काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 229, कुल 828 में से
संदर्भ में पढ़ें२२२ ॥ काशिका ॥ ३ । ३ ॥ वर्त्तमानसामीप्ये वर्त्तमानवद्वा ॥ १३१ ॥ समीपमेव सामीप्यम् । ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्य- र्थम् । वर्त्तमानसमीपे भूते भविष्यति च वर्त्तमानाद् धातोर्वर्त्तमानवत्प्रत्यया- वा भवन्ति । वर्त्तमाने लडित्यारभ्य यावत्तुमुन्नादयो बहुलमिति वर्त्तमाने प्रत्यया उक्तास्ते भूतभविष्यतोर्विधीयन्ते । कदा देवदत्तागतोऽसि । अयमाग- च्छामि । आगच्छन्तमेव । मां विद्धि । अयमागमम् एषोऽस्म्यागतः । कदा देव- दत्त गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । एष गमिष्यामि । गन्तास्मि । वत्करणं सर्वसादृश्यार्थम् । येन विशेषेण वर्त्तमाने प्रत्यया विहिताः प्रकृत्युपपदोपाधिना तथैवात्र भवन्ति । पचमानः । यजमानः । अलङ्करिष्णुः । सामीप्यग्रहणं किम् । विप्रकर्षविवक्षायां मा भूत् । परूहगच्छत्पाटलिपुत्रम् । वर्षेण गमिष्यति । यो मन्यते गच्छामीति पदं वर्त्तमाने कालएव वर्तते । कालान्तरगतित्वस्तु वाक्याद्भवति । न च वाक्यगम्यः कालः पदसंस्कारवेला- यामुपयुज्यतइति तादृशं वाक्यार्थज्ञं प्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते । तथा च श्वः करिष्यति वर्षेण गमिष्यतीति सर्वमुपपद्यते । भूत्राशंसायां तवच्च ॥ १३२ ॥ वेत्येव । वर्त्तमानसामीप्यइति नानुवर्त्तते । आशंसनमाशंसा । अप्राप्तस्य प्रियार्थस्य प्राप्तिमिच्छा । तस्याश्च भविष्यत्कालो विषयः । तत्र भविष्यति काले आशंसायां गम्यमानायां धातोर्वा भूतवत्प्रत्यया भवन्ति । चकाराद्वर्त्तमानवच्च । उपाध्यायश्चेदागमत् । आगतः । आगच्छति । आगमिष्यति । एते व्याकरणमधी- गीष्महि । एते व्याकरणमधीतवन्तः । अधीमहे । अध्येष्यामहे ।