काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 236, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ ॥ ३ ॥ २२६ लिङ् च ॥ १५९ ॥ इच्छार्थेषु समानकर्तृकेषु धातुषूपपदेषु धातोर्लिङ् प्रत्ययो भवति । भुञ्जीयेतीच्छति । अधीयीयेतीच्छति । क्रियातिपत्तौ लृङ् भवति * ॥ इच्छार्थेभ्यो विभाषा वर्तमाने ॥ १६० ॥ इच्छार्थेभ्यो धातुभ्यो वर्तमाने काले विभाषा लिङ् प्रत्ययो भवति । लटि प्राप्ते वचनम् । इच्छति । इच्छेत् । वष्टि । उश्यात् । कामयते । कामयेत ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥१६१ ॥ विधिः प्रेरणम् । निमन्त्रणं नियोगकरणम् । आमन्त्रणं कामचारकरणम् । अधीष्टः सत्कारपूर्वको व्यापारः । संप्रश्नः संप्रधारणम् । प्रार्थनं याञ्चा । विध्या- द्यर्थेषु धातोर्लिङ् प्रत्ययो भवति । सर्वलकाराणामपवादः । विध्यादयश्च प्रत्ययार्थविशेषणम् । विध्यादिविशिष्टेषु कर्त्रादिषु लिङ् प्रत्ययो भवति । विध