काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 232, कुल 828 में से
संदर्भ में पढ़ेंयदि स तेन दृष्टो ऽभविष्यत् । तदा ऽभोक्ष्यत न तु भुक्तवान् । अन्येन पथा स गतः ॥ वोताप्योः ॥ १४१ ॥ भूते लिङ्निमित्ते लङ् क्रियातिपत्ताविति सर्वमनुवर्तते । वा वा उताप्योः वोताप्योः । मर्यादायामयमङ् नाभिविधौ । उताप्योः समर्थयोर्लिङिति वक्ष्यति प्रागेतस्मात् सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियाति- पत्तौ लृङ् वा भवतीत्येतदधिकृतं वेदितव्यम् । वक्ष्यति विभाषा कथमि लिङ् च । कथं नाम तत्र भवान्वृषलमयाजयिष्यत् । यथाप्राप्तं च, याजयेत् ॥ गर्हायां लडपिजात्वोः ॥ १४२ ॥ गर्हा कुत्सेत्यनर्थान्तरम् । गर्हायां गम्यमानायामपिजात्वोरुपपदयो- र्धातोर्लट् प्रत्ययो भवति । वर्तमाने लडुक्तः कालसामान्ये न प्राप्नोतीति विधी- यते । कालविशेषविहितांश्चापि प्रत्ययानयं परत्वाद् अस्मिन्विषये बाधते । अपि तत्र भवान्वृषलं याजयति, जातु तत्र भवान्वृषलं याजयति । गर्हामहे । अहो अन्याय्यमेतत् । लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ् न भवति ॥ विभाषा कथमि लिङ् च ॥ १४३ ॥ गर्हायामिति वर्तते । कथंशब्दउपपदे गर्हायां गम्यमानायां धातोर्लिङ् प्रत्ययो भवति । चकाराल्लट् च । विभाषाग्रहणं यथास्वं कालविषये विहिता- नामबाधनार्थम् । कथं नाम तत्र भवान्वृषलं याजयेत् । कथं नाम तत्र भवा- न्वृषलं याजयति, कथं नाम तत्र भवान्वृषलं याजयिष्यति । कथं नाम तत्र भवान्वृषलं याजयिता । कथं नाम तत्र भवान्वृषलं याजयेत् । कथं नाम तत्र भवान्वृषलमयाजयत् । कथं नाम तत्र भवान्वृषलं याजयांचकार । यत्र लिङ्गि- मित्तमस्तीति भूतविवक्षायां क्रियातिपत्तौ वा लृङ् । भविष्यद्विवक्षायां सर्वत्र नित्येनैव लृङा भवितव्यम् ॥ किंवृत्ते लिङ्लुटौ ॥ १४४ ॥ गर्हायामित्येव । विभाषा न स्वर्यते । किंवृत्तउपपदे गर्हायां गम्यमा- नायां धातोर्लिङ्लुटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । लिङ्ग्रहणं लटो ऽपरिहारार्थम् । को नाम वृषलो यं तत्र भवान् याजयेत् । यं तत्र भवा- न्वृषलं याजयिष्यति । कतरो नाम कतमो नाम यं तत्र भवान्वृषलं याजयेत् । याजयिष्यति । भूते क्रियातिपत्तौ वा लृङ् । भविष्यति तु नित्यम् । को नाम वृषलो यं तत्र भवानयाजयिष्यत् ॥ अनवक्लृप्त्यमर्षयोःकिंवृत्तेऽपि ॥ १४५ ॥ १५