काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 226, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २१८
बहुलमर्थेषु भवन्ति । यत्र विहितास्ततोन्यत्रापि भवन्ति । भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति । स्नानीयं चूर्णम् । दानीयो ब्राह्मणः । कर- णाधिकरणयोर्भावे च ल्युट् । अन्यत्रापि भवति । प्रसेचनमवस्त्रावकम् । राज- भोजनाः शालयः । राजाच्छादनानि वासांसि । प्रस्कन्दनम् । प्रपतनम् । बहु- लग्रहणादन्येऽपि कृता यथाप्राप्तमभिधेयं व्यभिचरन्ति । पादाभ्यां ह्रियते, पाद- हारकः । गले चोप्यते, गलेचोपकः ॥ नपुंसके भावे क्तः ॥ ११४ ॥ नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति । हसितम् । सहितम् । जल्पितम् * ॥ ल्युट् च ॥ ११५ ॥ नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति । हसनं छात्रस्य । शोभ- नम् । जल्पनम् । शयनम् । आसनम् । योगविभाग उत्तरार्थः ॥ कर्मणि च येन संस्पर्शात्कर्त्तुः शरीरसुखम् ॥ ११६ ॥ येन कर्मणा संस्पृश्यमानस्य कर्त्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे धातोर्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति । पूर्वेणैव सिद्धे प्रत्यये नित्यसमा- सार्थं वचनम् । उपपदसमासादिर्नित्यः समासः । पयःपानं सुखम् । ओदनभो- जनं सुखम् । कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । संस्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । कर्त्तुरिति किम् । गुरोः स्नापनं सुखम् । स्नाप- यतेर्न गुरुः कर्त्ता, किं तर्हि कर्म । शरीरग्रहणं किम् । पुत्रस्य परिष्वञ्जनं सुखम् । सुखं मानसी प्रीतिः । सुखमिति किम् । कण्टकानां मर्दनं दुःखम् । सर्वत्रासमासः प्रत्युदाह्रियते ॥ करणाधिकरणयोश्च ॥ ११७ ॥ करणे ऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति । इध्मप्रव्रश्चनः । पलाशशातनः । अधिकरणे । गोदोहनी । सक्तुधानी ॥ पुंसि संज्ञायां घः प्रायेण ॥ ११८ ॥ करणाधिकरणयोरित्येव । पुंलिङ्गयोः करणाधिकरणयोरभिधेययोर्धा- तोर्घः प्रत्ययो भवति समुदायेन चेत्संज्ञा गम्यते । प्रायग्रहणमकात्स्न्र्यार्थम् । दन्तच्छदः । उरश्छदः । घटः । अधिकरणे खल्वपि । कृत्य तस्मिन्कुर्वन्त्यित्या- करः । आलयः । पुंसीति किम् । प्रसाधनम् । संज्ञायामिति किम् । प्रहरणी दण्डः । घकारश्चादेर्घेद्विति विशेषणार्थः ॥
- जल्पितम् । भुक्तम् । आशितम् । इति क्व चित्पुस्तके ऽधिकम् ।