काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 231, कुल 828 में से
संदर्भ में पढ़ेंतस्य योऽवरोऽर्धमासः, योऽयं त्रिंशदहोरात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे । तत्र सक्तून्पातास्मः । सर्वथा ऽहोरात्रस्पर्शे प्रतिषेधः ॥ परस्मिन्विभाषा ॥ १३८ ॥ भविष्यति मर्यादावचने कालविभागे चानहोरात्राणामिति सर्वमनुव- र्तते । कालमर्यादाविभागे सति भविष्यति काले परस्मिन्प्रविभागे विभाषा ऽनद्यतनवत्प्रत्ययविधिर्न भवति न चेदहोरात्रसम्बन्धी प्रविभागः । अवरस्मि- न्वर्जे पूर्वमनुवर्तते । अवरस्मिन्पूर्वेण प्रतिषेध उक्तः संप्रति परस्मिन्प्राप्त एव विकल्प उच्यते । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे, अध्येतास्महे । तत्र सक्तून् पास्यामः । तत्र सक्तून्पातास्मः । अन- होरात्राणामित्येव । योऽयं त्रिंशद्रात्र आगामी तस्य यः परः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे । तत्र सक्तून् पातास्मः । भविष्यतीत्येव । योऽयं संवत्सरो- तीतस्तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्यैमहि । तत्रौदनमभुञ्ज्महि । मर्यादावचनइत्येव । योऽयं संवत्सरो निरवधिकः काल आगामी तस्य यत्परमा- ग्रहायण्यास्तत्र युक्ता ध्येतास्महे । तत्र सक्तून्पातास्मः । कालविभागइत्येव । योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्यास्तत्र युक्ता अध्येता- स्महे । ओदनं भोक्तास्महे । इति सर्वत्रानद्यतनवत्प्रत्यया उदाहार्याः ॥ लिङ्निमित्ते ऌङ् क्रियातिपत्तौ ॥ १३९ ॥ भविष्यतीत्यनुवर्तते । हेतुहेतुमतोर्लिङित्येवमादिकं लिङ्गो निमित्तं, तत्र लिङ्निमित्ते भविष्यति काले ऌङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम् । कुत- श्चिद्वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः । दक्षिणेन चेदायास्यन्न शकटं पर्यभविष्यत् । यदि कमलक*माहास्यन्न शकटं पर्यभविष्यत् । अभो- क्ष्यत भवान्घृतेन यदि मत्त्समीपमागमिष्यत् । भविष्यत्कालविषयमेतद्वचनम् । भविष्यदपर्य्याभवनं च हेतुमत् तत्र हेतुभूतं च कमलकाह्वानम् । लिङ्गिल्लिङ्गे बुद्ध्या तदतिपत्तिं च प्रमाणात्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते । यदि कमल- कमाहास्यन्न शकटं पर्य्यभविष्यदिति, हेतुहेतुमतोराह्रानापर्य्याभवनयोर्भविष्य- त्कालविषययोरतिपत्तिरिति वाक्यादवगम्यते ॥ भूते च ॥ १४० ॥ लिङ्निमित्ते ऌङ्क्रियातिपत्ताविति सर्वमनुवर्तते । पूर्वेण भविष्यति विहितः संप्रति भूते विधीयते । भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां ऌङ् प्रत्ययो भवति । उताप्योरित्यारभ्य लिङ्निमित्तेषु विधानमेतत् । प्राक्, ततो विकल्पं वक्ष्यति । दृष्टो मया भवत्पुत्रो ऽवार्थी चङ्क्रम्यमाणः । अपरश्च द्विजो ब्राह्मणार्थी,
- कमलकः कश्चित्पुरुष इति पदमञ्जरी ।