काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 23, कुल 828 में से
संदर्भ में पढ़ें१६ ॥ काशिका ॥ १ ॥ १ ॥ मिदचो ऽन्त्यात्परः ॥ ४७ ॥ अच इति निर्धारणे षष्ठी । जातौ चेदमेकवचनम् । अचां संनिविष्टा- नामन्त्यादचः परो मिद्भवति । स्थानेयोगप्रत्ययपरत्वस्यायमपवादः । विरुणद्धि । मुञ्चति । पयांसि । मित्प्रदेशाः । रुधादिभ्यः श्नमित्येवमादयः । मज्जेरन्या- त्पूर्वं नुमिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम् । मग्नः । मग्नवान् । मङ्क्ता । मङ्क्तुम् । एच इग्घ्रस्वादेशे ॥ ४८ ॥ एचो ह्रस्वादेशे कर्तव्येऽगेव ह्रस्वो भवति नान्यः । रै । अतिरि । नौ । अतिनु । गो । उपगु । एच इति किम् । अतिखट्वः । अतिमालः । ह्रस्वा- देशइति किम् । दे३वदत्त । देवद३त्त ॥ षष्ठी स्थानेयोगा ॥ ४९ ॥ परिभाषेयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते सा स्थानेयोगैव भवति नान्ययोगा स्थानेयोगनिमित्तभूते सति सा प्रतिपत्तव्या । स्थानशब्दश्च प्रसङ्गवाची । यथा दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति दर्भाणां प्रसङ्गइति गम्यते । एवमिहापि अस्तेः स्थाने प्रसङ्गे भूर्भवति । भविता । भवि- तुम् । भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति । वक्ता । वक्तुम् । वक्तव्यम् । प्रसङ्गे संबन्धस्य निमित्तभूते ब्रुव इति षष्ठी । बह्वो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरस- मीपसमूहविकारावयवादयस्तत्र यावन्तः शब्दे संभवन्ति तेषु सर्वेषु प्राप्तेषु नियमः क्रियते षष्ठी स्थानेयोगेति । स्थाने योगो ऽस्या इति अधिकरणो बहु- व्रीहिः । अत एव निपातनाच्च सप्तम्या अलुक् ॥ स्थानेन्तरतमः ॥ ५० ॥ स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति सदृशतमः । कुतश्च पुन- स्यान्तर्यम् । स्थानार्थगुणप्रमाणतः । स्थानतः । अकः सवर्णे दीर्घः । दण्डाग्रम् यूपाग्रम् । द्वयोरकारयोः कण्ठ्य एव दीर्घे आकारो भवति । अर्थतः । वतण्डा चासौ युवतिश्च वातण्ड्यायुवतिः । पुंवद्भावेनान्तरतमः पुंशब्दो ऽतिदिश्यते गुणतः । पाकः । त्यागः । रागः । चजोः कुघिण्यतोारिति चकारस्याल्पप्राणस्या- घोषस्य तादृश एव ककारो भवति जकारस्य घोषवतो ऽल्पप्राणस्य तादृक् गकारः । प्रमाणतः । अमुष्मै । अमूभ्याम् । अदसोसेर्दादु दो म इति ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः । स्थानइति वर्तमाने पुनः स्थानेग्रहणं किम् । यत्रानेक- मान्तर्यं संभवति तत्र स्थानत एवान्तर्यं बलीयो यथा स्यात् । चेता । स्तोता । प्रमाणतो ऽकारो गुणः प्राप्तस्तच्च स्थानत आन्तर्यादेकारौकारौ भवतः । तमब्- ग्रहणं किम् । वाग्घसति । त्रिष्टुब्भसति । झयो होन्यतरस्यामिति हकारस्य