काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 237, कुल 828 में से
संदर्भ में पढ़ें२३० ॥ काशिका ॥ ३ ॥ ३ ॥ र्धिनावश्यं भवतीति। विधिप्रैषयोः को विशेषः। केचिदाहुः। अज्ञातज्ञापनं विधिः। प्रैषणं प्रैष इति ॥ लिङ् चोर्ध्वमौहूर्तिके ॥ १६४ ॥ प्रैषादयो वर्तन्ते। प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्त्तिकेऽर्थे वर्तमानाद्धा- तोर्लिङ् प्रत्ययो भवति। चकाराद्यथाप्राप्तं च। ऊर्ध्वं मुहूर्त्तादुपरिमुहूर्त्तस्य भवता खलु कटः कर्त्तव्यः। करणीयः। कार्यः। भवान्खलु कटं कुर्यात्। भवा- न्खलु करोतु। भवानिह प्रेषितः। भवानतिसृष्टः। भवान्प्राप्तकालः॥ स्मे लोट् ॥ १६५ ॥ प्रैषादिषूर्ध्वमौहूर्तिके इति वर्तते। स्मशब्दउपपदे प्रैषादिषु गम्यमानेष्वू- र्ध्वमौहूर्त्तिकेऽर्थे वर्तमानाद्धातोर्लोट् प्रत्ययो भवति। लिङ्कृत्यानामपवादः ऊर्ध्वं मुहूर्ताद्भवान्कटं करोतु स्म। ग्रामं गच्छतु स्म। माणवकमध्यापयतु स्म अधीष्टे च ॥ १६६ ॥ स्मलोटौ वर्तते। अधीष्टं व्याख्यातम्। स्मशब्दउपपदे ऽधीष्टे गम्यमाने धातोर्लोट् प्रत्ययो भवति। लिङोपवादः। अङ्ग स्म राजन्माणवकमध्यापय अङ्ग स्म राजन्नग्निहोत्रं जुहुधि ॥ कालसमयवेलासु तुमुन् ॥ १६७ ॥ कालादिषूपपदेषु धातोस्तुमुन्प्रत्ययो भवति। कालो भोक्तुम्। वेला भोक्तुम्। इह कस्मान्न भवति। कालः पचति भूतानीति। प्रैषादिग्रहण- मिहाभिसंबध्यते। इह कस्मान्न भवति। कालो भोजनस्य। वासरूपेण ल्युडपि भवति। उक्तमिदं स्त्र्यधिकारात्परत्र वासरूपविधिरनित्य इति ॥ लिङ् यदि ॥ १६८ ॥ कालादयोनुवर्तन्ते। यच्छब्दे उपपदे कालादिषु धातोर्लिङ् प्रत्ययो भवति। तुमुनोपवादः। कालो यद्भुञ्जीत भवान्। समयो यद्भुञ्जीत भवान्। वेला यद्भुञ्जीत भवान् ॥ अर्हे कृत्यतृचश्च ॥ १६९ ॥ अर्हतीत्यर्हः। तद्योग्यः। अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्य- तृचः प्रत्यया भवन्ति। चकारालिङ् च। भवता खलु कन्या वोढव्या। वाह्या। वहनीया। भवान् खलु कन्याया वोढा। भवान् खलु कन्यां वहेत्। भवाने- तदर्हतीति। अथ कस्मादर्हे कृत्यतृचो विधीयन्ते। यावता सामान्येन विहि- तत्वादर्हेपि भविष्यन्ति। योयमिह लिग्विधायते, तेन बाधा मा भूदिति। वासरूपविधिश्चानित्यः॥