काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 211, कुल 828 में से
संदर्भ में पढ़ेंित्यताधिकं पुस्तकान्तरे ।`
Everything is accounted for.२०४ ॥ काशिका ॥ ३ ॥ ३ ॥ सर्तेर्द्धातोः स्थिरे कर्त्तरि घञ् प्रत्ययो भवति । स्थिर इति कालान्तरस्थायी पदार्थ उच्यते । स चिरं तिष्ठन् कालान्तरं सरतीति धात्वर्थस्य कर्त्ता युज्यते । चन्दनसारः । खदिरसारः । स्थिर इति किम् । सर्त्ता । सारकः । व्याधिमत्स्यबले- ष्विति वक्तव्यम् ॥ * ॥ अतीसारो व्याधिः । बिसारो मत्स्यः । सारो बलम् ॥ भावे ॥ १८ ॥ भावे वाच्ये धातोर्घञ् प्रत्ययो भवति । पाकः । त्यागः । रागः । क्रिया- सामान्यवाची भवतिः । तेनार्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति । धात्वर्थश्च धातुनैवोच्यते, यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्यया विधीयन्ते । पुंलिङ्गैकवचनं चात्र न तन्त्रं, लिङ्गान्तरे वचनान्तरेपि चात्र प्रत्यया भवन्त्येव