काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 215, कुल 828 में से
संदर्भ में पढ़ें२०८ ॥ काशिका ॥ ३ ॥ ३ ॥ संघे चानौत्तराधर्ये ॥ ४२ ॥ चेरित्येव । प्राणिनां समुदायः संघः । स च द्वाभ्यां प्रकाराभ्यां भवति । एकधर्मसमावेशेन, चौत्तराधर्येण वा । तत्र चौत्तराधर्यपर्युदासादितरो गृह्यते । संघे वाच्ये चिनोतेर्द्धातोर्घञ् प्रत्ययो भवति आदेशश्च कः । भिक्षुकनिकायः । ब्राह्मणनिकायः । वैयाकरणनिकायः । अनौत्तराधर्ये इति किम् । सूकरनिचयः । प्राणिविषयत्वात्संघस्येह न भवति । कृताकृतसमुच्चयः । प्रमाणसमुच्चयः ॥ कर्मव्यतिहारे णच् स्त्रियाम् ॥ ४३ ॥ कर्म, क्रिया । व्यतिहारः, परस्परं करणम् । कर्मव्यतिहारे गम्यमाने धातोर्णच्प्रत्ययो भवति स्त्रीलिङ्गे वाच्ये । तच्च भावे । णकारो विशेषाणार्थः णचः स्त्रियामिति । व्यावक्रोशी । व्यावलेखी । व्यावहासी वर्तते । स्त्रिया- मित