काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 210, कुल 828 में से
संदर्भ में पढ़ेंनास्तीत्युक्तम्। अथ वचनग्रहणं किमर्थम्। वाचका यथा स्युः। कथं च वाचका भवन्ति। याभ्यः प्रकृतिभ्यो येन विशेषेण विहिता यदि ताभ्यस्तथैव भवन्ति नासामञ्जस्येनेति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति ॥ अण् कर्मणि च ॥ १२ ॥ भविष्यतीत्येव। चकारः सन्नियोगार्थः। धातोरण्प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। कर्मण्यणिति सामान्येन विहि- तो वासरूपविधेरभावाद् ण्वुलाबाधितः पुनर्विधीयते, सोऽपवादत्वाद् ण्वुलं बाधते, परत्वात्कादीन्। तेनापवादविषयेऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति ॥ लृट् शेषे च ॥ १३ ॥ भविष्यतीत्येव। शेषः क्रियार्थोपपदादन्यः। शेषे शुद्धे भविष्यति काले चकारात् क्रियायां चोपपदे क्रियार्थायां धातोर्लृट् प्रत्ययो भवति। करिष्या- मीति व्रजति। हरिष्यामीति व्रजति। शेषे खल्वपि। करिष्यति। हरिष्यति ॥ लुटः सद्वा ॥ १४ ॥ लृटः स्थाने सत्संज्ञौ शतृशानचौ वा भवतः। व्यवस्थितविभाषेयम्। तेन यथा लटः शतृशानचौ तथा ऽस्यापि भवतः। अप्रथमासमानाधिकरणेषु नित्यम्, अन्यत्र विकल्पः। करिष्यन्तं देवदत्तं पश्य। करिष्यमाणं देवदत्तं पश्य। हे करिष्यन्। हे करिष्यमाण। अर्जयिष्यमाणो वसति। प्रथमासमानाधिकरणे विकल्पः। करिष्यन्देवदत्तः। करिष्यमाणो देवदत्तः। करिष्यते। करिष्यति ॥ अनद्यतने लुट् ॥ १५ ॥ भविष्यतीत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोर्लुट् प्रत्ययो भवति। लृटोपवादः। श्वः कर्ता। श्वो भोक्ता। अनद्यतनइति बहुव्रीहिनि- र्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यतीति ॥ परिवेदने श्वस्तनी भविष्यदर्थे वक्तव्या ॥ * ॥ इयं नु कदा गन्ता, यैवं पादौ निदधाति। अयं नु कदाध्येता, य एवमनभियुक्तः ॥ पदरुजविशस्पृशो घञ् ॥ १६ ॥ भविष्यतीति निवृत्तम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदा- दिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यतेऽसौ, पादः। रुज्यत्यसौ, रोगः। विशत्यसौ, वेशः ॥ स्पृश उपतापइति वक्तव्यम् ॥ * ॥ स्पृशतीति स्पर्श उप- तापः। ततो ऽन्यत्र पचाद्यच् भवति। स्पर्शी देवदत्तः। स्वरे विशेषः ॥ सृ स्थिरे ॥ १७ ॥