भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 225, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 225

२१८ ॥ काशिका ॥ ३ । ३ ॥ संज्ञायाम् ॥ १०९ ॥ संज्ञायां विषये धातोर्ण्वुल् प्रत्ययो भवति । उद्दालकपुष्पभञ्जिका । वरंणपुष्पप्रवाहिका * । आभ्यूषखादिका । आचोषखादिका । शालभञ्जिका । तालभञ्जिका ॥ विभाषाख्यानपरिप्रश्नयोरिञ् च ॥ ११० ॥ पूर्वं परिप्रश्नः, पश्चादाख्यानम् । सूत्रे ऽल्पाचतरस्य पूर्वनिपातः । परि- प्रश्ने आख्याने च गम्यमाने धातोरिञ् प्रत्ययो भवति । चकाराद् ण्वुलपि । विभाषाग्रहणात्परोऽपि यः प्राप्नोति सोऽपि भवति । कां त्वं कारिमकार्षीः । कां कारिकामकार्षीः । कां क्रियामकार्षीः । कां कृत्यामकार्षीः । कां कृतिमकार्षीः । सर्वां कारिमकार्षम् । सर्वां कारिकामकार्षम् । सर्वां क्रियामकार्षम् । सर्वां कृत्या- मकार्षम् । सर्वां कृतिमकार्षम् । कां गणिमजीगणः । कां गणनामजीगणः । सर्वां गणिमजीगणम् । सर्वां गणिकाम् । सर्वां गणनाम् । एवं कां याजिम् । कां याजिकाम् । कां याचिम् । कां याचिकाम् । कां पचाम् । कां पाठिम् । कां पाठिकाम् । इति द्रष्टव्यम् । आख्यानपरिप्रश्नयोरिति किम् । कृतिः । हृतिः ॥ पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ १११ ॥ पर्यायः परिपाटीक्रमः । अर्हणमर्हः, तद्योग्यता । ऋणं तत् यत्परस्य † धार्यते । उत्पत्तिर्जन्म । एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति । क्तिन्नादीनाम- पवादः । पर्याये तावत् । भवतः शायिका । भवतो ऽध्यासिका । अर्हे । अर्हति भवानित्थंभक्तिकाम् ‡ । ऋणे । इत्थंभक्तिकां मे धारयसि । ओदनभोजिकाम् । पयः- पायिकाम् । उत्पत्तौ । इत्थंभक्तिका मे उदपादि । ओदन भोजिका । पयःपायिका । विभाषेत्येव । चिकीर्षोत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम् ॥ आक्रोशे नञ्यनिः ॥ ११२ ॥ विभाषेति निवृत्तम् । आक्रोशः शपनम् । आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति । क्तिन्नादीनामपवादः । अकरणिस्ते वृषल भूयात् । आक्रोशेति किम् । अकृतिस्तस्य कटस्य । नञीति किम् । कृतिस्ते वृषल भूयात् ॥ कृत्यल्युटो बहुलम् ॥ ११३ ॥ भावे ऽकर्त्तरि च कारकेति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट् च

  • प्रचायिकेति पा० ।
  • परस्मै इति पाठः । तत्र धारेरुत्तमर्ण इति संप्रदानसंज्ञा । ‡ पयःपायिकामिति पुस्तकान्तरे ऽधिकम् ।