काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 22, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ ॥ १ ॥ १५ दासः सिद्धो भवति। सर्वमिदं काण्डं स्वरादावपि पठ्यते। पुनर्वचनमनित्य- त्वज्ञापनार्थं तेनायं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः, पुरा क्रूरस्य विसृप, इति न लोकाव्ययनिष्ठेति षष्ठीप्रतिषेधो न भवति ॥ शि सर्वनामस्थानम् ॥ ४२ ॥ शि इत्येतत्सर्वनामस्थानसंज्ञं भवति। किमिदं शि इति। जश्शसोः शिरादेशः। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूंषि। जतूनि। सर्वनामस्थानप्रदेशाः। सर्वनामस्थाने चासम्बुद्धावित्येवमादयः ॥ सुडनपुंसकस्य ॥ ४३ ॥ सुडिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र। नपुंसके न विधिर्न प्रतिषेधस्तेन जस्रङ्गे सर्वनामस्थानसंज्ञा पूर्वैव भवत्येव। राजा। राजानौ। राजानः। राज