजति। हरिष्यामीति व्रजति। शेषे खल्वपि। करिष्यति। हरिष्यति ॥ लुटः सद्वा ॥ १४ ॥ लृटः स्थाने सत्संज्ञौ शतृशानचौ वा भवतः। व्यवस्थितविभाषेयम्। तेन यथा लटः शतृशानचौ तथा ऽस्यापि भवतः। अप्रथमासमानाधिकरणेषु नित्यम्, अन्यत्र विकल्पः। करिष्यन्तं देवदत्तं पश्य। करिष्यमाणं देवदत्तं पश्य। हे करिष्यन्। हे करिष्यमाण। अर्जयिष्यमाणो वसति। प्रथमासमानाधिकरणे विकल्पः। करिष्यन्देवदत्तः। करिष्यमाणो देवदत्तः। करिष्यते। करिष्यति ॥ अनद्यतने लुट् ॥ १५ ॥ भविष्यतीत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोर्लुट् प्रत्ययो भवति। लृटोपवादः। श्वः कर्ता। श्वो भोक्ता। अनद्यतनइति बहुव्रीहिनि- र्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यतीति ॥ परिवेदने श्वस्तनी भविष्यदर्थे वक्तव्या ॥ * ॥ इयं नु कदा गन्ता, यैवं पादौ निदधाति। अयं नु कदाध्येता, य एवमनभियुक्तः ॥ पदरुजविशस्पृशो घञ् ॥ १६ ॥ भविष्यतीति निवृत्तम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदा- दिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यतेऽसौ, पादः। रुज्यत्यसौ, रोगः। विशत्यसौ, वेशः ॥ स्पृश उपतापइति वक्तव्यम् ॥ * ॥ स्पृशतीति स्पर्श उप- तापः। ततो ऽन्यत्र पचाद्यच् भवति। स्पर्शी देवदत्तः। स्वरे विशेषः ॥ सृ स्थिरे ॥ १७ ॥
ित्यताधिकं पुस्तकान्तरे ।`
Everything is accounted for.२०४ ॥ काशिका ॥ ३ ॥ ३ ॥ सर्तेर्द्धातोः स्थिरे कर्त्तरि घञ् प्रत्ययो भवति । स्थिर इति कालान्तरस्थायी पदार्थ उच्यते । स चिरं तिष्ठन् कालान्तरं सरतीति धात्वर्थस्य कर्त्ता युज्यते । चन्दनसारः । खदिरसारः । स्थिर इति किम् । सर्त्ता । सारकः । व्याधिमत्स्यबले- ष्विति वक्तव्यम् ॥ * ॥ अतीसारो व्याधिः । बिसारो मत्स्यः । सारो बलम् ॥ भावे ॥ १८ ॥ भावे वाच्ये धातोर्घञ् प्रत्ययो भवति । पाकः । त्यागः । रागः । क्रिया- सामान्यवाची भवतिः । तेनार्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति । धात्वर्थश्च धातुनैवोच्यते, यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्यया विधीयन्ते । पुंलिङ्गैकवचनं चात्र न तन्त्रं, लिङ्गान्तरे वचनान्तरेपि चात्र प्रत्यया भवन्त्येव
॥ काशिका ॥ ३ ॥ ३ ॥ २०५ दधीते उपाध्यायः । अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष् ॥ * ॥ उपाध्याया । उपाध्यायी ॥ शृ वा युवर्णनिवृत्तेषु ॥ * ॥ शारो वायुः । शारो वर्षः । शारो निवृत्तम् ॥ गौरिवाकृतनोशारः प्रायेण शिशिरे कृशः ॥ उपसर्गे रुवः ॥ २२ ॥ उपसर्गोपपदे रौतेर्धातोर्घञ् प्रत्ययो भवति । अपोपवादः । संरावः । उपरावः । उपसर्गेति किम् । रवः ॥ समि युद्रुदुवः ॥ २३ ॥ समि उपपदे यु द्रु दु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति । संयावः । संद्रावः । संदावः । समीति किम् । प्रद्रवः ॥ श्रिणीभुवो ऽनुपसर्गे ॥ २४ ॥ श्रि णी भू इत्येतेभ्यो धातुभ्यो ऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति । अचो- ऽपवादः । श्रायः । नायः । भावः । अनुपसर्गेदिति किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञः । प्रकृष्टो भाव इति प्रादिसमासो भविष्यति । कथं च नयो राज्ञः । कृत्यल्युटो बहुलमित्यञ् भविष्यति । वै द्रुस्रुवः ॥ २५ ॥ वावुपपदे द्रु स्रु इत्येताभ्यां धातुभ्यां घञ् प्रत्ययो भवति । अपोपवादः । विद्रावः । विस्रावः । वाविति किम् । द्रवः । स्रवः ॥ अवोदोर्नियः ॥ २६ ॥ अव उद् इत्येतयोरुपपदयोर्नयतेर्धातोर्घञ् प्रत्ययो भवति । अवनायः । उन्नायः । कथमुच्चयः पदार्थानाम् । कृत्यल्युटो बहुलमित्यञ् भविष्यति ॥ प्रे द्रुस्तुस्रुवः ॥ २७ ॥ प्रोपपदे द्रु स्तु स्रु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति । प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रेति किम् । द्रवः । स्तवः । स्रवः ॥ निरभ्योः पूल्वोः ॥ २८ ॥ पू इति पूङ्प्वोः सामान्येन ग्रहणम् । लूँञ् छेदने । यथासंख्यमुपसर्गे- संबन्धः । निरभिपूर्वयोः पूल्वोर्धात्वोर्घञ् प्रत्ययो भवति । निष्पावः । अभि- लावः । निरभ्योरिति किम् । पवः । लवः ॥ उन्योर्ग्रः ॥ २९ ॥ गृ शब्दे, गृ निगरणे, द्वयोरपि ग्रहणम् । उन्योरुपपदयोः गृ इत्येतस्मा-
प्रत्ययो भवति ।" Wait: "वि स्तॄ इति वर्तते ।" or "वि स्तृ इति वर्तते ।"? In print: "वि स्तृ इति वर्तते ।" (single curve under त). Then: "विपूर्वात्स्तृद्धातेश्छन्दोनाम्नि घञ् प्रत्ययो भवति ।" Wait, "स्तृद्धातेः" or "स्तॄद्धातेः"? It has a single curve. L22: "वृत्तमात्रं छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः । न मन्त्रब्राह्मणं, नामग्रहणात् ।" Wait: "वृत्तमात्रं छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः । न मन्त्रब्राह्मणं, नामग्रहणात् ।" Wait, look at the first word: "वृत्तमात्रं" or "वृत्तमत्र"? It has a line: "वृत्तमात्रं छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः । न मन्त्रब्राह्मणं, नामग्रहणात् ।" L23: "विष्टारपङ्क्तिश्छन्दः । विष्टारबृहतीच्छन्दः । विष्टारपङ्क्तिशब्दोऽत्र छन्दोनाम, न" Wait, "विष्टारबृहतीच्छन्दः" or "विष्टारबृहतीछन्दः"? Look at L
, why would it be पराव्?
Wait, in Ashtadhyayi:
3.3.38 is पर्यावनुपात्ययेऽणः? No, पर्यावनुपात्यये (परि + औ = पर्यौ; पर्यौ + अनुपात्यये = पर्यावनुपात्यये, by vānta-ādeśa!).
Wait, if it's पर्यावनुपात्यये, then पर्याव... has र्या!
Does line 10 have र्या?
Let's look at line 10:
प then रा? Wait, look at र्या in line 12: पर्यायः. The र्या has a hook at the top, and the letter य with ा!
Does line 10 have य? NO, it has र followed by ा: रा!
So line 10 literally says: परावनुपात्ययइणः ॥ ३८ ॥! It's a misprint in this edition (omitting the य and repha, or reading परावनुपात्ययइणः).
Wait, and at the end of line 10: यइणः! It has इणः!
So it is definitely printed as: परावनुपात्ययइणः ॥ ३८ ॥.
Line 11: `परिश
२०८ ॥ काशिका ॥ ३ ॥ ३ ॥ संघे चानौत्तराधर्ये ॥ ४२ ॥ चेरित्येव । प्राणिनां समुदायः संघः । स च द्वाभ्यां प्रकाराभ्यां भवति । एकधर्मसमावेशेन, चौत्तराधर्येण वा । तत्र चौत्तराधर्यपर्युदासादितरो गृह्यते । संघे वाच्ये चिनोतेर्द्धातोर्घञ् प्रत्ययो भवति आदेशश्च कः । भिक्षुकनिकायः । ब्राह्मणनिकायः । वैयाकरणनिकायः । अनौत्तराधर्ये इति किम् । सूकरनिचयः । प्राणिविषयत्वात्संघस्येह न भवति । कृताकृतसमुच्चयः । प्रमाणसमुच्चयः ॥ कर्मव्यतिहारे णच् स्त्रियाम् ॥ ४३ ॥ कर्म, क्रिया । व्यतिहारः, परस्परं करणम् । कर्मव्यतिहारे गम्यमाने धातोर्णच्प्रत्ययो भवति स्त्रीलिङ्गे वाच्ये । तच्च भावे । णकारो विशेषाणार्थः णचः स्त्रियामिति । व्यावक्रोशी । व्यावलेखी । व्यावहासी वर्तते । स्त्रिया- मित
॥ काशिका ॥ ३ ॥ ३ ॥ २०६ परौ यज्ञे ॥ ४७ ॥ परिशब्दउपपदे गृहेर्घञ् प्रत्ययो भवति। यज्ञविषयश्चेत्प्रत्ययान्ताभिधेयः स्यात्। उत्तरपर्याहः। अधरपर्याहः। यज्ञ इति किम्। परिग्रहो देवदत्तस्य॥ नौ वृ धान्ये ॥ ४८ ॥ वृ इति वृङ्-वृञोः सामान्येन ग्रहणम्। निशब्दउपपदे वृ इत्येतस्माद्धा- तोर्धान्यविशेषे ऽभिधेये घञ् प्रत्ययो भवति। अपोऽपवादः। नीवारा नाम व्रीहयः। धान्य इति किम्। निवरा कन्या॥ उदि श्रयतियैतिपूद्रुवः ॥ ४९ ॥ उच्छब्दउपपदे श्रयत्यादिभ्यो घञ् प्रत्ययो भवति। अजपोर्पवादः। उच्छ्रायः। उच्छावः। उत्पावः। उद्द्रावः। कथं पतनान्ताः समुच्छ्रयाः। वक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन संबध्यते॥
२१० ॥ काशिका ॥ ३ ॥ ३ ॥ भवति । प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते । प्रावारः । प्रवरः । आच्छा- दनइति किम् । प्रवरा गौः ॥ परौ भुवो ऽवज्ञाने ॥ ५५ ॥ विभाषेत्येव । परिशब्दउपपदे भवतेर्धातोर्र्विभाषा घञ् प्रत्ययो भवति अवज्ञाने गम्यमाने । अवज्ञानमसत्कारः । परिभावः । परिभवः । अवज्ञानइति किम् । सर्वतो भवनं परिभवः ॥ एरच् ॥ ५६ ॥ भावे अकर्त्तरि च कारके इति प्रकृतमनुवर्त्तते यावत्कृत्यल्युटो बहुल- मिति । इवर्णान्ताद्धातोर्भावे अकर्त्तरि च कारके संज्ञायामच् प्रत्ययो भवति । घञो पवादः । चकारो विशेषणार्थः । अन्तः थाथघञ्क्ताजबित्रकाणामिति । चयः । श्चयः । जयः । तयः ॥ अग्विधौ भयादीनामुपसंख्यानम् ॥ * ॥ नपुंसके क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् ॥ जवस्रवौ छन्दसिवक्तव्यौ ॥ * ॥ ऊर्व्वारस्तु मे जवः । पञ्चौदनसवः * ॥ ऋदोरप् ॥ ५७ ॥ ऋकारान्तेभ्य उवर्णान्तेभ्यश्च अप् प्रत्ययो भवति । घञोपवादः । पित्करणं स्वरार्थम् । करः । गरः । शरः । उवर्णान्तेभ्यः । यवः । लवः । पवः । दकारो मुखसुखार्थः । मा भूत्तादपि परस्तपरः ॥ ग्रहवृदृनिश्चिगमश्च ॥ ५८ ॥ ग्रहादिभ्यो धातुभ्यो ऽप् प्रत्ययो भवति । घञोपवादः । निश्चिनोते- स्त्वचोपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः । निश्चयग्रहणं स्वरा- र्थम् ॥ वशिरण्योरुपसंख्यानम् ॥ * ॥ वशः । रणः ॥ घञर्थे कविधानं स्याद्धा- यात्र्याधिनिधुधर्षम् ॥ * ॥ प्रतिष्ठन्तेस्मिन्निति प्रस्थः पर्वतस्य । प्रख्यात्यस्मि- न्प्रख्यः । प्रपिबन्त्यस्यामिति प्रपा । आविध्यन्ति तेनेत्याविधः । विहन्यन्ते ऽस्मिन्निति विघ्नः । आयुध्यतेनेनेत्यायुधम् ॥ उपसर्गे ऽदः ॥ ५९ ॥ अपित्येव । उपसर्गेउपपदे ऽदेर्धातोरप् प्रत्ययो भवति । विघसः । प्रघसः । उपसर्गेइति किम् । घसः ॥ न्यौ च ॥ ६० ॥ निशब्दउपपदे अदेर्धातोरण् प्रत्ययो भवति । चकारादप् च । न्यादः । निघसः ॥
- पिण्डोदनसव इति पा० ।
॥ काशिका ॥ ३ ॥ ३ ॥ २११ व्यधजपोरनुपसर्गे ॥ ६१ ॥ व्यध जप इत्येतयोरनुपसर्गयोरप् प्रत्ययो भवति । घञोऽपवादः । व्यधः । जपः । अनुपसर्गेति किम् । आव्याधः । उपजपः ॥ स्वनहसोर्वा ॥ ६२ ॥ अनुपसर्गइत्येव । स्वनहसोरनुपसर्गयोर्वा अप् प्रत्ययो भवति । स्वनः । स्वानः । हसः । हासः । अनुपसर्गइति किम् । प्रस्वानः । प्रहासः ॥ यमः समुपनिविषु च ॥ ६३ ॥ अनुपसर्गे वा इति वर्तते । सम् उप नि वि इत्येतेषूपपदेषु चानुपसर्गेऽपि यमेर्वा अप् प्रत्ययो भवति । घञोऽपवादः । संयामः । उपयामः । संयमः । उपयमः । नियमः । नियामः । वियमः । वियामः । अनुपसर्गात्त्वपि । यमः । यामः ॥ नौ गदनदपठस्वनः ॥ ६४ ॥ [L
२१२ ॥ काशिका ॥ ३ ॥ ३ ॥ समुदोरजः पशुषु ॥ ६९ ॥ समुदोरुपपदयोरजतेर्द्धातोः पशुविषये धात्वर्थे अप् प्रत्ययो भवति । घञो ऽपवादः । अज गतिक्षेपणयोरिति पठ्यते । स संपूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे । समजः पशूनां, समुदाय इत्यर्थः । उदजः पशूनां, प्रेरणमि- त्यर्थः । पशुष्विति किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणां ॥ अक्षेषु ग्लहः ॥ ७० ॥ ग्लह इति निपात्यते अक्षविषयश्चेद्धात्वर्थो भवति । ग्रहेरप् सिद्ध एव लत्वार्थे निपातनम् । अक्षस्य ग्लहः । अक्षेष्विति किम् । ग्रहः पादस्य । अन्ये ग्लहिं प्रकृत्यन्तरमाहुः ते घञं प्रत्युदाहरन्ति । ग्लाहः ॥ प्रजने सर्त्तेः ॥ ७१ ॥ सर्त्तेर्द्धातोः प्रजने विषये अप् प्रत्ययो भवति, घञोऽपवादः । प्रजनं प्रथमं गर्भग्रहणम् । गवामुपसरः । पशूनामुपसरः । स्त्रीगवीषु पुंगवानां गर्भा- धानाय प्रथममुपसरंणमुच्यते ॥ ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ७२ ॥ नि अभि उप वि इत्येतेषु उपपदेषु ह्वयतेर्द्धातोः संप्रसारणम् अप् प्रत्ययो भवति । घञोपवादः । निहवः । अभिहवः । उपहवः । विहवः । एतेष्विति किम् । प्रह्वावः ॥ आङि युद्धे ॥ ७३ ॥ आङि उपपदे ह्वयतेर्द्धातोः संप्रसारणमप् प्रत्ययो भवति युद्धे ऽभिधेये । आहूयन्ते ऽस्मिन्नित्याहवः । युद्धइति किम् । आह्वायः ॥ निष्पानमाहावः ॥ ७४ ॥ आङ्पूर्वस्य ह्वयतेर्द्धातो. संप्रसारणम् प्रत्ययो वृद्धिश्च निपात्यते, निपानं चेदभिधेयं भवति । निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते । आहावः । पशूनां कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते । निपानमिति किम् । आह्वायः ॥ भावे ऽनुपसर्गस्य ॥ ७५ ॥ अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययो भवति भावे ऽभिधेये । हवः । हवेहवे सुहवं शूरमिन्द्रम् । अनुपसर्गस्येति किम् । आह्वावः । भावग्रहणमक- र्तरि च कारके संज्ञायामित्यस्य निरासार्थम् ॥ हनश्च वधः ॥ ७६ ॥
॥ काशिका ॥ ३ । ३ ॥ २१३ भावेनुपसर्गस्येति वर्तते । हन्तेर्धातोरनुपसर्गे भावे अप् प्रत्ययो भवति, तत्संनियोगेन च वधादेशः, स चान्तोदात्तः । तत्रोदात्तनिवृत्तिस्वरेणाप उदात्तत्वं भवति । वधश्चोराणाम् । वधो दस्यूनाम् । भावइत्येव । घातः । अनुपसर्गस्येत्येव । प्रघातो, विघातः । चकारो भिन्नक्रमत्वाच्चादेशेन संबध्यते । किं तर्हि प्रकृतेन प्रत्ययेन, अप् च, यश्चापरः प्राप्नोति । तेन घञपि भवति । घातो वर्तते ॥ मूर्तौ घनः ॥ ७७ ॥ हन इत्येव, मूर्तिः, काठिन्यं, मूर्तावभिधेयायां हन्तेरप् प्रत्ययो भवति, घश्चादेशः । अभ्रघनः । दधिघनः । कथं घनं दधीति । धर्मशब्देन धर्मी भण्यते ॥ अन्तर्घनो देशे ॥ ७८ ॥ अन्तःपूर्वाद्धन्तेरप् प्रत्ययो भवति घनादेशश्च भवति देशे ऽभिधेये । अन्तर्घनः, संज्ञीभूतो वाहीकेषु देशविशेष उच्यते । अन्ये णकारं पठन्ति । अन्तर्घणो देश इति, तदपि ग्राह्यमेव । देशइति किम् । अन्तर्घातोऽन्यः ॥ अगारैकदेशे प्रघणः प्रघाणश्च ॥ ७९ ॥ प्रपूर्वस्य हन्तेः प्रघण प्रघाण इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये । प्रघणः । प्रघाणः । द्वारप्रकोष्ठो बाह्य उच्यते । अगारैकदेशइति किम् । प्रघातो ऽन्यः ॥ उद्धनोऽत्याधानम् ॥ ८० ॥ उत्पूर्वस्य हन्तेरुद्धन इति निपात्यते ऽत्याधानं चेद्भवति । उद्धनः । यस्मिन्काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते । उद्घातोऽन्यः ॥ अपघनोऽङ्गम् ॥ ८१ ॥ अपपूर्वस्य हन्तेरपघन इति निपात्यते, अङ्गं चेत्तद्भवति । अपघनः, अङ्गम् । अवयव, एकदेशो न सर्वः किं तर्हि पाणिः पादश्चाभिधीयते । अपघातो ऽन्यः ॥ करणे ऽयोविद्रुषु ॥ ८२ ॥ हन इति वर्तते । अयस् वि द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारके ऽप् प्रत्ययो भवति, घनादेशश्च । अयो हन्यतेनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इति के चिदुदाहरन्ति । कथं णत्वम् । अरीहणादिषु पाठात् । पूर्वपदात्संज्ञायामग इति वा ॥ स्तम्बे क च ॥ ८३ ॥ करणे हन इति वर्तते । स्तम्बशब्दउपपदे करणे कारके हन्तेः कः प्रत्ययो भवति । चकारादप् । तत्र घनादेशः । स्तम्बघनः ॥ स्त्रियां स्तम्बघ्नी स्तम्बघना इति दृश्यते ॥ करणइत्येव । स्तम्बघातः ॥
२१४ ॥ काशिका ॥ ३ ॥ ३ ॥ परौ घः ॥ ८४ ॥ करणे हन इत्येव । परिशब्दउपपदे हन्तेर्द्धातोरण् प्रत्ययो भवति । करणे कारके घशब्दश्चादेशः । परिहन्यतेनेनेति परिघः । पलिघः ॥ उपघ्न आश्रये ॥ ८५ ॥ उपपूर्वस्य हन्तेरण् प्रत्यय उपधालोपश्च निपात्यते । आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति । पर्वतोपघ्नः । ग्रामोपघ्नः । आश्रयइति किम् । पर्वतोपघात एवान्यः ॥ संघोद्घौ गणप्रशंसयोः ॥ ८६ ॥ समुदोरुपपदयोर्हन्तेर्द्धातोरण् प्रत्ययो भवति टिलोपो घत्वं च निपात्यते, यथासंख्यं गणेभिधेये प्रशंसायां गम्यमानायाम् । संघः पशूनाम् । उद्घो मनुष्यः । गणप्रशंसयोरिति किम् । संघातः ॥ निघो निमितम् ॥ ८७ ॥ निघ इति निपूर्वाद्धन्तेरण् प्रत्ययष्टिलोपो घत्वं च निपात्यते, निमितं चेदभिधेयं भवति । समन्तान्मितं निमितम् । समारोहपरिणाहम् । निघा वृक्षाः । निघाः शालयः । निमितमिति किम् । निघातः ॥ द्वितः क्त्रिः ॥ ८८ ॥ भावे ऽकर्त्तरि च कारकेइति वर्तते । डु इत्यस्य तस्माद् द्वितो धातोः क्त्रिः प्रत्ययो भवति । क्त्रेर्मम्नित्यमिति वचनात् केवलो न प्रयुज्यते । डुपचष् पाके । पक्त्रिमम् । डुप्वप् । उप्त्रिमम् । डुकृञ् । कृत्रिमम् ॥ द्वितो ऽथुच् ॥ ८९ ॥ टु इत्यस्य तस्मात द्वितो धातोरथुच् प्रत्ययो भवति भावादौ । टुवेपृ । वेपथुः । टुओश्वि । श्वयथुः । टुदु । दवथुः ॥ * यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ९० ॥ भावे ऽकर्त्तरि च कारकेइति वर्तते । यजादिभ्यो धातुभ्यो नङ् प्रत्ययो भवति । ङकारो गुणवृद्धिनिषेधार्थः । यज्ञः । याञ्चा । यत्नः । विश्नः । प्रश्नः । रक्ष्णः । प्रच्छेरसंप्रसारणं ज्ञापकात् प्रश्ने चासन्नकालइति ॥ स्वप्नो नन् ॥ ९१ ॥ स्वपेद्धातोर्नन् प्रत्ययो भवति । नकारः स्वरार्थः । स्वप्नः ॥ उपसर्गे घोः किः ॥ ९२ ॥
- टुदु । दवथुः । इदं कुत्र चिदधिकम् ।
॥ काशिका ॥ ३ ॥ ३ ॥ २१५ भावे ऽकर्त्तरि च कारकदिति वर्त्तते । उपसर्गे उपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति । कित्करणादातो लोपार्थम् । प्रदिः । प्रधिः । अन्तर्द्धिः ॥ कर्मण्यधिकरणे च ॥ ९३ ॥ घोरित्येव । कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति, अधिकरणे कारके । जलं धीयते ऽस्मिन्निति जलधिः । शरधिः । अधिकरण- ग्रहणमर्थान्तरनिरासार्थम् । चकारः प्रत्ययानुकर्षणार्थः ॥ स्त्रियां क्तिन् ॥ ९४ ॥ भावे ऽकर्त्तरि च कारकदिति वर्त्तते । स्त्रीलिङ्गे भावादौ धातोः क्तिन्प्र- त्ययो भवति । घञपांमपवादः । कृतिः । चितिः । मतिः ॥ क्तिन्नाबादिभ्यश्च वक्तव्यः ॥ * ॥ आबादयः प्रयोगतोऽनुसर्तव्याः । आप्तिः । राद्धिः । दीप्तिः । स्वस्तिः । ध्वस्तः । लब्धिः ॥ श्रुयजिस्तुभ्यः करणे ॥ * ॥ श्रूयते ऽनयेति श्रुतिः । दृष्टिः । स्तुतिः ॥ म्लाम्नाज्याहाभ्यो निः ॥ * ॥ म्लानिः । म्नानिः । ज्यानिः । हानिः ॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् ॥ * ॥ कीर्त्तिः । गीर्त्तिः । जीर्त्तिः । शीर्त्तिः । लूनिः । यूनिः ॥ संपदादिभ्यः क्विप् ॥ * ॥ संपत् । विपत् । प्रतिपत् ॥ क्तिन्नपीष्यते ॥ संपत्तिः । विपत्तिः ॥ स्थागापापचो भावे ॥ ९५ ॥ स्त्रियामिति वर्तते । स्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति । अङोपवादस्य बाधकः । प्रस्यितिः । उद्गीतिः । संगीतिः । प्रपीतिः । संपीतिः । पक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । कथमवस्था संस्थेति । व्यवस्था यामसंज्ञायामिति ज्ञापकाद् नात्यन्ताय बाधा भवतीति ॥ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ९६ ॥ भावे स्त्रियामिति वर्तते । मन्त्रे विषये वृषादिभ्यो धातुभ्यः क्तिन् प्रत्ययो भवति, उदात्तः। प्रकृतिप्रत्यययोर्विभक्तिविपरिणामेन संबन्धः। कस्मादेवं कृतम् । वैचित्र्यार्थम् । वृष्टिः । इष्टिः । पक्तिः । मतिः । वित्तिः । भूतिः । वीतिः । रातिः । सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन् । उदात्ता- र्थवचनम् । इषेस्तु इच्छेति निपातनं वक्ष्यति । ततः क्तिन्नपि विधीयते मन्त्रा- दन्यत्रादिरुदात्तः ॥ ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च ॥ ९७ ॥ मन्त्रइति नानुवर्तते । ऊत्यादयः शब्दा निपात्यन्ते । उदात्त इति वर्तते । अवतेर्ज्वरत्वरस्रिव्यविमवामुपधायाश्चेति ऊठ् । ऊतिः । स्वरार्थं वच- नम् । यौतेर्जवतेश्च यूतिः । जूतिः । दीर्घत्वं च निपात्यते । सातिः । हेतिः
२१६ ॥ काशिका ॥ ३ । ३ ॥ भावो निपात्यते । सनोतेर्वा जनसनखनामित्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिन्वेतेर्वा हेतिः । कीर्त्तयतेः कीर्त्तिः ॥ व्रजयोर्भावे क्यप् ॥ ९८ ॥ उदात्त इत्येव । व्रजयजोर्धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवति, उदात्तः । क्तिनोपवादः । व्रज्या । इज्या । पित्करणमुत्तरत्र तुगर्थम् ॥ संज्ञायां समजन्निषद्निपतमनविदषुञ्- शीङ्भृञिणः ॥ ९९ ॥ भावइति न स्वर्यते । पूर्व एवान्वर्थाधिकारः । समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवति उदात्तः संज्ञायां विषये । समजन्त्यस्यामिति समज्या । निषद्या । निपत्या । मत्या । विद्या । सुत्या । शय्या । भृत्या । इत्या । कथं तदुक्तम् ॥ 'स्त्रियां भावाधिकारोस्ति तेन भार्या प्रसिध्यति'इति । भावाधिकारो, भावव्यापारो, वाच्यत्वेन विवक्षितः, न तु शास्त्री- योधिकारः ॥ कृञः श च ॥ १०० ॥ करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति । चकारात् क्यप् च । योगवि- भागे ऽत्र कर्त्तव्यः । क्तिन्नपि यथा स्यात् । क्रिया । कृत्या । कृतिः ॥ इच्छा ॥ १०१ ॥ इषेर्धातोः शः प्रत्ययो यशाभावश्च निपात्यते । इच्छा ॥ परिचर्या- परिसर्यामृगयाटाट्यानामुपसंख्यानम् ॥ * ॥ परिचर्या । परिसर्या । मृगया । अटाट्या ॥ जागर्तेरकारो वा ॥ * ॥ जागरा । जागर्या ॥ अ प्रत्ययात् ॥ १०२ ॥ प्रत्ययान्तेभ्यो धातुभ्यस्त्रियामकारः प्रत्ययो भवति । क्तिनोपवादः । चिकीर्षा । जिहीर्षा । पुत्रीया । पुत्रकाम्या । लोलूया । कण्डूया ॥ गुरोश्च हलः ॥ १०३ ॥ हलन्तो यो धातुर्गुरुमान् ततः स्त्रियामकारः प्रत्ययो भवति । क्तिनोपवादः । कुण्डा । हुण्डा । ईहा । ऊहा । गुरोरिति किम् । भक्तिः । हल इति किम् । नीतिः ॥ षिद्भिदादिभ्यो ऽङ् ॥ १०४ ॥ षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् प्रत्ययो भवति । गणपठितेषु भिदा- दिषु निष्कृष्य प्रकृतयो गृह्यन्ते । जॄष् । जरा । त्रपूष् । त्रपा । भिदादिभ्यः
स्वल्व्यपि । भिदा । छिदा । विदा । क्षिपा ॥ गुहा, निर्याषञ्जोः ॥ श्रद्धा । मेधा । गोधा । आरा । द्वारा । कारा । क्षिया । भारा । धारा । लेखा । रेखा । चूडा । पीडा । वपा । वसा । सृजा ॥ ऋपेः संप्रसारणं च ॥ कृपा भिदा, विदारणे ॥ भित्तिरन्या ॥ छिदा, द्वैधीकरणे ॥ क्षितिरन्या ॥ आरा, शस्त्र्याम् । आर्त्तिरन्या ॥ धारा प्रपाते ॥ धृतिरन्या ॥ चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ १०५ ॥ चिति स्मृत्यां, पूज पूजायां, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने, चुरादिः । एभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । 'चकाराद्युजपि भवति । चिन्तना' * ॥ आतश्चोपसर्गे ॥ १०६ ॥ आकारान्तेभ्य उपसर्गे उपपदे स्त्रियामङ् प्रत्ययो भवति । क्तिनोपवादः ।
२१८ ॥ काशिका ॥ ३ । ३ ॥ संज्ञायाम् ॥ १०९ ॥ संज्ञायां विषये धातोर्ण्वुल् प्रत्ययो भवति । उद्दालकपुष्पभञ्जिका । वरंणपुष्पप्रवाहिका * । आभ्यूषखादिका । आचोषखादिका । शालभञ्जिका । तालभञ्जिका ॥ विभाषाख्यानपरिप्रश्नयोरिञ् च ॥ ११० ॥ पूर्वं परिप्रश्नः, पश्चादाख्यानम् । सूत्रे ऽल्पाचतरस्य पूर्वनिपातः । परि- प्रश्ने आख्याने च गम्यमाने धातोरिञ् प्रत्ययो भवति । चकाराद् ण्वुलपि । विभाषाग्रहणात्परोऽपि यः प्राप्नोति सोऽपि भवति । कां त्वं कारिमकार्षीः । कां कारिकामकार्षीः । कां क्रियामकार्षीः । कां कृत्यामकार्षीः । कां कृतिमकार्षीः । सर्वां कारिमकार्षम् । सर्वां कारिकामकार्षम् । सर्वां क्रियामकार्षम् । सर्वां कृत्या- मकार्षम् । सर्वां कृतिमकार्षम् । कां गणिमजीगणः । कां गणनामजीगणः । सर्वां गणिमजीगणम् । सर्वां गणिकाम् । सर्वां गणनाम् । एवं कां याजिम् । कां याजिकाम् । कां याचिम् । कां याचिकाम् । कां पचाम् । कां पाठिम् । कां पाठिकाम् । इति द्रष्टव्यम् । आख्यानपरिप्रश्नयोरिति किम् । कृतिः । हृतिः ॥ पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ १११ ॥ पर्यायः परिपाटीक्रमः । अर्हणमर्हः, तद्योग्यता । ऋणं तत् यत्परस्य † धार्यते । उत्पत्तिर्जन्म । एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति । क्तिन्नादीनाम- पवादः । पर्याये तावत् । भवतः शायिका । भवतो ऽध्यासिका । अर्हे । अर्हति भवानित्थंभक्तिकाम् ‡ । ऋणे । इत्थंभक्तिकां मे धारयसि । ओदनभोजिकाम् । पयः- पायिकाम् । उत्पत्तौ । इत्थंभक्तिका मे उदपादि । ओदन भोजिका । पयःपायिका । विभाषेत्येव । चिकीर्षोत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम् ॥ आक्रोशे नञ्यनिः ॥ ११२ ॥ विभाषेति निवृत्तम् । आक्रोशः शपनम् । आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति । क्तिन्नादीनामपवादः । अकरणिस्ते वृषल भूयात् । आक्रोशेति किम् । अकृतिस्तस्य कटस्य । नञीति किम् । कृतिस्ते वृषल भूयात् ॥ कृत्यल्युटो बहुलम् ॥ ११३ ॥ भावे ऽकर्त्तरि च कारकेति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट् च
- प्रचायिकेति पा० ।
- परस्मै इति पाठः । तत्र धारेरुत्तमर्ण इति संप्रदानसंज्ञा । ‡ पयःपायिकामिति पुस्तकान्तरे ऽधिकम् ।
॥ काशिका ॥ ३ ॥ ३ ॥ २१८
बहुलमर्थेषु भवन्ति । यत्र विहितास्ततोन्यत्रापि भवन्ति । भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति । स्नानीयं चूर्णम् । दानीयो ब्राह्मणः । कर- णाधिकरणयोर्भावे च ल्युट् । अन्यत्रापि भवति । प्रसेचनमवस्त्रावकम् । राज- भोजनाः शालयः । राजाच्छादनानि वासांसि । प्रस्कन्दनम् । प्रपतनम् । बहु- लग्रहणादन्येऽपि कृता यथाप्राप्तमभिधेयं व्यभिचरन्ति । पादाभ्यां ह्रियते, पाद- हारकः । गले चोप्यते, गलेचोपकः ॥ नपुंसके भावे क्तः ॥ ११४ ॥ नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति । हसितम् । सहितम् । जल्पितम् * ॥ ल्युट् च ॥ ११५ ॥ नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति । हसनं छात्रस्य । शोभ- नम् । जल्पनम् । शयनम् । आसनम् । योगविभाग उत्तरार्थः ॥ कर्मणि च येन संस्पर्शात्कर्त्तुः शरीरसुखम् ॥ ११६ ॥ येन कर्मणा संस्पृश्यमानस्य कर्त्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे धातोर्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति । पूर्वेणैव सिद्धे प्रत्यये नित्यसमा- सार्थं वचनम् । उपपदसमासादिर्नित्यः समासः । पयःपानं सुखम् । ओदनभो- जनं सुखम् । कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । संस्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । कर्त्तुरिति किम् । गुरोः स्नापनं सुखम् । स्नाप- यतेर्न गुरुः कर्त्ता, किं तर्हि कर्म । शरीरग्रहणं किम् । पुत्रस्य परिष्वञ्जनं सुखम् । सुखं मानसी प्रीतिः । सुखमिति किम् । कण्टकानां मर्दनं दुःखम् । सर्वत्रासमासः प्रत्युदाह्रियते ॥ करणाधिकरणयोश्च ॥ ११७ ॥ करणे ऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति । इध्मप्रव्रश्चनः । पलाशशातनः । अधिकरणे । गोदोहनी । सक्तुधानी ॥ पुंसि संज्ञायां घः प्रायेण ॥ ११८ ॥ करणाधिकरणयोरित्येव । पुंलिङ्गयोः करणाधिकरणयोरभिधेययोर्धा- तोर्घः प्रत्ययो भवति समुदायेन चेत्संज्ञा गम्यते । प्रायग्रहणमकात्स्न्र्यार्थम् । दन्तच्छदः । उरश्छदः । घटः । अधिकरणे खल्वपि । कृत्य तस्मिन्कुर्वन्त्यित्या- करः । आलयः । पुंसीति किम् । प्रसाधनम् । संज्ञायामिति किम् । प्रहरणी दण्डः । घकारश्चादेर्घेद्विति विशेषणार्थः ॥
- जल्पितम् । भुक्तम् । आशितम् । इति क्व चित्पुस्तके ऽधिकम् ।
२२० ॥ काशिका ॥ ३ ॥ ३ ॥ गोचरसंचरवह्नव्रजव्यजापघनिगमाश्च ॥ ११९ ॥ गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे । हलश्चेति घञं वक्ष्यति । तस्यायमपवादः । गावश्चरन्त्यस्मिन्निति, गोचरः । संचरन्ते ऽने- नेति, संचरः । वहन्ति तेन, वहः । व्रजन्ति तेन, व्रजः । व्यजन्ति तेन, व्यजः । निपातनादजेर्व्यघञपोरिति वीभावो न भवति । एत्य तस्मिन्नापयन्तइत्यापघः । निगच्छन्ति तस्मिन्निति, निगमः । चकारोऽनुक्तसमुच्चयार्थः । कषः । निकषः ॥ अवेतृस्त्रोर्घञ् ॥ १२० ॥ अवउपपदे तरतेस्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायां घञ् प्रत्य- यो भवति । घस्यापवादः । ञकारो वृद्ध्यर्थः, स्वरार्थश्च । घकार उत्तरत्र कुत्वार्थः । अवतारः । अवस्तारः । कथमवतारो नद्याः । नहीयं संज्ञा । प्राया- नुवृत्तेरसंज्ञायामपि भवति ॥ हलश्च ॥ १२१ ॥ पुंसि संज्ञायां करणाधिकरणयोश्चेति सर्वमनुवर्त्तते । हलन्ताद्धातोः करणाधिकरणयोर्घञ् प्रत्ययो भवति । घस्यापवादः । लेखः । वेदः । वेषः । बन्धः । मार्गः । अपामार्गः ॥ अध्यायन्यायोध्यावसंहाराधारावायाश्च ॥ १२२ ॥ अध्यायादयः शब्दा घञन्ता निपात्यन्ते । पुंसि संज्ञायां घे प्राप्ते घञ्वि- धीयते । अहलन्तार्थ आरम्भः । अधीयतेऽस्मिन्नित्यध्यायः । नीयतेनेनेति न्यायः । उद्ध्वन्ति अस्मिन्नित्युद्धावः । संह्रियन्ते ऽनेनेति संहारः । आध्रियते ऽस्मि- नित्याधारः । आवयन्त्यस्मिन्नित्यावायः । चकारोऽनुक्तसमुच्चयार्थः । व्यवहारः ॥ उदङ्को ऽनुदके ॥ १२३ ॥ उदङ्क इति निपात्यते, अनुदकविषयश्चेद्धात्वर्थो भवति । उत्पूर्वादञ्च- तेर्घेडिनिपात्यते । ननु च हलश्चेति सिद्ध एव घञ् । उदके प्रतिषेधार्थमिदं वच- नम् । तैलोदङ्कः । अनुदकइति किम् । उदकोदञ्चनः । घः कस्मान्न प्रत्युदा- ह्रियते । विशेषाभावात् । घञ्यपि यथादित्स्वरेणान्तोदात्त एव ॥ जालमानायः ॥ १२४ ॥ आनाय इति निपात्यते जालं चेत्तद्भवति । आङ्पूर्वान्नयतेः करणे घञ् निपात्यते । आनायो मत्स्यानाम् । आनायो मृगाणाम् * ॥ खनो घ च ॥ १२५ ॥
- जालमिति किम् । आनयः । इति क्व चिदधिकमत्र ।