काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 230, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २२३ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ १३५ ॥ भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रति- षेधः । अनद्यतनवत्प्रत्ययविधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने । क्रियायां प्रबन्धः सातत्येनानुष्ठानम् । कालानां सामीप्यं तुल्यजातीयेनाव्य- वधानम् । यावज्जीवं भृशमन्नमदात् । भृशमन्नं दास्यति । यावज्जीवं पुत्रो- ध्यापिपत् । यावज्जीवमध्यापयिष्यति । सामीप्ये खल्वपि । येयं पौर्णमास्यति- क्रान्ता, तस्यामुपाध्यायोग्नीनाधित । सोमेनायष्ट । गामदित । येयममा- वास्या ऽऽगामिनी एतस्यामुपाध्यायोऽग्नीनाधास्यते । सोमेन यक्ष्यते । स गां दास्यते । द्वौ प्रतिषेधौ यथाप्राप्ताभ्यनुज्ञापनाय ॥ भविष्यति मर्यादावचने ऽवरस्मिन् ॥ १३६ ॥ नानद्यतनवदिति वर्तते । अक्रियाप्रबन्धार्थमसामीप्यार्थं वचनम् । भविष्यति काले मर्यादावचने ऽवरस्मिन्नविभागे ऽनद्यतनवत्प्रत्ययविधिर्न भवति । योयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्ष्यामहे । तत्र सक्तून्पास्यामः । भविष्यतीति किम् । योयमध्वा गत आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्र युक्ता अध्यैमहि । तत्र द्विरोदनम् अभुञ्ज्महि । तत्र सक्तूनपिबाम । मर्यादावचनइति किम् । योय- मध्वा निरवधिको गन्तव्यस्तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे । सक्तून् पातास्मः । अवरस्मिन्निति किम् । योयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे । तत्र सक्तून्पातास्मः । इह सूत्रे देशकृता मर्यादा उत्तरत्र कालकृता तत्र च विशेषं वक्ष्यति ॥ कालविभागे चानहोरात्राणाम् ॥ १३७ ॥ भविष्यति मर्यादावचने ऽवरस्मिन्निति वर्तते । कालमर्यादाविभागे सत्यवरस्मिन्नविभागे भविष्यति काले ऽनद्यतनवत्प्रत्ययविधिर्न भवति । न- चेदहोरात्रसंबन्धी विभागस्तेषां च विभागे प्रतिषेधः । पूर्वेणैव सिद्धे वचनमि- दमहोरात्रनिषेधार्थम् । योगविभाग उत्तरार्थः । योयं संवत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । तत्रोदनं भोक्ष्यामहे । भविष्य- तीत्येव । योयं वत्सरोतीतस्तस्य यदवरामाग्रहायण्यास्तत्र युक्ता अध्यैमहि । तत्रोदनमभुञ्ज्महि । मर्यादावचनइत्येव । योयं निरवधिकः काल आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । तत्रोदनं भोक्तास्महे । अवर- स्मिन्नित्येव । परस्मिन्विभागे वक्ष्यति । अनहोरात्राणामिति किम् । त्रिविधमुदा- हरणम् । योयं मास आगामी तस्य योवरः पञ्चदशरात्रः, योयं त्रिंशद्रात्र आगामी