काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 224, कुल 828 में से
संदर्भ में पढ़ेंस्वल्व्यपि । भिदा । छिदा । विदा । क्षिपा ॥ गुहा, निर्याषञ्जोः ॥ श्रद्धा । मेधा । गोधा । आरा । द्वारा । कारा । क्षिया । भारा । धारा । लेखा । रेखा । चूडा । पीडा । वपा । वसा । सृजा ॥ ऋपेः संप्रसारणं च ॥ कृपा भिदा, विदारणे ॥ भित्तिरन्या ॥ छिदा, द्वैधीकरणे ॥ क्षितिरन्या ॥ आरा, शस्त्र्याम् । आर्त्तिरन्या ॥ धारा प्रपाते ॥ धृतिरन्या ॥ चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ १०५ ॥ चिति स्मृत्यां, पूज पूजायां, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने, चुरादिः । एभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । 'चकाराद्युजपि भवति । चिन्तना' * ॥ आतश्चोपसर्गे ॥ १०६ ॥ आकारान्तेभ्य उपसर्गे उपपदे स्त्रियामङ् प्रत्ययो भवति । क्तिनोपवादः ।